एकलिङ्गमाहात्म्यम् काव्यमयम्
॥ श्रीमदेकलिङ्गो जयति ॥
॥ श्रीगणेशाय नमः ॥
॥ श्रीः ॥
श्रीमदेकलिङ्गमाहात्म्यस्य भिन्नपाठोद्धरणम्
(प्रारम्भे अष्ट पद्यानि कामदेवस्तुतिपराणि पठितानि)
अथ बाष्पधरणिनायकवंशोत्पत्तिं तु वर्णयाम्युच्चैः ।
या कीर्तनेन पुरुषान् पुनाति गङ्गेव किं बहुना ॥ ९॥
श्रीमद्वायुपुराणप्रभृतिषु नानाविधेषु शास्त्रेषु ।
अद्यापि या प्रसिद्धा श्रुता तु सर्वार्थसम्पदे भवति ॥ १०॥
कैलाशाचलशृङ्गे रजतादिकधातुराजिरत्नयुते ।
वरकिन्नरगणविरचितगीते सन्निर्जरोपेते ॥ ११॥
(अतः परं पौराणिकैकलिङ्गमाहात्म्यस्य चतुर्थाध्यायस्थवस्तु आर्याच्छन्दसि
वर्णितम् । तदनन्तरं कामधेनुवरदानसंज्ञस्य अष्टमाध्यायस्य इन्द्रवरदानसंज्ञस्य
नवमाध्यायस्य तीर्थयात्राफलसंज्ञस्य दशमाध्यायस्य च वस्तु तत्तच्छन्दसि
यत्किञ्चित् पाठभेदेन निविष्टम् ।)
जयति जगति विख्यातं सकलमहीलोकपावनं सुमहत् ।
श्रीमदेकलिङ्गदैवतगोत्रं वैजवापाह्वम् ॥ १॥
जयति तथाऽऽनन्दपुरे नागरकुलमण्डनो महीदेवः ।
यजनादिकर्मकुशल विजयादित्याभिधो विप्रः ॥ २॥
तत्तनयो द्विजवर्यः केशवनामा बभूव लोके ।
श्रुतयो यत्र चतस्रः षडङ्गसहिता विभान्ति ॥ ३॥
तस्य सुतो जगतीतलमखिलं तपसा सुखास्पदं कुर्वन् ।
नागा-राउल-नामा बभूव पात्रं स्मृतीनां यः ॥ ४॥
तत्पुत्रोऽजनि भोगारावलसंज्ञो धराधिपैर्वन्द्यः ।
असाधरो(?)ऽस्य सूनुः श्रीदेवाह्वो तनुजन्मा ॥ ५॥
तत्तनुजः सर्वज्ञो दक्षाध्वरकृद्विभूतिभृद्विमलः ।
स महादेवो भगवान् (?) अभिधानेनाभिधेयः ॥ ६॥
तस्य कुलालङ्करणो गुहदत्तोऽन्वर्थन्नामधेयोऽभूत् ।
अद्यापि यस्य नाम्ना वंशोऽयं ख्यातिमान् जगति ॥ ७॥
यदुक्तं (सु) पुरातनैः कविभिरानन्दपुरसमागतः ।
विप्रकुलानन्दनो (हि) गुहदत्तः श्रीगुहिलवंशस्य ॥ ८॥
श्रीमानभूत् स नृपतिर्गुहिलाभिधानो
धर्माच्छशास वसुधां मधुजित्प्रभावात् ।
यस्माद्ययौ गुहिलवर्णनतः प्रसिद्धिं
गौहिल्य-वंशभवराजगणोऽत्र जातः ॥ ९॥
गुहिलधरणिनाथस्तुङ्गरिङ्गत्प्रताप-
स्तरुणतरणिरेखो म्लानयन् वैरिचन्द्रान् ।
व्यचरदतिविचित्रं सन्ततं यत्पृथिव्या-
मदरि (पर) वधूटीपद्मिनीनां मुखाब्जम् ॥ १०॥
तनुजोऽस्य चैकलिङ्गप्रसादसम्प्राप्तराज्यलक्ष्मीकः ।
श्रीमेदपाटवसुधामपालयद्बाष्पपृथ्वीशः ॥ ११॥
यदुक्तं पुरातनैः कविभि . . . . . . . . . . . .
आकाशचन्द्रदिग्गजसङ्ख्ये संवत्सरे बभूवाद्यः ।
श्रीमदेकलिङ्गशङ्करलब्धवरो बाष्पभूपालः ॥ १२॥
यो नागह्रदनगरे तोडरमल्लः कृपाणधरतिलकः ।
अध्याष्ट स म(हि)नरेशो बलतनुभोज्यैः स्वयं भीमः ॥ १३॥
परिधाने यस्य पट्टी पञ्चत्रिंशत्करा दुकूलस्य ।
आच्छादनवरवस्त्रं षोडशहस्तं नृपस्य बाष्पस्य ॥ १४॥
चतुरश्चतुरश्छागान् कवलयति स्मासनेन योऽगस्तिः ।
पञ्चाशत्पलकनकजटोडरधारणे तु यो धीरः ॥ १५॥
द्वात्रिन्मणसुघटितकरवालं यो महान् करे चक्रे ।
एकप्रहारदानान्महिषद्वयपातने प्रबलः ॥ १६॥
रायङ्गुरु-चायङ्गुरु-सेलगुरु-रायचायं-परमगुरुः ।
वागाङ्गला-रायाञ्चा मुहवनवयद् (?) वंस विरुदानि ॥ १७॥
(सङ्गीतराजे पुष्पिकासु पठितोंऽशस्तुलनीयः यथा -रायङ्गुरु-वायङ्गुरु-सेलगुरु-
रायाञ्चा-परमगुरु-वागाङ्गला-रायाञ्चा-मुहवनराय-हिंसल्लराय-माचल्लपूर्व-
पश्चिमोत्तर-दक्षिणचतुर्दिशां रायाञ्चा आम्बुला-इत्यादि-विरुदावली-विराजमानः ।)
अनेकगुणसन्निधिः सुचरितैकलीलावधि-
र्जयप्रतप्तस्रे(शे)वधिः प्रहतवैरिवर्गोपधिः ।
यशोजितकलानिधिः सततसिद्धसन्निधिः
स शौर्यपरमावधिर्जयति बप्पवंशाम्बुधिः ॥ १८॥
प्रत्यर्थिवामनयना-नयनाम्बुधारा-
संवर्धितः क्षितिभुजां शिरसि प्ररूढः ।
यः कुण्ठितारिकरवाल -कुठार-धार-
स्तं ब्रूमहै गुहिलवंशमपारशाखम् ॥ १९॥
असुरवधफलोर्वी-मण्डलीकावतारा
हरय इव लसन्तः प्रोल्लसन्मावताराः ।
घनवनघनपट्टे सच्चतुर्दिक्कपाठे
बलिनृपजयिनोऽमी स्वामिनो मेदपाटे ॥ २०॥
सम्प्राप्याद्भुतमेकलिङ्गचरणं भोजप्रसादात् पलं
चास्मै दिव्यासुवर्णपादकटकं हारीतराशिर्ददौ ।
(सद्) बाष्पः स पुनः पुराणपुरुषः प्रारम्भनिर्वाहणात्
तुल्योत्साहगुणो बभूव नृपतिः श्रामेदपाटाधिपः ॥ २१॥
बाष्पे शिवे लयमुपेयुषि नीलकण्ठ-
प्रौढप्रसादमवसादमवाप्य तस्य ।
वंशो जगत्त्रयपवित्र-चरित्रपात्र-
मवाप्य खण्डमखिलां जगतीं प्रशास्ति ॥ २२॥
इह हि समरसिंहस्तस्य पुत्रः सुबाह-
स्त्रिभुवन-परिसम्पत् कीर्तिगङ्गाप्रवाहः ।
धरति धरणिभारं कूर्मपृष्ठवतारं
निजकरकमलेनाप्यायनायं(य) प्रवासं(सः) ॥ ४५॥
अजनि समरसिंहः कौस्तुभः क्षीरसिन्धा-
विव निधिरधिधाम्नामन्ववायेऽत्र भूपः ।
अधिगतपरभागः पुण्डरीकाक्षवक्षः-
स्थलपरिसरधृत्या प्राप्तसाम्राज्यलक्ष्मीः ॥ ४६॥
दुर्गे श्रीचित्रकूटे विलसितनृपतौ सर्वसामन्तचूडा-
रत्नप्रद्योतिताङ्घ्रावभवदिति मतिर्दृश्यथा सम्प्रभाति ।
सत्यं कृष्णः स कृष्णोऽभवदुचितमिदं कृत्तिवासाः शिवोऽभू-
च्छीतांशुः प्रत्यहंयत् क्षितिमतिकलुषां युक्तमेतन् बभार ॥ ४७॥
असुरनृसरजैत्रं चित्रकूटं पुराऽस्मिन्
भवति समरसिंहे शासति क्षोणिपाले ॥
कनककलशहेति-प्रस्फुरद्रश्मिजालै-
र्दिनमणि-किरणाली -सम्प्रकाशानपेक्षम् ॥ ४८॥
जगति कति न सन्ति प्रार्थितार्थप्रदान-
प्रकटितनिजशक्तिव्यक्तकीर्तिप्रपञ्चाः ।
परमिह परलोकः श्रीबशीकारसारं
श्रयति समरसिंहो दानमस्ताभिमानः ॥ ४९॥
क्वचित् कदाचिद्दानाम्बु हस्तो वर्षति वा न वा ।
श्रीमत्समसिंहस्य स तु सर्वत्र सर्वदा ॥ ५०॥
किं कोऽप्यहो समरसिंहनरेश्वरस्य
सद्धैर्यशौर्यनयकीर्तिकलाकलापम् ।
सङ्ख्यातुमत्र पटुधीर्भविताऽथवाऽऽस्ते
तस्मादलं लपन-पल्लव-लालनेन ॥ ५१॥
विद्युद्विभ्रमचञ्चलं खलु नृणामायुर्धनं यौवनं
सञ्चिन्त्येति विरञ्चि (सञ्चिन्त्यैवमकारि) शुद्धमनसा
कीर्तिः परं स्थायिनी ।
चन्द्राख्यप्रिययान्वितं(तः) स्वयमिमं(मयं) धारेश्वरः कारितो
लक्ष्मीः श्रीर्वदतीव सन्निपतता धाराम्भसाऽहर्निशम् ॥ ५२॥
केकी कस्मादकस्मादनुसरति मुदं किं मरालः करालो
वाचालश्चातकः किं किमिति तरुशिखामङ्गलोऽयं बकोटः ।
नैषा वर्षा घनाली विलसितभुवने किन्तु भोजप्रयाणे
लक्ष्यं नैवान्तरिक्षं चलितहयखुरोधूर्त(द्धूत) धूलीपटेन ॥ ५३॥
तुरङ्गलाला-गजदाननीर-
प्रवाहयोः सङ्गममुद्वहन्ती ।
अस्य प्रयाणे निखिलाऽपि भूमिः
प्रयागलक्ष्मीं बिभराम्बभूव ॥ ५४॥
आकर्ण्यं पन्नगीगीतं यस्य बाहुपराक्रमम् ।
शिरश्चालनया शेषश्चक्रे कम्पं परं भुवः ॥ ५५॥
त्यागेनापि मनोहरेण कृतिनो यं कर्मणाऽऽचक्षते
यं प्रार्थ्यं प्रार्थयन्ति (गणयन्ति) वैरिसुभुजः शौर्येण सत्त्वाधिकम् ।
यं रत्नाकरमामनन्ति गुणिनो धैर्येण मर्यादया
यं मेरुं हि समाश्रयेण विबुधाः शंसन्ति सर्वोन्नतम् ॥ ५६॥
भृगुपतिरिव दृप्तारातिसंहारकारी
सुरगुरुरिव शश्वन्नीतिमार्गानुसारी ।
स्मर इव सुरतेषु प्रेयसीचित्तहारी
शिविरिव स बभूव त्रस्तसत्त्वोपकारी ॥ ५७॥
यस्य धनुर्गुणकिणवति बिभ्रति विश्वम्भरां भुजादण्डे ।
क्लेशविशेषमशेषं शेषः परिहृत्य मुदितोऽस्ति ॥ ५८॥
योऽर्थान् पुपोषार्थिजनार्थमेव
सन्नीतिदक्षो व्यसनैर्विहीनः ।
विहीनसंसर्गपराङ्मुखस्य
स्त्रीसङ्ग्रहो यस्य सुतार्थमासीत् ॥ ५९॥
मतिरतिरभवत् तस्यासतीष्वपि वधूषु रम्यासु ।
अन्यासु पुष्पजातिषु जात्यां खलु मधुकरस्येव ॥ ६०॥
स रत्नसिंह (हं) तनयं नियोज्य
स्वचित्रकूटाचलरक्षणाय ।
महेशपूजाहतकल्मषौध
इलापतिः स्वर्गपतिर्बभूव ॥ ६१॥
अपरस्यां शाखायां माहपराहप्रमुखा महीपालाः ।
यद्वंशे नरपतयो गजपतयश्छत्रपतयोऽपि ॥ ६२॥
राणत्वं प्राप्तः सन् पृथिवीपतिराहपो भूपः ॥ ६३॥
यादवसैन्धवदार्भिकमौरिकचौलुक्यचाहुमानामानाख्यः ।
मक्तुबांणहूणतोमरपरमाराद्यैः संसेव्यते भुवि यः ॥ ६४॥
यथा ते मिथिलानाथा मैथिला इति कीर्तिताः ।
सीसौदपुरभूपालास्तथा सीसोदका अमी ॥ ६५॥
राहपमहीपतनयो हरसूस्तन्नन्दनो बबरू राजा ।
अजनि यशःकर्णोऽस्मात् तदङ्गजो नागपालनृपः ॥ ६६॥
पुत्रोऽस्य पूर्णपालस्तदङ्गजः फेखरोऽथ नरनाथः ।
तज्जोऽथ भुवनसिंहस्तदात्मजो भीमसिंहनृपः ॥ ६७॥
तत्तनुजो जयसिंहस्तदङ्गजो लक्ष्म्यसिंहनामाऽऽसीत् ।
सप्तभिरप्यात्मजैः सह भित्त्वा रविमण्डलं दिवं यातः ॥ ६८॥
तथा चोक्तं पुरातनैः कविभिः . . . . . . . .
षुम्माणवंशे खलु लक्ष्म्यसिंह-
स्तस्मिन् गते दुर्गवरं ररक्ष ।
कुलस्थितिं कापुरुषैर्विमुक्तां
न जातु धीराः पुरुषास्त्यजन्ति ॥ ६९॥
छित्त्वा शस्त्राणि शस्त्रैरथ रथनिकरैर्घातयित्वा रथौघा -
नश्वानश्वैर्निहत्य प्रबलगजतरान् पातयित्वा गजैश्च ।
हत्वा योधांश्च योधैरतिशकनिधनात् कालकालोपमेयो
लक्ष्मीसिंहस्य(श्च) कारातुलमतलमसं(यशः) (सङ्गरे)
सङ्गरज्ञः ॥ ७०॥
इत्थं म्लेच्छक्षयं कृत्वा सङ्ख्ये संवत्सरं नृपः ।
चित्रकूटाचलं रक्षन् शस्त्रपूतो दिवं ययो ॥ ७१॥
अर्चिभिः किमु सप्तभिः परिवृतः सप्तार्चिरत्रागतः
किं वा सप्तभिरेव सप्तिभिरितो यातः ससप्तिर्दिवि ।
इत्थं सप्तभिरन्वितः(ते) सुतवरैस्तैः शस्त्रपूतैः सह
प्राप्ते बुद्धिरभूत् सुपर्वनृपतेः (?) श्रीलक्ष्मी(क्ष्म्य)सिंहे नृपे ॥ ७२॥
असिर्यस्यासातेर्भ्रमयतितरां शीर्षकमले
स राड् गोगादेवोऽपि हि समधिभूर्मालवभुवः ।
विजिग्ये येनासौ निजभुजभुजङ्गोर्जगरल-
प्रसारात् सिंहान्तः समभवदसौ लक्ष्म्यनृपतिः ॥ ७३॥
योऽवन्यां पतितोऽप्यस्त्रैः पतितो न स्वधर्मतः ।
चूघलं पातयामास युद्धे योधं नराधिपः ॥ ७४॥
तदङ्गजो रसीराणो (?) रसियो(को) रणभूमिषु ।
चित्रकूटेन निश्रेण्या त्रिदिवं प्राप्तवान् प्रभुः ॥ ७५॥
अभून्नृसिंहप्रतिमोऽरिसिंह-
स्तदन्वये भव्यपरम्पराढ्ये ।
बिभेद यो वैरि-गजेन्द्रकुम्भ-
स्थलीमन्(लू) नां नखखङ्गघातैः ॥ ७६॥
पीतवैरिरुधिराद्विपुलाङ्गाद्
उद्गतादसिकृष्णभुजङ्गेन ।
अद्भुतं समभवत् सकलाशा-
मण्डनं नवयशो जलदाभम् ॥ ७७॥
शशिधवलया कीर्त्येव प्रताप-दिवाकराद्-
द्युतिमिलितया मन्ये प्रत्यवाप निजासनम् ।
रजतनिचयं दास्ये वो महारजतं तथा
त्यजतु विपुलां चिन्तां साऽवनीपकमण्डली ॥ ७८॥
तदङ्गजहम्मीरः (तदङ्गजोऽभूधम्मीरः)
प्रेक्ष्य यद्दाम(न) मुत्तमम् ।
लज्जयेवादृश्यभावं प्राप्ताः कल्पद्रुमादयः ॥ ७९॥
राधवे (आहवे) चेलवाटेशमहङ्कारमहोदधिम् ।
निस्त्रिंशचुलुकैः सम्यक् शोषयामास यो नृपः ॥ ८०॥
प्रह्लानलपुरं हत्वा तथेलादुर्गनायकान् ।
जितवान् जितकर्णं यो ज्येष्ठं श्रेष्ठो महीभृताम् ॥ ८१॥
बलीयांसं बलीभुजनामानं मेदिनीपतिः ।
हम्मीरदेवो हतवान् अर्जयन् कीर्तिमुत्तमाम् ॥ ८२॥
तथा चोक्तं पुरातनैः कविभिः-
हम्मीरवीरो रणरङ्गधीरो
वाग्माधुरीतर्जितकेकिकीरः ।
धराधवालङ्करणैकहीरः
सदावनीभूषितसिन्धुतीरः ॥ ८३॥
मन्येऽभूत सुरगौरगोः समभवत् कल्पद्रुमः कल्पना-
तीतो रोहणपर्वतोऽपि सुधियां नो मानसं रोहति ।
चित्तस्याधिपतेर्जडाच्च जडता धत्तेऽधिकां भूधवे
दानप्रोन्नतचारुपाणिकमले कर्णादयः के पुनः ॥ ८४॥
यदर्पितैरर्थिजनस्तुरङ्गमै-
रनर्घ्यंहेमाङ्गदहारकुण्डलैः ।
अलङ्कृतः कल्पतरौ कृताश्रयं
स (सु) राधिराजं हसतीव वैभवात् ॥ ८५॥
कटकतुरगह्रेषाविश्रुतेस्त्यक्तधैर्ये
व्रजति च रघुभूपे कान्दिशं कोऽपलायि ।
अहह विषमधाटी-प्रौढपञ्चाननोऽसा-
वरिपुरमतिदुर्गं चेलवाटं विजिग्ये ॥ ८६॥
ईश्वराराधने दाने वीरश्रीवरणे रणे ।
कदाचिन्नेव विश्रान्तः करो हम्मीरभूपतेः ॥ ८७॥
स क्षेत्रसिंहे तनये निधाय
तेजः स्वकीयं त्रिदिवं जगाम ।
बध्नौ यथार्कोऽस्तमयं हि भावो (वं)
महान्तमत्र (स्व) निसर्गसिद्धम् ॥ ८८॥
ततोऽरिभूमीशमहेभसिंहः
स्नानादवित्रासितमत्तसिंहः ।
संस्रावनामोदितभृत्यसिंह:
शशास भूमिं किल खेतसिंह: ॥ ८९॥
संग्रामाजिरसीम्नि शौर्यविलसद्दोर्दण्डहेलोल्लस-
च्चापप्रोद्गतबाणदृ(वृ)ष्टिशमितारातिप्रतापानलः ।
वीरश्रीरणमल्लमूर्जितशकक्ष्मापालगर्वान्तकं
स्फूर्जद्गुर्जरमण्डलेश्वरमसौ कारागृहेऽवीवसत् ॥ ९०॥
व्यर्थो हि नूनं महदुद्यमोऽय-
मित्थं वस(द)न् (त्तं)सफलं करिष्णुः ।
शोध्यां पुरीमातलमूलधारं
तं देलवाटं पुरमानिनाय ॥ ९१॥
वीरस्य यस्य समरेऽधिकरं कृपाणि(णीं)
कुञ्चीकृतां रिपुभटानिलवृद्धतृष्णाम् ।
दृष्ट्वा भुजङ्गयुवतीमिव वैरिवर्गा-
स्त्रासात् समुद्रमपि गोष्पदतामनैषुः ॥ ९२॥
माद्यन्माद्यन्महेभप्रखरकरहतिक्षिप्तराजन्ययूथो
यं स्वानःपत्तनेशो दफर(?) इति समासाद्य कुण्ठाम्बभूव ।
सोऽयं मल्लो रणादिः क्रकुलवनितादत्तवैधव्यदीक्षः
कारागारे यदीये नृपतिशतयुते संस्तरं नापि लेभे ॥ ९३॥
शश्वच्चञ्चलवाजिवीचितरलं सच्छस्त्र तिम्याकुलं
माद्यन्कुम्भिसपक्षखेलदचलं सोत्पातमीलज्जलम् ।
. . . . . . . . . . . . . . . . . . . . . . . . . . . . . . . .
यो रोषादपिबत् शकार्णवमगस्त्यं तं समूहेऽखिलम् ॥ ९४॥
हाडावटीदेशपतीन् स जित्वा
तन्मण्डलं चात्मवशं चकार ।
तदत्र चित्रं खलु यत्करान्तं
तदेव तेषामिह यो बभञ्ज ॥ ९५॥
यात्रोत्तुङ्गतरङ्गचञ्चलखुराघातोत्थितै रेणुभिः
सेहे यस्य न लुप्तराशिपटलो व्याजात् प्रतापं रविः ।
तच्चित्रं किल सान्तलादिकनृपा यत्प्राकृतास्तत्र सु-
स्तव्यैकः स पुराणकस्तु बलिनां सूक्ष्मो गुरुर्वऽपरः ॥ ९६॥
येनानर्गलभल्लदीनहृदया श्रीचित्रकूटान्तिके
तत्तत्सैनिकघोरवीरनिनदप्रध्वस्तवीर्योदया ।
मन्ये यावनवाहिनी निजपरित्राणस्य हेतोरलं
भूमिक्षेपणभी(तिभिः)परवशा पातालमूलं ययौ ॥ ९७॥
अनीकं सदाऽभक्षि(?) येनाहिनेव
स्फुरद्भेकसेकाङ्गवीरव्रजे(ते)न ।
जगत्त्राणकृद्यस्य पाणी कृपाणः
प्रसिद्धोऽभवद्भूपतिः क्षेत्रराणः ॥ ९८॥
शंसन् यो भृशमाजिलम्पटभटव्रातोच्छलच्छोणित-
च्छन्नप्रोद्गतपांशुपुञ्जविसरप्रादुर्भवत्कर्दमम् ।
अस्तोऽसौ महितो रण शकपतिर्यस्मात्तथा मालव-
क्ष्मापोऽद्यापि यथा भयेन श(च)कितः स्वप्नेऽपि तं
पश्यति ॥ ९९॥
वारं वारमनेकवारणघटासङ्घट्टवित्रासिता-
ऽनेकक्ष्मापतिवीरमालवशकाधीशैकगर्वान्तकः ।
सङ्ग्रामाजिरसङ्गतारिनगरीलुण्टाकबाहून् नृपान्
कारागारनिवासिनो व्यरचयद्यो गुर्जरान् भूमिपान् ॥ १००॥
रिपून् ससर्जाथ सरोजजन्मा-
ऽपेतोऽपि तान् संहरते सदैव ।
वनं(यं) न विद्मः कतरस्य हस्तं-
गतो द्वयोर्यास्यति कण्ठ(कान्त) भावम् ॥ १०१॥
गुरोः प्रसादादधिगम्य विद्या-
मष्टाङ्गयोगस्थिरचित्तवृत्तिः ।
ब्रह्मैकतां(यः) परमात्मभूयान्
जगाम संसारनिवृत्तबुद्धिः ॥ १०२॥
लीखा लेख्यः . . . . . . . . . . . . . .
विमोचितान् बहुविधघोर संस्यत्त- (संसृते ?)
र्विलोकितु जननिचयानिवागमत् ।
शिवान्तिकं शिवचरितः शिवाधच (?)
क(?) माम्बुजार्चन मरिहीण (?) कल्मषः ॥ १०३॥
अर्णो धोरणिपारिजात (सु) तरुश्चण्डद्युतेर्दण्डभृत्
यद्यत्सर्वसुपर्वणामधिपतेरासीर्ज(ज्ज)यन्तो यथा ।
ईशस्येव प्रजननी(?) रघुपतेर्यद्वत् कुशो भूपते-
रस्यासीदतुलप्रतापतनयः श्रीमोकलेन्द्रो गजः ॥ १०४॥
ऐश्वर्येण दिवस्पतिं मृगपतिं शौर्येण पाथः पतिं
गाम्भीर्येण वपुःश्रिया रतिपतिं कीर्त्या त्रियामापतिम् ।
औदार्यातिशयेन कर्णनृपतिं न्यायेन सीतापतिं
चातुर्येण बृहस्पतिं व्यजनयत् श्रीमोकलोर्वीपतिः ॥ १०५॥
यो विप्रान् नमितान् ह(क)लिं कलयतः कार्श्येन वृत्तेरलं
वेदं साङ्गमपाठयत् कलिमलग्रस्ते धरित्रीतले ।
दैत्यान् (?) मीन इवापरः श्रुतवतामानन्दकन्दः कला-
कौशल्यादिततिर्नवीनजलधौ भूमण्डलाखण्डलः ॥ १०६॥
दृष्ट्वैनं रचयन्तमद्भुततुलां हेम्नः सदा सम्पदो
यागाज्याहुतितर्पितो व्यरचयन् मन्ये तलोपायनम् ।
तत्पूर्त्यै कनकाचलं करमहारज्जू च चेलोपमौ
सूर्याचन्द्रमसौ हिमाद्धिमकरौ दण्डं सुरग्रामणीः ॥ १०७॥
एवं मुक्तयां विमुक्तपितृभिः प्रोल्लङ्घ्यमानां हठाद्
दृष्ट्वा संयमनी लिखत्यनुशयादित्थं न भूमेर्यमः ।
किं सामर्थ्यम्मपोहितं खलु कलेर्याताः क्व कामादयो
युक्तं याति न कोऽधिकारविरतेश्चक्रेऽधिकां कालताम् ॥ १०८॥
नलः किमैलः किमु मन्मथो वा
किमाश्विनेयद्वितयादिहैकः ।
कलङ्कमुक्तः किमु यामिनीशः
इत्थं जनो यत्र वितर्कमेति ॥ १०९॥
आलोक्याशु सपादलक्षमखिलं जालन्धरान् कम्पयन्
दिल्लीं शङ्कितनायकां व्यरचयन्नादाय शाकम्भरीम् ।
पीरोजं समहम्मदं शरशतैरापात्य यः प्रोल्लसत्
कुन्तव्रात निपातदीर्णहृदयान् तस्यावधीद्दन्तिनः ॥ ११०॥
नृपः समाधीश्वरसिद्धतेजाः
समाधिभाजां परमं रहस्यम् ।
आराध्य तस्यालयमुद्दधार
श्रीचित्रकूटे मणितोरणाङ्कम् ॥ १११॥
तीर्थमत्र ऋणमोचनं महत्
पापमोचनमपि क्षितीश्वरः ।
चारुकुण्डमपि सेतुमण्डनं
मण्डनं त्रिजगतामपि व्यधात् ॥ ११२॥
यः सुधांशुमुकुटप्रियाङ्गणे
वाहनं मृगपतिं मनोरमम् ।
निर्मितं सकलधातुभक्तिभिः
पीठरक्षणविधाविव व्यधात् ॥ ११३॥
पक्षिराजमपि चक्रपाणये
हेमनिर्मितमसौ ददौ नृपः ।
येन नीलजलदच्छविर्विभु-
श्चञ्चलायुतद्रवाधिकं बभौ ॥ ११४॥
जगति विश्रुतिमाप स मोकलः
प्रतिभटक्षितिपाल (?) स मोकलः ।
रविसुराधिप शेष (?) स मोकलः
प्रतिनिधिर्भवने (षु) स मोकलः ॥ ११५॥
स नृवरो नृवरोचितवेषभृत्
पवनभृत्पवनोदितवैभवः ।
अवनतोऽवनतोऽपि महत्तरः
सकलमोकलमोकलमोकलः ॥ ११६॥
दण्डश्छत्रेषु भीतिर्विह(ग)तिविहतितो बन्धनं सारणीषु
प्रायः साराम्बु (?) हिंसा रतिततिषु कटाक्षोऽङ्गुलीष्वैव(छेदः) ।
भेदः कोशेऽम्बुजानां हृतिरपि मनसश्चारु गेहेषु नित्यं
यस्मिन् शासत्यनर्घ्येऽभवदिह वसुधा राज-
राजन्वतीत्थम् ॥ ११७॥
व्यस्तै राजननन्दिनं (?) दिनमधि (?) पत्यैर्दधीच्यादिभि-
र्दानैरेभिरलङ्कृता ह्यनुकृतिर्व्यापारपारङ्गमैः ।
मन्येऽतीव निराकृताद्यवसुधानाथोरुदानक्रमः
श्रीमानत्र समस्तदाननिलयं ब्रह्माण्डदानं व्यधात् ॥ ११८॥
आयुष्मान् उद्भूतः सततमनु भूतार्थनिगमः
क्षमः प्रौढक्षोणीपरिदृढदृढोन्मानदहति(तौ) ।
चरित्रे स्वीयेऽन्वर्थमति (सु) पवित्रेण कलयन्
कलौ धर्माधारो गुरुगरिमभूर्मोकलविभुः ॥ ११९॥
अङ्गाः सम्प्राप्तभङ्गाः स्मृतवनविटपाः कामरूपा विरूपा
बङ्गा गङ्गैकसङ्गा गतविरुदमदा जातसादा निषादाः ।
चीनाः सङ्ग्रामदीनाः स्खलदसिधनुषो भीतिशुष्कास्तुरुष्का
भूमेः पृष्ठे गरिष्ठे स्फुरति महिमनि क्ष्मापतेर्मोकलस्य ॥ १२०॥
तापं तापं बाहुशौर्याग्निनासौ
क्षेपं क्षेपं वैरिरक्तौदकौघे ।
नायं नायं दार्ढ्यमेवं कृपाणीं
भेदं भेदं भानुबिम्बं विवेश ॥ १२१॥
॥ इति वंशवर्णनम् ॥
मुखवाद्यक्षीरसागरे राजवर्णनम् ?
इति महाराजाधिराजराद्यरायांराणेराय-
महाराणा श्रीकुम्भकर्णं महेन्द्रेण विरचिते मुख-
वाद्यक्षीरसागरे राजवर्णनो नाम . . . . . . . ।
बाष्पात् पञ्चाशत्पञ्चभिः पुरुषैरलङ्कृतोऽयं वंशः
श्रीमदेकलिङ्गपूजा कर्तव्या ततो महान् (महत्)
श्रेयो भविष्यतीति वचनात् ॥
मूर्ल धर्मन्तरोः फलं श्रुतवतां पुण्यस्य गेहं श्रिया-
माधारः सुगुणोत्करस्य जनिभूः सत्यस्य धामौजसः ।
धैर्यस्यापि परावधिः प्रतिनिधिः कल्पद्रुमस्याखिलां
वीरस्तत्तनयः प्रशास्ति जगतीं श्रीकुम्भकर्णो नृपः ॥ १॥
(कुम्भलगढप्रशस्तिगतं २३३ सङ्ख्यकपद्यम् ।)
समस्तदिग्मण्डललब्धवर्णः
स्फुरत्प्रतापाधरितार्कवर्णः ।
स्वदानभूम्ना जितभोजकर्ण-
स्ततो महीं रक्षति कुम्भकर्णः ॥ २॥
श्रीचित्रकूटे सुरराजवर्णः
प्रकृष्टदानादवधूतकर्णः ।
भूतेषु सर्वेषु च कुम्भकर्णः
प्रकाशते विष्णुरिवावतीर्णः ॥ ३॥
उपास्य जन्मत्रितये गजास्य-
कनीयसो मातरमेकशक्तेः ।
श्रीकुम्भकर्णोऽयमलम्भि साध्व्या
सौभाग्यदेव्या तनयस्त्रिशक्तिः ॥ ४॥
अतः क्षितिभुजां गणे निजकुलस्य चूडामणिः
प्रसिद्धगुणसम्भ्रमो जग(य)ति कुम्भनामा नृपः ।
प्रवीरमदभञ्जनः प्रमुदितः प्रजारञ्जना-
दजायताभि(कु)जायतेक्षण जितेन्द्रियाणां
मन्दिरः (वरः) ॥ ५॥
वेदानुद्धृत्य पश्चाद्भुवमपि भुजयोस्तां बिर्भात क्षिणोति
क्षुद्रान् बध्वा बलिद्विड्बलमहिततरं क्षत्रमुत्साद्य हत्वा ।
रक्षोरूपारिमुर्वी (?) भरनृपशमनः सुक्षमी म्लेच्छघाती
जीयात् श्रीकुम्भकर्णो दर्शाविधकृतिकृत् श्रीपतिः कोऽपि
नव्यः ॥ ६॥
लक्ष्मीशानन्दकृत्वा त्रिभुवनरमणीचित्तसम्मोहकृत्वा
लावण्यावासभृत्वा वपुरमलतया कुम्भकर्णो महीन्द्रः ।
कामं कामोऽस्तु सोऽस्त्री गुरुत इह परं स्त्रीजनं जेतुकामः
सङ्ग्रामेऽनेन साक्षात्क्रियत इति मतं स्त्रीजनोऽस्त्री-
जनोऽपि ॥ ७॥
विभ्राजते सकलभूवलयैकवीरः
श्रीमेदपाटवसुधोद्धरणैकधीरः ।
यस्यैकलिङ्गनिजसेवक इत्युदारा
कीर्तिप्रशस्तिरचलान् सुरभीकरोति ॥ ८॥
आ(नी)ताः काश्चिद्धठेन प्रतिनृपतिभटान्
दण्डयित्वा च काश्चित्
काश्चिद्राजन्यवर्यैर्धन्नगजतुरगैः सार्द्धमानीय दत्ताः ।
अन्याः प्रोढा विधाटीबलकृतहरणप्रत्यहं राजकन्या
नव्या नव्या महीभृत् सविधपरिणयत्येष कामो नवीनः ॥ ९॥
यवाली दवाली शिखावत् शिखाली
समालीढभाली कराली प्रताली (?) ।
मुनेरन्धकारे क्षणाद्यस्य सङ्ख्ये
क्षिपक्षेपमन्यैर्नयद्भूपदीपैः ॥ १०॥
त्यक्ता दीनादीन दीनाभिघात-
दीना बद्धा येन सारङ्गपुर्याम् ।
योषाः प्रोढाः पारसीकाधिपानां
ताः सङख्यातुं नैव शक्नोति कोऽपि ॥ ११॥
(कुम्भलगढप्रशस्तौ २६८ तमं पद्यम् ।)
महामहोयुक्ततरो न चैष
स्वस्वाभिघातेन धनार्जनान्ते ।
इ (अ) हीव सारङ्गपुरं विलोड्य
म (न) हेमदं (व) त्या जितवान् भवं (च) ॥ १२॥
(जितवान् महं भवम् इति मूलपाठः)
गर्जन्म्लेच्छतिमिङ्गलाकुलतरं रङ्गत्तुरङ्गोर्मिमन्
मातङ्गोद्धतनक्रचक्रममितप्राकारखेलाचलम् ।
एतद्दग्धपुराग्निवाडवमसौ यन्मालवम्भोनिधिं
क्षोणीशः पिबति स्म खङ्गचुलुकैस्तस्मादगस्त्यः स्फुटम् ॥ १३॥
(कुम्भलगढप्रशस्तौ २७० तमं पद्यम् ।)
आढिल्लिकुम्भनृपतिस्तरसैव मास-
मात्रेण नागपुरवासिशकान्निरस्य ।
आपश्चिमार्णवमिलामजयच्च चित्रं
शाकम्भरीवसुधयाऽजयमेरुणा च ॥ १४॥
सा धारा येन भूमिः प्रतिभटवसुधाराजजैत्रोग्रधाम्ना
दीनेषु स्वर्णधारा धरणिवितरणादेकधाराधरो यः ।
निर्धारा यस्य नानागुणगरिमगतेः कः सुधाराशिमौलि-
र्यत्खङ्गस्योग्रधारामसहत समरे नैव धारापुरीन्द्रः ॥ १५॥
अमीसाहं हत्वा रणभुवि पुरा मालवपतिं
जयोत्कर्षं हर्षादलभत किल क्षेत्रनृपतिः ।
तथैव श्रीकुम्भः खिलिविमहमदं गजघटा-
वृतं सङ्ख्येऽजैषीन्न हिलजः (?) . . . . . (?) कोऽप्यसदृशः ॥ १६॥
हेलोन्मूलितमल्लवंशककुदं बन्दीम(क)रन्नर्बुदं
दुर्गाद्रावितदुष्टतापमृगकं भङ्क्त्वा पुरं वायसम् ।
तोडामण्डलमग्रहीच्च सहसा जित्वा शकं दुर्जयं
जीव्याद्वर्षशतं सभृत्यतुरगः श्रीकुम्भकर्णो भुवि ॥ १७॥
शेषाङ्गद्युतिगर्वहृन्नरपतेर्यस्येन्दुधामोज्ज्वला
कीर्तिः शेषसरस्वती विजयिनी यस्यामला भारती ।
शेषः स्फीतिधरः क्षमाभरभृतौ यस्योरुशौर्यो भुजः
शेषं नागपुरं निपात्य च कथाशेषं व्यधाद्भूपतिः ॥ १८॥
शकाधिपानां व्रजतामधस्ता-
ददर्शयन्नागपुरस्य मार्गम् ।
प्रज्वाल्य पेरोजमशीतिमुच्चां
निपात्य तं नागपुरं प्रवीरः ॥ १९॥
निपात्य दुर्गं परिखां प्रपूर्य
गजान् गृहीत्वा यवनीश्च बद्ध्वा ।
अदण्डयद्यो यवनानन्तान्
विडम्बयन् गुर्जरभूमिभर्तुः ॥ २०॥
मूलं नागपुरं महच्छकतरोरुन्मूल्य नूनं मही-
नाथो यः पुनरच्छिदत्समदहच्चाश्वान् मशीत्या सह् ।
तस्मान्म्लानिमवाप्य दूरमपतन् शाखाश्च पत्राण्यहो
सत्यं याति न को विनाशमधिकं मूलस्य नाशे सति ॥ २१॥
लक्षाणि च द्वादशगोमवल्ली-
रमोचयद्दुर्यवनालयेभ्यः ।
तं गोचरं नागपुरं विधाय
चिराय यो ब्राह्मणसादकार्षीत् ॥ २२॥
१८-२३-तमपद्यानि कीर्तिस्तम्भप्रशस्तौ
१८-२८-तमपद्येषु क्रमभेदेन प्राप्तानि ।
कैलाशाचलसुन्दरं हिमगिरिश्रीगर्वसर्वङ्कषं
नानाहेमवदानतं (सु) किरणैर्मेरोहंसन्तं श्रियम् ।
स(र्वो)र्वीतिलकोपमं मुकुटवच्छ्रीचित्रकूटाचले
कुम्भस्वामिन आलयं व्यरचयच्छ्रीकुम्भकर्णो विभुः ॥ २३॥
समकरोदचलेश्वरसन्निधा-
वचलदुर्गमसौ जगतीपतिः ।
यवनवारवधादिव तोषितो
मुकुटमर्बुदभूमिभृतो व्यधात् ॥ २४॥
(अत्रत्ये २४-२५ सङ्ख्यके कीर्त्तिस्तम्भप्रशस्तौ १४७ -१४८ सङ्ख्यके स्तः ।)
योऽयं राजगुरुश्च दानगुरुरित्युर्व्यां प्रसिद्धश्च यो
योऽसौ सेलगुरुगुरुश्च परमः प्रोद्दामभूमीभुजाम् ।
यो वल्गाधिकवीरवन्दितपदः प्राच्यप्रतीच्योत्तर-
प्रोद्यद्दक्षिणभूपमण्डनमणिः कुम्भो विजेजीयते ॥ २५॥
अमूमुचच्चतुर्वेदविचारचतुराननः ।
गयां यवनकारातो गं (?) जातस्तापसीभिश्च ॥ २६॥
(कीर्त्तिस्तम्भप्रशस्तौ १५५ सङ्ख्यकपद्यमिदम् ।)
गयाकाशीप्रयागादिविमुक्तिः प्रतिवत्सरम् ।
न स्तुतिः कुम्भभूभर्तुः कुलाचारो यतोऽस्य सः ॥ २७॥
वेदपारायणं यस्य सहस्रं ब्राह्मणोत्तमाः ।
गायन्ति सर्वतीर्थेषु राजवेश्मसुवेश्मसु ॥ २८॥
पात्रसादकृतवित्तमादरात् विप्रसादकृतभूयसीर्भुवि(वः) ।
कृष्णसादकृतमानसं नृपः शास्त्रसादकृतदृष्टिगौरवम् ॥ २९॥
(कीर्त्तिस्तम्भप्रशस्तौ १५६ सङ्ख्यं पद्यम् ।)
आलोड्याखिलभारतं विलसितं सङ्गीतराजं व्यधात्
औद्धत्यावधिरञ्जसा समतनोत् सूडप्रबन्धाधिपम् ।
नानालङ्कृतिसंस्कृतां व्यरचयच्चण्डीशतव्याकृतिं
वागीशो जगतीतलं कलयति श्रीकुम्भदम्भात्किल ॥ ३०॥
(कीर्त्तिस्तम्भप्रशस्तौ १५७ सङ्ख्यम् ।)
अज्ञानार्णवमग्नमज्ञजनताऽहङ्कारवेलावली-
छन्नं व्याप्तमनिन्दितैरकलुषैर्नव्येरगाधै रसैः ।
सङ्गीतामृतमद्भुतं निपुणधीरुद्धृत्य भूमीपति-
र्देवान् विष्णुरिवामृतं क्षितिसुरान् योऽपाययन्नित्यशः ॥ ३१॥
वेदा यन्मौलिरत्नं स्मृतिविहितमतं सर्वदा कण्ठभूषा
मीमांसे कुण्डले द्वे हृदि भरतमुनिव्याहृतं हारवल्ली ।
सर्वाङ्गीणं प्रकृष्टं कवचमपि परे राजनीतिप्रयोगाः
सार्वज्ञं बिभ्रुदुच्चैरगणितगुणभूर्भासते कुम्भभूपः ॥ ३२॥
अष्टव्याकरणी विकास्युपनिषत्स्पष्टाष्टदंष्ट्रोत्कटः
षट्तर्की विकटोक्तियुक्तिविसरत् प्रस्फारगुञ्जारवः ।
सिद्धान्तोद्धृतकाननैकवसतिः साहित्यभूक्रीडनो
गर्जद्वादिगणान्विदार्य(जयते) प्रज्ञास्फुरत्केसरी ॥ ३३॥
येनाकारि मुरारिसङ्गतिरसप्रस्यन्दिनी नन्दिनी
वृत्तिर्व्याकृतिचातुरीभिरतुला श्रीगीतगौविन्दके ।
श्रीकर्णाटकमेदपाटसुमहाराष्ट्रादिके योद(ऽज) यद्-
वाणीगुम्फमयां चतुष्टयमयं सन्नाटकानां व्यधात् ॥ ३४॥
(कीर्त्तिस्तम्भप्रशस्तौ १५७ सङ्ख्यम् ।)
श्रीवासुदेवचरणाम्बुजभक्तिलग्न-
चेता महीपतिरसौ स्वरपाटतेनान् ।
धातूननिन्द्यजयदेवकवीन्द्रगीत-
गोविन्दकं व्यरचयत्किल नव्यरूपान् ॥ ३५॥
सकलकविनृपालीमौलिमाणिक्यरोचि-
र्मधुररणितवीणावाद्यवैशद्यबिन्दुः ।
मधुकरकुललीलाहारिशारीरशाली
जयति जगति कुम्भो भूरिशौर्यांशुमाली ॥ ३६॥
(कीर्त्तिस्तम्भप्रशस्तौ १६० सङ्ख्यम् ।)
राजानः कति वा न सन्ति भुवने भूयस्तरश्रीभृतः
कि तैरक्षततत्त्वशून्यहृदयैरुद्धैर्यं भावाश्रयैः (रुद्धगतश्रयैः) ।
साहित्यामृतसिन्धुरक्षरविदां बन्धुः प्रबन्धे कृती
दोर्दण्डाधिनृपान्धकारतरणिः कुम्भोऽग्रणीः क्ष्माभृताम् ॥ ३७॥
तावत्कल्पतरुविभाति विपुलस्तावच्च चिन्तामणि-
स्तावत् कामगवी च दानजनिभूस्तावत् सुवणचिलः ।
तावत् कर्णमहीपतिश्च सुमतिस्तावद्बलिर्भूपति-
र्नो यावत् कनकातिमार्गणगणैः श्रीकुम्भकर्णोऽर्थ्यते ॥ ३८॥
(कीर्तिस्तम्भप्रशस्ती १६१ सङ्ख्यम् ।)
आबाल्याद्विजयोत्सुकस्य विभर्वैर्विष्णोः प्रियां पुण्यतः
पात्रप्रीणनमेव धर्ममवतः सत्योक्तमातन्वतः ।
दाने दैत्यभिदः सतां गुणयतो रक्षार्थपक्षस्थिते
श्रीमत्कुम्भनरेश्वरस्य सुधियः के के न रम्या गुणाः ॥ ३९॥
विचित्रचैत्रोत्सवसङ्गतारि-
सामन्तसीमन्तवत्तींशिरःसु ।
सिन्दूरपूरानपसार्यं दूरं
सेनारजो यस्य पदं न्यधत्त ॥ ४०॥
विपञ्चीं विन्यस्य स्वकरकमले कोमलभरैः स्वरैः ।
स्वस्थानस्थैर्नखमुख(गदितैर्नादयन्) तन्तुततिभिः ॥ ४१॥
नाटकप्रकरणाङ्कवीथिका-
नाटिकासमवकारभाणके ।
प्रोल्लसत्प्रहसनादिरूपके
नव्य एष भरतो महीपतिः ॥ ४२॥
(कीर्तिस्तम्भप्रशस्ती १६६ सङ्ख्यम् ।)
स्फूर्जन्द्गुर्जरमानवेश्वरसुरत्राणो(हि)सैन्यार्णव-
व्यस्ताव्यस्तसमस्तवारणवनप्राग्भारकुम्भोद्भवः ।
औद्धत्यप्रथमानपार्थिवरणप्रारम्भदीक्षागुरु-
र्वर्ण्यः (कुम्भ) महीपतिर्वसुमतीविश्वेश्वरो राजते ॥ ४३॥
(कीर्तिस्तम्भप्रशस्ती १७२ सङ्ख्यम् ।)
गतत्राणः सुरत्राणो गुर्जरो जर्जरीकृतः ।
खेदितः खिलचीक्षेत्रे(ऽने)कशः कुम्भभृभुजा ॥ ४४॥
लाटः स्विद्यल्ललाटः स्फुटरटनपटुर्भोटभूपप्रदाता
कर्णाटः पूःकपाटो मुखपटघटितस्वाङ्गुलिर्जाङ्गलेन्द्रः ।
नश्यन्नङ्गः कलिङ्गः कुरुरुरुचितयो (?) मालवः कालचक्र-
स्त्यक्तौजा गुर्जरेशः समजनि जयिनो यस्य राज्ञः प्रयाणे ॥ ४५॥
येनासङ्ख्येयसङ्ख्यावनिभटसुभटौ वैरिघातैकदक्षौ
तत्तद्धस्ताश्वपत्याकुलतरकटकौ ढिल्लिकागुर्जरेशौ ।
छत्रे रत्नौघरश्मिप्रकरपरिलसत्सम्पदौ दण्डितौ तत्
कीटाः के कोटिशोऽन्ये हि जगदपसदा मालवाधीश्वराद्याः ॥ ४६॥
स्वाट्चाट्(?पाट्) पटुः (?) समण्डलकरं मण्डोवरं मण्डयन्
भूमिं योऽजयमेरुगां सुफणजां भुञ्जन् भुजोर्जस्वलः ।
सेनासागरगौर्जरोत्तरसुरत्राणातपत्रासिमान्
भूपालावलिभालभूषणमणिः श्रीकुम्भकर्णो जयी ॥ ४७॥
रे मूढाः किमुपास्यते गुणिगणप्रावीण्यपाटच्चरो
भूभृद्वृन्दमनेककाकुरचनाचातुर्यचाटूक्तिभिः ।
श्रीकुम्भः सकलाभिलाषफलदश्चेदूर्जितः प्राप्यते
सौरभ्यं यदि मौक्तिके किमपरं श्लाघ्यं भवेद्भूतले ॥ ४८॥
(रसिकप्रियेत्याख्यायां गीतगोविन्दवृत्त्यामन्तिमपुष्पिकान्तर्गतं पद्यमिदम् ।)
श्रीमन्मोकलभूपतेः समुदितः सौभाग्यभूमावधि-
र्या प्रासूत लसत्प्रतापरणिं सौभाग्यदेवी सुतम् ।
येनासाद्य गुरोः कलाश्च सकला दत्वा द्विजेभ्यो भुवं
भुङ्क्ते कुम्भनरेश्वरः कुचभराभुग्नामिव प्रेयसीम् ॥ ४९॥
(कीर्तिस्तम्भप्रशस्तौ १८०-१८१ सङ्ख्ये पद्ये ।)
वेणीव्याजलसद्भुजङ्गललनालावण्यलीलालया
सौन्दर्यामृतदीर्धिकापरिलसन्नालीकनेत्रद्वया ।
कुम्भारम्भकुचद्वयोपरिलसन्नामुक्तमुक्ताचया
यस्यानङ्गकुतूहलैकपदवी कुम्भल्लदेवी प्रिया ॥ ५०॥
कृष्णः कुम्भेन्द्रभूपः प्रमुदितकमला कुम्भलादेविकेयं
भोगिन्यो गोपकन्या भुवि नवमथुरा चित्रकूटाचलस्था ।
नन्दः श्रीमोकलेन्द्रः प्रकटितशुभसौभाग्यनाम्नी यशोदा
रक्षोव्रातं निहन्तुं पुनरजनि जगद्गोपरूपो मुरारिः ॥ ५१॥
स श्रीकुम्भमहीपतिरखिलां जगतीं प्रतिपालयन्
श्रीमत्कुम्भलमेरु(शौर्यान्) दुर्गं कृत्वा बलजितारिगणः ॥ ५२॥
तदनु स्वपूर्वपुरुषकर्णनरेश्वरस्य दुर्गमहारम् ।
श्रीकलशमेरुसञ्ज्ञं करोति कुधराधीशः ॥ ५३॥
श्रीमेदपाटं देशं रक्षति यो दुर्गमन्यदेशांश्च ।
तस्य गुणानखिलानपि वक्तुं नालं चतुर्वदनः ॥ ५४॥
तत्रादौ ब्रह्मसूतः पुलस्त्यनामा बभूष(व) ऋषिराजः ।
तस्याश्रमः पवित्रो ह्याहोरे पर्वतेऽद्यापि ॥ ५५॥
सुरनरफणिगणवन्द्यो यत्र पुलस्त्येश्वरो महादेवः ।
श्रीविप्रोऽसौ स्म लभते कैकस्यां रावणादिसुतान् ॥ ५६॥
यस्मिन्नाहोरगिरौ मतिमान् दशकन्धरो महातेजाः ।
आराध्य चन्द्रचूडं लङ्कापतिभावमापन्नः ॥ ५७॥
यत्र वटाः श्रीरावणकुम्भविभीषणसहोदरैरुप्ताः ।
अद्यापि मूर्तिमन्तो जटाः प्रतिभान्तीव धूर्जटेरेव ॥ ५८॥
यः पूर्वं भरताय नाट्यनिगमं पद्मोद्भवः प्रीतितः
साङ्गं शम्भुरदीदिशत् स समयादुत्सन्नकल्पोऽभवत् ।
लोकानां हितकाम्यया स भगवान् श्रीकुम्भकर्णः क्षमा-
धीशव्याजमुपेत्य वीतविषयं तं वक्ति भूयो वशी ॥ ५९॥
ग्रन्थान् सम्यगधीत्य बुद्धिविषयं नीत्वाऽनुभूयार्थतः
कृत्वा दर्शनगोचरानभिनयैर्नानाभिनेयाश्रितैः ।
तान् शिष्यप्रतिशिष्यशिक्षणपथं नेतुं यथाऽवस्थितान्
श्रीकुम्भः पृथिवीश्वरः प्रयतते स्वोपज्ञसन्दर्भतः ॥ ६०॥
यः पूर्वं चतुराननेन चतुरः संस्मृत्य वेदांस्ततस्
तत्त्रैवर्णिकतां विधानपरतां चावेक्ष्य सम्यक् स्मृतः ।
श्रीकुम्भः सकलागमैकनिलयः शास्ताखिलक्ष्माभृताम् ।
सं(बध्नाति हि) सार्ववणिकमिमं वेदं विदामग्रणीः ॥ ६१॥
यः श्रुत्वा भरतं चतुर्भिरखिलैर्भाष्यैश्च रत्नाकरं
सोपायं बहुशो विलोक्य निखिलान् नाट्यागमान् वीक्ष्य च ।
गौरीनन्दिमते मतङ्गशिवसङ्गीते सशार्दूलके
दृष्ट्वा दत्तिलदुर्गशक्तिभणतीस्ता नारदोक्तीरपि ॥ ६२॥
वायुस्वातिमहेन्द्रकश्यपमरुत्सून्वर्जुनाद्यैः कृतान्
रम्भातुम्बुरुकम्बलाश्वतररक्षोराजसन्दर्भितान् ।
श्रीसोमेश्वरभोजराजरचितान् ग्रन्थान् विलोक्य त्वमुं
तत्सारेण समुच्चितेन कुरुते कुम्भो नृपग्रामणीः ॥ ६३॥
(अत्रत्यानि ५१-६३ सङ्ख्यकानि पद्यानि सङ्गीतराजे १.१.१.३६-४०
सङ्ख्यकानि ।)
स श्रोकुम्भो धराधीश(शः) श्रीवाद्यक्षीरसागरम् ।
कल्लोलकेलिं कलन्तं (?) तरङ्गोद्भङ्गसन्ततिम् ॥ ६४॥
तालपाटकदम्बाढ्यं छन्दोनद्यागमोत्कटम् ।
सद्वाद्यद्वीपसन्दोहं विरदाम्बुदसौहृदम् ॥ ६५॥
पाटरत्नविधानेद्धं राजवर्णोर्मिराजितम् ।
लघुगुरुद्रुतव्रातप्लुतपर्वतशोभितम् ॥ ६६॥
(श्री) मत्कलशवाद्यश्रीनारायणपरायण (णः) ।
तनुते श्रीमतेनैव सौख्यपीयूषवृद्धये ॥ ६७॥
इति महाराजाधिराजराद्यरायांराणेराय-
महाराणा श्रीकुम्भकर्णं महेन्द्रेण विरचिते मुख-
वाद्यक्षीरसागरे राजवर्णनो नाम . . . . . . . ।
बाष्पात् पञ्चाशत्पञ्चभिः पुरुषैरलङ्कृतोऽयं वंशः
श्रीमदेकलिङ्गपूजा कर्तव्या ततो महान् (महत्)
श्रेयो भविष्यतीति वचनात् ॥
॥ अथ पञ्चायतनस्तुतिः ॥
ध्यात्वा श्रीगणनायकं भगवतीं देवीं तथा भारतीं
स्मृत्वा श्रीभरतादिकान् मुनिवरान् सङ्गीतविद्यागुरून् ।
कृत्वा भारतशास्त्रसारचतुरं सङ्गीतराजं नवं
श्रीमान् कुम्भनरेश्वरः प्रकुरुते वाद्यप्रबन्धान् सुधीः ॥ १॥
छन्दोभिः सुमनोहरैः श्रवणयोः पीयूषधारोत्करै-
र्वर्णैः प्रासविभूषितैर्यतिलयस्वस्थानसंवेशितैः ।
ताले कुत्रचिदीप्सिते कविरिव प्रायः प्रबन्धान् सुधी-
धुर्यः कोऽपि सुकाव्यकारनृपतिर्बध्नाति बन्धोद्धुरान् ॥ २॥
॥ अथ गणेशः ॥
॥ यतिताले ॥
अव्ययमद्वयरदनं शुभसदनं द्विरदवरवदनम् ।
गणपतिमतिगुणगणपतिमिह सेवे कुम्भनृपसुखदम् ॥ १॥
षण्मुखमुखानि पातुं पय आशु कुचद्वये यस्याः ।
विवदन्ते सा गौरी श्रीकुम्भक्ष्मापतिं पातु ॥ २॥
वन्दे वरदां वरदाङ्कुशपाशाभयकरां तु तामार्याम् ।
पथ्यां कुम्भनृपप्रार्थ्यां हरिहरभुजदृष्टिमुदितरुचिराम् ॥ ३॥
श्रीकुम्भभूमिपकुलोदयसेतुहेतु-
र्जीवातुरातुरनृणां झषकेतुहेतुः ।
गङ्गोत्तरङ्गरसरङ्गसदुत्तमाङ्गः
स्तादेकलिङ्ग उपलिङ्ग हरो हराङ्गः ॥ ४॥
॥ आदिताले ॥
सर्वारम्भे प्रथमतयैवाराध्यः
कुम्भाध्यातः सफलितसम्पत्साध्यः ।
सिन्दूरौघः प्रकटितसम्पाशो यः
सिद्धीशोऽव्याज्जलधरमालारूपः ॥ ५॥
जय जय कुम्भनृपाघनिवारण
जय जय कुङ्कुमकलितनवारण ।
जय जय वदनविराजितवारण
छन्दोऽडिल्लाजितहरिवारण ॥ ६॥
यद्वक्त्रे मदलेखा यं ध्यायन्ति च लेखाः ।
यो लोकत्रयपाताऽसौ कुम्भोदयदाता ॥ ७॥
लम्बोदरदेवः कुम्भादृतसेवः ।
पूर्णा परमध्या देयात् तनुमध्या ॥ ८॥
॥ प्रतिमण्ठताले ॥
हेरम्बो निर्विलम्बोऽवितनतरचितानन्दकन्दप्रसादः
केलिक्रोडत्कपोलद्वयमदमधुपश्रोणिझङ्कारनादः ।
सन्तानस्रग्धराम्बाकृतसुखसुषमासारसल्लासहास्यः
सोऽस्तु श्रीकुम्भकर्णावनिरमणमणेः सिद्धिदः सिन्धुरास्यः ॥ ९॥
शुण्डादण्डोद्दण्डं चण्डं वक्त्रे तुण्डं बिभ्राणं
. . . . दित्यै क्ष्माखण्डं खण्डं खण्डं कुर्वाणम् ।
कामक्रीडासव्रीडं श्रीकुम्भश्रेयोदातारं
दुर्गाभर्गोऽपत्यं सेवे देवं (पारे) संसारम् ॥ १०॥
गणनया गणनायको गुहो मुखपङ्क्तिगुरुनासिकामहो ।
वदतोरिति (? ) कुम्भभूपतेर्वैतालीयरवैः शुभायते ॥ ११॥
॥ यतिताले ॥
मतिविद्यासागरकारुण्याकरगौरीशङ्करसञ्जातं
गुणलीलानिर्भरभूतारोद्धरकुम्भाधीश्वरविख्यातम् ।
सुरवीथीवन्दितविश्वानन्दितसिन्दूराञ्चितसामोदं
भजताधारं सुकृतागारं सुरशृङ्गारं परमानन्दम् (सानन्दम्) ॥ १२॥
वृषद्विजविराजितदेह कपोल (वि) लोलमधुकृतगेह ।
त्रिनेत्रचतुर्भुजशोभितधामद धज्जय (?) निर्मलमौक्तिकदाम ।
मोदकवल्लभ वल्लभदैवत मोदकवल्लभ मुख्यसुरार्चित ।
विघ्नप शैलसुताशिवमोदक राजसि कुम्भमहीपतिमोदक ॥ १३॥
॥ इति गणेशः ॥
॥ अथ सूर्यः ॥
करमोदक धामसुलोचन देव दिनेश जगत्त्रयनायक ॥
. . . . . . कुम्भमहीपमहोदयदायक ॥ १॥
॥ अद्भु(त)ताले ॥
रागे सहस्रकिरणा . . . . . . श्रीः
किङ्किल्लिकिंशुकशुकाननकाननश्रीः ।
प्राप्ता वसन्ततिलका तिलकप्रकाशा
श्रीकुम्भभूपति (वि)राजविराजिताशा ॥ २॥
अचलदिग्वासिता व्योमचूडामणे
कलशभूपोल्लसितचिन्तामणे ।
नमति यस्त्वामुदारं सदारं शुभा
भजति तं भामिनी तूर्वशीसन्निभा ॥ ३॥
विद्यालयग्राहितेजःप्रपन्नः सेवासमारम्भ . . . . प्रसन्नः
पूर्वाद्रिसान्द्रार्द्र सिन्दूरपूरः हृद्ध्वान्तविध्वंसने भाति शूरः ।
सूर्यो भास्वान् धर्मधामेन्ति नामा भूयात्कुम्भप्राप्तधर्मार्थकामः ।
अद्धा श्रद्धाशालिनीष्टा हि चित्ते भुक्तिं मुक्तिं भक्तिरेवास्य दत्त ॥ ४॥
॥ झम्पाताले ॥
अथ तोटकघोटकयानवरं नलिनीवनकोकविशोककरम् ।
नृपकुम्भकृपाकरमुष्णकरं भज मानवदानवदर्पहरम् ॥ ५॥
भुजङ्गप्रयातद्विषद्बन्धतस्तं त्रिशम्भुत्रयीतत्त्वतेजःप्रभूतम् ।
महादेहसन्दोहरक्षःप्रमाथं भजे भास्वरं भास्करं कुम्भनाथम् ॥ ६॥
स्रग्विणीत्वष्टकन्येसतोरणे (?) यः क्षमोऽपारसंसारसन्तारणे ।
भासतेऽहस्करः सौमनस्तस्करः कुम्भभूपप्रभारूपसम्पत्करः ॥ ७॥
॥ मण्ठताले ॥
पद्मिनीपरागरागयुक्तरक्तरश्मिराशि-
भासमानसानशैलसानुचित्रभानुराज ।
राजमानमोषपोषहृष्टतुष्टसर्वदेव
सर्वदा जयावनीतकुम्भगीतवृत्तसेव ॥ ८॥
ग्रहेशविघ्ननाशवासुदेवशङ्करीश्वराः
प्रपञ्चपञ्चभूतभूतिदास्तु पञ्चचामराः ।
इमे हि येऽपि पञ्चतेषु मुख्य एव राजसे
नमो दिनेश देव ! तेऽस्तु दत्तकुम्भतेजसे ॥ ९॥
॥ इति सूर्यः ॥
॥ अथ नारायणः ॥
॥ ?? ताले ॥
चराचरं जगच्चिरं स्वलीलया सृजेदिदं
दधाति पाति सेवितो ददाति यः स्थिरं पदम् ।
नरा नरायणं नमन्तु कुम्भराणतारणं
क्षमारमामनोरमं परं तमादिकारणम् ॥ १॥
यत्पदाब्जवन्दनं महाघखण्डखण्डनं
वत्स राम राम राम नाम यामदण्डनम् ।
तूणकोपनीतबाणभिन्नरौद्ररावणं
(तं) भजामि राघवं हि कुम्भकामपूरणम् ॥ २॥
पीनमीनकूर्मकोलनारसिंहरूपता
वामनोग्ररामरामकृष्ण(राम)बुद्धकल्किता ।
सेव्यतामनन्तदेवतावतारसारता
भाति भक्तकुम्भभक्तिचामराभिवीजिता ॥ ३॥
वासुदेवभक्तिरेव मुक्तिदा
कुम्भकर्णसेविताऽस्तु सिद्धिदा ।
श्येनिकाऽपि तुङ्गरङ्गरञ्जनी
श्येनिका भवाघसैन्यभञ्जनी ॥ ४॥
॥ द्रुतमण्ठताले ॥
श्रीकृष्णजयोदयधर्मधीर
शम्पद्धडिबन्धुसुसिन्धुतीर ।
कुम्भेशकृपालयकेलिकीर
नम्रामरकोटिकिरीटंहीर ॥ ५॥
भुजगशशिभृताध्यातः स सदुपनिषदा ख्यातः ।
हरिहरवपुराकारः कलशनृपवराधारः ॥ ६॥
कुमारललिता दुर्गा स्वबाणकृपयोदग्रा ।
यमाश्रयति (यमाश्रय किल) गोपीशं स पातु कलशाधीशम् ॥ ७॥
विश्वगुरुर्माणवकः सर्वपिता यः शिशुकः ।
भूपतिकुम्भाभिमतं यच्छतु विष्णुः सततम् ॥ ८॥
विष्णोर्भक्तिर्नृणां पथ्या वक्त्रे चन्द्राघिका तथा ।
पापोत्तापात्तिनाशाढ्याऽस्तु श्रीकुम्भाश्रिता दृढा ॥ ९॥
विद्वन्मानसगम्यं सेवे (सेवेऽहं) सन्ततरम्यम् ।
कुम्भस्वामिनमन्तं सत्यं धारिणिकान्तम् ॥ १०॥
सर्वान्तर्यामी श्रीकुम्भवामी ।
एको वाऽलिङगः शम्भुर्भात्युग्रः ॥ ११॥
॥ इति नारायणः ॥
॥ अथ शिवः ॥
॥ यतिताले ॥
शिवशङ्करविश्ववशङ्करदुर्द्धरकिङ्करशङ्करदोषहरं
शशिशेखरराजितराजतभूधरवासविलासकलासकरम् ।
सचराचरकन्दमुकुन्दमुखामितदैवतसेवितदिव्यपदं
भज शैलभवाविभुमेव नृपप्रभुकुम्भमथार्पितशर्ममुदम् ॥ १॥
॥ त्रिपुटताले ॥
कवितालिकानलचन्द्रनिर्मलचित्रभानुसुलोचनं
श्रय सिद्धसाधकशम्भुसेवककुम्भकिल्बिषमोचनम् ।
भवशर्वरुद्रमहेशमुक्तिदसिद्धिसिद्धिदसर्वदं
पुरदक्षसन्मखकक्षदारणदक्षमुज्ज्वल (सं) विदम् ॥ २॥
आदिदेवमनादिमुज्ज्वलधामकामदमद्वयं
ब्रह्मरुद्रमहेशमुद्रितपादपङ्कजमव्ययम् ।
हस्तशूलनिरस्तमूलसमस्तदुर्जयदानवं
सर्वदा नृपकुम्भसर्वदमाश्रयेत् सुखसम्भवम् ॥ ३॥
शुभशुभद ! सर्वद ! सर्वदा (शिव) शम्भुशिवशिवशिवकरः
सर्वज्ञहरिहर कुम्भसुखकर विभवभवभवभयहरः ।
सारसी सधुरवरसितमानसहंसमहसारसी (? )
परब्रह्मपरमानन्दकन्दविनोदनाद (?) मुदावली ॥ ४॥
॥ एकतालीताले ॥
सद्वृषवाहनमद्भुतवाहनमर्पितकुम्भनृपेशजयं
कुङ्कुमपिञ्जरवज्रसुपिञ्जरकुञ्जरमुञ्जरवाजिजयम् ।
शारदपद्मविशारदलोचनचन्द्रमुखीसुखकेलिकरं
तं भजतां मदिरामदरागतमोहरणं तदघौघहरम् ॥ ५॥
कैलासविलासं त्रिकुटनिवासं हिमरुचिहासं बहुभासं
सुरसुरभिजनीलं प्रकटितलीलं सहजसुशीलं विश्वेशम् ।
एकाधिकलिङ्गं त्रिभङ्गगङ्गं सुचित्तरङ्गं योगीशं
गुणगणगौरीशं गणतगिरीशं कुम्भनृपेशं भोगीशम् ॥ ६॥
पृथ्वीपाथोविश्वत्राणस्वाहाघोशानन्ताकारं
विष्वक्तेजः शीताद्योतिर्यज्ञेशात्माधेयाधारम् ।
खुन्माणश्रीकुम्भक्षोणीशः श्रेयःश्रेणीनिर्माणं
. . . . . . . . . . . . . . . . . . . . . . . . . . . . ॥ ७॥
अमृतकिरणविषविषषरमित्र
नरबरयुवतिवपुषमुपचित्रम् ।
निटिलमुकुटतटपटुशिखिगङ्गं
विरचितकलशनृपतिरसरङ्गम् ॥ ८॥
चतुष्पदीकृतविषनिरतं निजगणकुम्भनरेशनिभम् ।
ससुरासुरसेवकबहुसुखदं सुरसरिदम्बुमुदं विशदम् ॥ ९॥
॥ इति शिवः ॥
॥ अथ चण्डिकाशक्तिः ॥
गुणगणसदन (विरा) जितकमले
मुररिपुहृदयनिवासिनि कमले ।
जय जय सुरसेवितपदकमले
नृपकुम्भसमर्पितजयकमले ॥ १॥
श्रीभुवनेशी भवभयहन्त्री
कुम्भमहीशोदयसुखकर्त्री
चन्द्रकिरीटा रविरुचिरन्या
सा जयति (तीह) सुदुर्गागम्या ॥ २॥
निखिलकलसकला सुखी
रचितजया विजयातिसखी ।
जयति जया नृप एष सुखी
निज(हित)वहमृगनाभिनखी ॥ ३॥
भाति विभास्वरचम्पकमाला
कुम्भनृपेष्टश्रीजयमाला ।
. . . . . . . . . . . . . . . . . . . . .
. . . . . . . . . . . . . . . . . . . . . ॥ ४॥
गोधिकयासनचित्रगतिं कुम्भकृतेभतुरङ्गजितिम् ।
त्वां भुवनेशि भवानि नवे सञ्चरणं शरणं हि शिवे ॥ ५॥
चण्डी खण्डीकृतरिपुखण्डा कुम्भप्र(प्रो)तावनिनवखण्डा ।
मत्ताकृत्तासुरहतिचण्डा भूतोद्भूतौ पृथुलविचण्डा ॥ ६॥
या मधुकैटभमिश्रैश्चित्रपदा महिषाश्रैः ।
शुम्भनिशुम्भदुरङ्गा साऽवतु कुम्भमभङ्गा ॥ ७॥
प्रामाणी पौराणी वाणी योमा प्रोक्ता (सा) शर्वाणी ।
यस्यामोता विश्वश्रेणी श्रीकुम्भश्रेयोनिश्रेणी ॥ ८॥
हिमगिरितनुजा विदलितदनुजा ।
मधुमतिमुदिता कलशनृपसुता ॥ ९॥
कृष्णाभा मधुकैटभान्तकनिभा कुम्भप्रसादप्रभा
या लक्ष्मी महिषापहाऽतिमहती धूम्रासुरघ्नी शुभा ।
चामुण्डा क्षतचण्डमुण्डरुधिरोद्भूता च वागीडिता
पायाद्ध्वस्तनिशुम्भशुम्भदनुजा शार्दूलविक्रीडिता ॥ १०॥
शौर्यौदार्यार्यधर्मोद्धरणरणरणत्कारकीर्ते रसाक्ता
षुम्माणक्षोणिजानेर्गुणगरिमगिरा व्यासकन्हप्रयुक्ता ।
यावत् सूर्येन्दुतारा जलधिजलधराधारगङ्गातरङ्गा
तावत् पञ्चाशिकेयं वसतु हृदयमतां कुम्भभूभृत्सुरङ्गा ॥ ११॥
विघ्नेशो विघ्नहर्ता तदनु दिनकरो ध्वान्तविध्वंसकर्ता
श्रीकान्तः श्रीनिवासः परपुरदहनः शङ्करो विश्वकर्ता ।
चण्डी चण्डासुरघ्नी त्रिदशगणवराः पञ्च पुण्यप्रपञ्चाः
पान्तु श्रीकुम्भकर्णं बहुसुखविधये मूर्तिमन्तो विरञ्चाः ॥ १२॥
श्रीकुम्भदत्तसर्वार्था श्रीगोविन्दकृतसत्पथा ।
पञ्चाशिकाऽर्थदासेन कह्तव्यासेन कीर्तिता ॥ १३॥
॥ इति चण्डिका शक्तिः ॥
॥ इति पञ्चायतन स्तुतिच्छन्दःपञ्चाशिका सम्पूर्णा ॥
॥ एकलिङ्गनमस्कारः ॥
चान्द्रं कुम्भनृपस्य तापशमनं सौरं तमःस्तोमहृत्
पुण्यं पावकबन्धुबन्धुरमघव्रातेन्धनध्वंसकृत् ।
बिभ्राणं प्रतिवक्त्रमक्षविषमं पञ्चाननः शङ्कर-
स्त्रयक्षो रक्षतु पार्वतीप्रियतमः श्री एकलिङ्गेश्वरः ॥ १॥
गङ्गा तुङ्गोत्तरङ्गा शिरसि शशिकला चारुकोटीरकोटी
काद्यां (?) कट्यामहीन्द्रः करयुगलगतं काण्डकोदण्डदण्डम् ।
तन्वङ्गी वामभागे गिरिवरतनया स्वर्धुनोस्पर्धिनी सा
रूपं यस्येति किञ्चिज्जयति स भगवानेकलिङ्गस्त्रिनेत्रः ॥ २॥
कोऽपि नाके पिनाकीशः सोमः सोमशिरोमणिः ।
लोकपाली कपालीस्ताच्छम्भुः कुम्भसमुद्भवः ॥ ३॥
स्फूर्जन्मुद्रः सुरेन्द्रस्तपसि कृतयुगे भोजयुक्तेन्द्रतीर्थे
त्रेतायां कामधेनुर्निखिलफलनिधिस्तक्षको द्वापरेऽर्थी ।
हारीतोऽयं विनीतः समभजत कलौ बाष्पसत्सङ्गरङ्गः
कुम्भेन्द्रस्तूयमानोऽनिशमिह दिशतान् मङ्गलान्येकलिङ्गः ॥ ४॥
तद्भक्तषुम्माणधरेशधीरो
हम्मीरवीरो नृपमौलिहीरः ।
श्रीक्षेत्रसिंहो हतशत्रुसिंहो
लक्षोऽभवल्लक्षगुणैर्विलक्षः ॥ ५॥
॥ श्रीमदेकलिङ्गाय नमः ॥
॥ प्राच्यानि ॥
इन्द्रः सर्वसुरेश्वरः कृतयुगे भक्त्या यमाराधयत्
त्रेतायां सकलाभिलाषफलिनी धेनुस्तथा द्वापरे ।
नागेशः किल तक्षकः कलियुगे हारीतनामा मुनिः
सोऽयं सर्वजगद्गुरुविजयते श्री एकलिङ्गः प्रभुः ॥ १॥
जयति जगत्त्रयनाथो जगतीपतिपूजितः सदाशम्भुः ।
वाञ्छितफलप्रदोऽयं श्रीमान्नित्यैकलिङ्गाख्यः ॥ २॥
कुटिलासरित्समीपे त्रिकूटगिरिगहनभूषणी नित्यम् ।
अभिमतफलप्रदात्री देवी श्रीविन्ध्यवासिनी जयति ॥ ३॥
घनवंशकदम्ब(क)मध्यगतं रसकूपमवैहि दुरापमतः ।
परिगृह्य रसं सरसं वपुषा स्थिरतां कुरु तापसवीर ततः ॥ ४॥
कूपान्तरे सहजसिद्धरसं दधानो
देवः स्वयं वसति यत्र सदैकलिङ्गः ।
विद्याप्रबोधपरिभावित सिद्धबोधः
संशुद्धनिर्मलमहोमहनीयमूर्तिः ॥ ५॥
॥ इति प्राच्यानि ॥
॥ अथ आशीः ॥
श्रीलक्षसूनुर्बहुदानदक्षः
श्रीमोकलस्तत्तनयोऽतिदक्षः ।
प्रतापदीपोज्ज्वलकीर्तिवर्ती
राजेत कुम्भो नृपचक्रवर्ती ॥ ६॥
शम्भुप्रसादालयशातकुम्भ-
कुम्भप्रभुः कान्तिरसौघपूर्णः ।
अनेकलिङ्गानयमेकलिङ्गं
ध्यात्वैककोऽनेकमहीधराढ्यः ॥ ७॥
तत्स्वामिनं गिरिसुताकामिनं दत्तकामिनम् ।
एकलिङ्गं शिरोगङ्गं मुदा स्तौमि सदाशिवम् ॥ ८॥
यः श्रीमानेकलिङ्गो विधिहरिगिरिभृन्मुख्यलोकेश्वरोक्तैः (लोषे रसोषे)
सर्वेषामादिरीशः स्वमतिगति सदा स्तूयते गद्यपद्यैः ।
तं देवं भव्यसेवं विविधगुणनिधिं मोकलेन्द्रस्य सूनु-
र्जातिच्छन्दोभिरेभिर्नरपतितिलकः कुम्भकर्णः स्तवीति ॥ ९॥
सुभगैकलिङ्गमाले राजति रजनीसु रञ्जनो राजा ।
अमरसरिद्बहुलहरीप्रकटीकृतडुम्पाडिडीरः (? ) ॥ १०॥
. . . . . . . . . . . . . त्र्यम्बक !
तवाम्बिकाप्रिय ! जटातटे धूर्जटे
धुनी ध्वनिति त्वय्येकलिङ्गरचिता ।
कुम्भनृपेणेव सुमालतीमाला ॥ ११
(कुम्भनृपेणे वन मालतीमाला ॥ ११) ॥
छन्दोजातिगुणातिगं विधिमहासूक्ताद्यमेयश्रियं
छन्दोऽलङ्कृतिजातिगौरवगुणैः श्रीगीर्भिरुक्तादिभिः ।
षुम्माणान्वयमेदपाटजगतीसाम्राज्यदं दैवतं
भूभृत्कुम्भमनोरथार्थकरणं स्तौम्येकलिङ्गं शिवम् ॥ १२॥
शिव शिव शिवकर्ता सेवितोऽघौघहर्ता
भव ! भव भवभेत्ता भक्तिभावस्य वेत्ता ।
हर ! हर हरदुःखं सर्वसर्वं त्वखर्वं
गिरिगिरिशगुरुत्वं देहि मे स्तूयसे त्वम् ॥ १३॥
॥ इत्याशीः ॥
॥ अथः जातीनामुद्देशः ॥
(अत्र पञ्चायतनस्तुति प्रकरणस्थादिमपद्यद्वयं ध्यात्वा
श्रीगणनायकमित्यादिकं बन्धोद्धुरानित्यन्तं पुनरावृत्तम् ।)
तुर्यो वृत्तस्य भागश्चरण इति मतस्तादृशा यत्र सर्वे
तद्वृत्तं (वै) समं स्यादिह यदि चरणौ वर्णमात्रस्तदोक्तः ।
एवं चैकैकवर्णाधिकचरणतया जातयः स्युस्तदाद्याः
षड्विंशत्यावगम्यास्तदुपरिचलनाद्वृत्त(दण्ड)कान्युक्त(का)नि ॥ १॥
उक्ताऽयुक्ता मध्या प्रतिष्ठा तदनु सुप्रतिष्ठा च ।
गायत्र्युष्णिगनुष्टुब्बृहती पङ्क्तिस्तथा त्रिष्टुप् ॥ २॥
जगती चातिजगती शर्कर्यन्तिशर्करी तदन्याष्टिः ।
अत्यष्टिर्धृतिरतिधृतिकृतिप्रकृत्याकृतिर्विकृतिः ॥ ३॥
सङ्कृत्यभिकृतिरुत्कृतिरित्युक्ताप्रभृतिजातयः क्रमतः ।
कुम्भनृपेन्द्रेणोक्ता भक्तेन श्रीमदेकलिङ्गस्य ॥ ४॥
तद्व्यक्तीनामेकमेकं क्रमेण
श्रीमुख्यानां छन्दसेष्टं विशिष्टम् ।
यद्यद्वृत्तं (स्यात्) स्वनाम्नाऽत्र जैत्रं
स्तोत्रं शम्भोरुच्यते तेन तेन ॥ ५॥
॥ इति जातीनामुद्देशः ॥
॥ आदिताले ॥
ॐ श्रीः सोक्ता ॥ १॥
योऽस्त्रीशोऽभूत् । माता त्यक्ता ॥ २॥
सन्मध्याऽर्धन्नारी भूतेशोऽन्तःकारी ॥ ३॥
वन्दे भूभृत्कन्यासक्तं । प्रत्यष्टा (?) तायस्तं भक्तम् ॥ ४॥
सर्वस्योद्धृता कुम्भश्रीकर्ता । भात्यस्ता तिर्यक् स्वाम्या जातिः ॥ ५॥
निगमसवित्रीनुत द्दह सत्री । शशिवदनार्थः स कलशनाथः ॥ ६॥
उष्णिक् स्त्रीहयह्रेषा सर्वेभोन्मदलेखा ।
संसारार्णवपोतं त्वामाप्ता कलशोक्तम् ॥ ७॥
स्थाणुरनुष्टुबुदग्रः चित्रपदा कल उदयः ।
दक्षमखक्षमदक्षः कुम्भकृपार्पितलक्षः ॥ ८॥
भुजगशशिभृतामूर्तिः शिव तव बृहती कीर्तिः ।
विधिह(रि)परमापारः कलशनृपकृपासारः ॥ ९॥
॥ एकतालीताले ॥
चम्पकमाला पङ्कजपङ्क्तिर्भ्राजितभूताधीश्वरयुक्तिः ।
कुम्भनृपेच्छावत्सलशक्तिर्भाति महेशोऽष्टामितमूर्तिः ॥ १७॥
अचलसुतादयितासुमुखी
शिरसि शशी निटिलेऽस्य शिखी ।
त्रिमुखपरष्टुबनन्तगुणः
स जयति पालितकुम्भगणः ॥ ११॥
स्मरहर ! शङ्कर ! किङ्करता
तव गतजन्मनि येन कृता ।
हितगृहिणीं लभते सुमुखी-
मिह स सदैव विशेषसुखी ॥ १२॥
दधासि महोरगमौक्ति(क)दाम
वरं जगतीवरविश्वललाम ।
महीश्वरकुम्भमहीशसुरङ्ग
विराजसि राजसितासितसङ्ग ॥ १३॥
॥ झम्पाताले ॥
अतिजगत्युर्वशीस्वर्वशीकारकः
समतिषट्त्रिंशदस्त्रौघसंहारकः ।
दशमुखोल्लासिकैलाशलीलास्पदः
प्रियतमालिङ्गितः कुम्भकामप्रदः ॥ १४॥
गरिमगर्वोर्वशी सर्वलीलोदया
ललितलावण्यलीलारसा लीलया ।
पदयोर्या (पदतले)या नरीनृत्यते ते विभो
मधुकरीवादरादेकलिङ्ग प्रभो ॥ १५॥
शुभनिलय दलय रिपुमुपचित्रं
पृथुलविषमभवजलधितरीशः ।
शुचिरुचिरहितहतकशबरीशः
कलय कलशनृपमुचितचरित्रम् ॥ १६॥
॥ मण्ठताले ॥
सर्वदालि शक्वरीकृतातपत्रचामरः
कौटिलापगातटेसु(षु) मैदपाटशङ्करः ।
एकलिङ्गदेव एव सिद्धिविन्ध्यवासिनी
कुम्भराणदेवता जगज्जयप्रकाशिनी ॥ १७॥
त्रिकूटचित्रकूटकाशिहेमभूषरोद्धुरं
त्रिनेत्रपञ्चवक्त्रमीशमुच्चपञ्चचामरम् ।
. . . . . . . . . . . . . . . . . . . . . . . .
प्रणोमि कुम्भराज्यदं कृतास्त्रचण्डपाण्डवम् ॥ १८॥
सुदृष्टिर्दृष्टि(र्या)त्रिदशलतिका ते शिखरिणी
फलत्येवा(षा)मेशा(षाऽ)खिलसुमनसामिष्टकरिणी ।
शतानन्दानन्दाद्यमरवरसेवार्पितपद
प्रभो रक्ष त्र्यक्ष त्रिभुवनपते कुम्भसुखद ॥ १९॥
॥ त्रिपुटताले ॥
उज्ज्वलं हसितं सितं निशितं तपोध्वनिरद्भुता
नीलकण्ठविकुण्ठिता सुरभीमभासुरता मता ।
एकलिङ्गमनेकलिङ्गमनङ्गरङ्गमनोहरं
कुम्भराणशरण्य ! नौमि भवन्तमेव तमोहरम् ॥ २०॥
॥ प्रतिमण्ठताले ॥
बिभ्रद्दैत्यकुरङ्गकुञ्जरदले शार्दूलविक्रीडितं
देवानां फलितं हि तारकरुजः सर्वज्ञ ! ते क्रीडितम् ।
सामुद्रोग्रविषादनादतिधृतिस्ते रुद्र ! रौद्राश्रया
कुम्भध्यानसुधानिधान ! जर्यात श्रीकण्ठसर्वोदया ॥ २१॥
॥ त्रिपुटताले ॥
भुवि तालिकाधिककालिकालिकमालिकाकृतकोविदं
नृपकुम्भनायकभक्तिदायकशक्तिसायकसम्पदम् ।
भज चित्रवारणचर्मधारणभक्ततारणविभ्रमं
लसदुत्तमाङ्गतरङ्गगङ्गमिहैकलिङ्गमुरुक्रमम् ॥ २२॥
॥ प्रतिमण्ठताले ॥
या विद्या(सा) न विद्या प्रकृतिरितिगुणस्रग्धरा तत्तुरीयः
षड्विंशः साङ्ख्ययोगः श्रुतिपथविशदानन्दकन्दो द्वितीयः ।
स श्रीमानेकलिङ्गः शुभकलशनृपस्तूयमानोरुतेजः
पूरकर्पूरगौरस्त्रिपुरहरगिरौ राजते राजतेजः ॥ २३॥
देशेऽद्रौ मेदपाटे पटुतलकुटिलासिन्धुतीरे त्रिकूटा
सत्कूटोऽकूटमैन्द्रं सर इह निकटे स्रग्धराश्रेणिसेव्यम् ।
शक्तिः सा विन्ध्यवासा प्रथितमथ तथा ताक्षिकं तीर्थमेत-
न्मध्ये वै लिङ्गरूपप्रकटिततनुकस्त्वेकलिङ्गाश्रितो नः ॥ २४
(न्मध्ये त्वलिङ्गरूपप्रकटतितनुज्ञो रयेकलिङ्गाश्रितो नः ॥ २४) ॥
॥ एकतालीताले ॥
आकृतिरुन्मदिराम्भ(?)गलान्तलसन्मदिरारुणदृष्टि (शुभा ?)
त्र्यम्बकतारतरस्त्वयि तिष्ठति हेमलता ललितानुपमा ।
त्वामुपमन्युनही(दी)दधिदुग्धदयापर . . . . . . . . . . .
नौमि(सु)कुम्भकृपाकरशङ्करसुन्दरमन्दरकेलिकरम् ॥ २५॥
तं कम्बुकचक्रगदाधरवज्रधरादिचराचरचिन्त्यपदं
वि(वै)रञ्चिकृतिव्रजवर्जितमूर्जित . . . कुम्भनृपप्रमदम् ।
सेवे कुटिलातटिनीनिकटे त्रिकुटाचलकाशिकनागह्रदं
स्वाहं(यं) भव शर्मदनर्मदसर्वङ्गकेबल . . . मुदारमुदम् ॥ २६॥
श्रुतिसंस्मृतिसंविदगम्यमुमेशमुकुन्दतनुं (?) नृपकुम्भनुतं
सुरनायकभोजसरोवररक्षकतक्षकधारककुण्डयुतम् ।
इह मध्यमहाकलमेकललिङ्गमुपेतमुनीशमहेशवरं
प्रणमापरपालितलालितबाष्पनृपाल(कृपा)लवराज्यधुरम् ॥ २७॥
सुरनरमुनिभिरभिकृति(स)कृतिभिर्हंसलयोचितमवधानं
भुजभुजभुजगवलयमतिलयमुज्ज्वलशूलधरं वृषयानम् ।
ग्रहिलगुणगुहिलकुलकलशनृपाचलराज्यनिवासनिधानं
पशुपतिमतिशिखिगणपतिजनकं कनकप्रियमद्भुतदानम् ॥ २८॥
॥ प्रतिमण्ठताले ॥
ब्रह्माण्डाकृतिषु भवति भवति विविधवितरणवरमयवाहत्वं
शम्भो त्वत्पादयुगनतिकुशलकलशनृपतिरचितजगतीशत्वम् ।
देवेन्द्र त्रिदशसुरभिफणिमुनिनृपकृतयुगयुतसुकृताकारं
त्वामोडे मृडमतिजडनिविडनिगड हर (हर शिव) महिमागारम् ॥ २९॥
॥ झम्पाताले ॥
जय जय जय मालवृत्तेश सर्वन्त्रिलोकेश्वरोद्दण्डचण्डेशचण्डो विभो
वरद वरमुदारकेदारकाशीत्रिकूटाचलोत्तुङ्गगङ्गैकलिङ्गप्रभो ।
भव भवदवकालकीलाप्रशान्तौ सुधाचण्डवृष्टिश्च मालासुवृत्तेश्वरः
प्रबलनृपतिकोटिकोटीरकुम्भक्षमाधीशवंसवं(स्व)दस्त्वं नमस्ते हर ॥ ३०॥
पुरवरजलं(?)च मालावृत्तविद्याविनोदा-
न(व)द्यामोघसन्मेघमाला प्रकास्फुरत्(?). . . .
सच्चिदाकाशकैलासलीलाविलासाधिवासोत्तरङ्गैकगङ्गोत्तमैकाग्न-
लिङ्गप्रभो कुम्भकर्णप्रसादोदयानन्दकारी नमस्ते नमस्ते नमस्ते ॥ ३१॥
जगदिन(?) जयमालावृत्तविख्यातकीर्ते !
धराद्यष्टमूर्ते मिलन्मेघमालाबृहद्विश्वमूर्ते ॥
महादेव देवेश तुङ्गैकलिङ्गेश कर्पूरगौरेश
गौरीश कुम्भप्रभोदग्र शम्भो नमस्ते नमस्ते नमस्ते ॥ ३२॥
॥ श्रीमालावृत्तं यथा ॥
जय जय जय शम्भोऽथेकलिङ्ग स्मरारे पिनाकिन्
जय त्वं जय त्वं जय त्वं जय जय देवेश त्रिनेत्रेन्दुमौले
कपालिन् कपर्दिन् नमस्ते नमस्ते नमस्ते ॥ ३३॥
प्रणयतु जयमाला दुर्गलोकेश्वरं तं (लोकेत्सरोकम्) ।
जय त्वं जय त्वं जय त्वं नमस्ते नमस्ते नमस्ते ॥ ३४॥
कुरु कुरु जयमालावृत्तकुम्भं विशङ्कं सदङ्कं
जय त्वं नमस्ते जय त्वं नमस्ते ॥ ३५॥
॥ इति मालावृत्तम् ॥
॥ जातिच्छन्दांसि यथा ॥
षड्विंशः प्रकृतः परोऽपि परमानन्दः पुमान् विश्रुतः
षड्विंशाधिक(वृत्त)जातिरचनाश्रीमुख्यवृत्तः सुतः ।
सो(ऽस्तु)स्वस्तिकृदेकलिङ्गगिरिशो ब्रह्माण्डपिण्डास्पदः
षट्त्रिंशत्कुलशस्त्रशास्त्रकुशलः श्रीकुम्भसर्वार्थदः ॥ ३६॥
आदावाराधितो यः कृतयुगसमये नाकिनां नायकेन
त्रेतायां कामधेन्वाभिमतफलदया द्वापरे तक्षकेण ।
हारीतेनापि बाष्पानुग(त)मिह कलौ बाष्पवंशोद्भवेन
श्रीकुम्भेनापि भक्त्या जयति स भगवानेकलिङ्गो गिरीशः ॥ ३७॥
काशी पुण्यप्रकाशीकृतशिववसतिश्चित्रकूटस्त्रिकूटो
विश्वेशस्त्वेकलिङ्गः सरिदिह कुटिला स्वर्धुनीस्पर्धिनीयम् ।
श्रीभोजेन्द्रस्तडागो मुखरचितमणिः कर्णिका कुम्भकर्णो
विद्यानन्दी विनोदी जयति गुरुगणैर्यस्तु जीवन्विमुक्तः ॥ ३८॥
आनन्दवृद्धादिपुराभिनन्दी
नन्दीशवृन्दी नृपकुम्भकर्णः ।
तदाज्ञया प्रेरित एव कह्न-
व्यासो व्यधात्तारकमौक्तिकालिम् ॥ ३९॥
दुर्गाऽम्बिकाऽद्री जयमालदुर्गे
कौम्भे पुरे धातुनिधौ समुद्रे ।
स्ताच्चन्द्रचूडस्तुतचन्द्रकान्ता
कुम्भश्रिये कह्नकृता सुवृत्ता ॥ ४०॥
कुम्भो नन्दतु भूतले हरिहरौ कुम्भं सदा रक्षतां
कुम्भेनैव वशीकृता वसुमती कुम्भाय तुष्टाः सुराः ।
कुम्भादाप्तधनो जनस्त्रिभुवने कुम्भस्य कीर्तिः स्थिरा
कुम्भे पण्डितमण्डली स्थितिमती त्वं कुम्भ राज्यं कुरु ॥ ४१॥
॥ इति जातिच्छन्दोभिः श्रीमदेकलिङ्गस्तुतिः सम्पूर्णा ॥
॥ एकलिङ्गमावलिः ॥
ॐ नमः श्रीगणेशाय ।
१. ॐ नमः सिद्धलिङ्ग २. ॐ नमः शिवलिङ्ग
३. जय जय जय (? ) ४. जय त्वमखिललोकशङ्करलिङ्ग
५. हरलिङ्ग ६. हरिलिङ्ग ७. हिरण्यगर्भलिङ्ग
८. शिवलिङ्ग ९. शर्वलिङ्ग १०. सर्वज्ञलिङ्ग ११. श्री ओङ्कारलिङ्ग
१२. उदयलिङ्ग १३. आदिलिङ्ग १४. उद्यमलिङ्ग १५. उदितलिङ्ग १६. उत्थितलिङ्ग
१७. गुरुलिङ्ग १८. लघुलिङ्ग १९. मथनलिङ्ग २०. लम्बलिङ्ग २१. गुरुलिङ्ग २२. गुरुतरलिङ्ग
२३. श्रीदेवलिङ्ग २४. श्रीदेवेशलिङ्ग २५. अनेकलिङ्ग
२६. नन्दनलिङ्ग २७. नन्दकलिङ्ग २८. नन्दिकेश्वरलिङ्ग
२९. आनन्दलिङ्ग ३०. नन्दलिङ्ग ३१. रसलिङ्ग ३२. रहवट(?)लिङ्ग
३३. श्रीमदेकलिङ्ग ३४. दशलिङ्ग ३५. शतलिङ्ग ३६. सहस्रलिङ्ग
३७. अयुतलिङ्ग ३८. लक्षलिङ्ग ३९. कोटिलिङ्ग ४०. कोटीश्वरलिङ्ग
४१. कटकलिङ्ग ४२. अनेकलिङ्ग ४३. अगणितलिङ्ग ४४. बहुलिङ्ग
४५. महालिङ्ग ४६. लिङ्गलिङ्ग ४७. लोकेश्वरलिङ्ग
४८. गणेशलिङ्ग ४९. गुणगणलिङ्ग
५०. श्रीकामेश्वरलिङ्ग ५१. श्रीकुम्भेश्वरलिङ्ग
५२. श्रीमोकलेश्वरलिङ्ग ५३. श्रीमदीश्वरलिङ्ग ५४ महालिङ्ग
५५. महादेवलिङ्ग ५६. श्रीमहेशलिङ्ग
५७. श्रीराजलिङ्ग ५८. राजेश्वरलिङ्ग
५९. जागेश्वरलिङ्ग ६०. यागेश्वरलिङ्ग
६१. योगीश्वरलिङ्ग ६२. भोगीश्वरलिङ्ग
६३. जङ्गमलिङ्ग ६४. स्थावरलिङ्ग
६५. जगज्जीवनलिङ्ग ६६. जगदीश्वरलिङ्ग
६७. जननीलिङ्ग ६८. योगिनीलिङ्ग ६९. जनकलिङ्ग
७०. भुवनलिङ्ग ७१. भुवनेश्वरलिङ्ग
७३. भवानीश्वरलिङ्ग ७३. भुवनेश्वरीलिङ्ग
७४. श्री भगवान् (भगव) लिङ्ग ७५. अनङ्गलिङ्ग
७६. भगलिङ्ग ७७. भगभगलिङ्ग
७८. शम्भुलिङ्ग ७९. स्वयम्भूलिङ्ग
८०. गौरीलिङ्ग ८१. गङ्गालिङ्ग ८२. गङ्गोदकलिङ्ग
८३. गीर्लिङ्ग ८४. गोलिङ्ग
८५. श्रीगोपाललिङ्ग ८६. श्रीगोवर्धनलिङ्ग ८७. गोकुललिङ्ग
८८. गुहिल वंशवर्धनलिङ्ग
८९. लिङ्गैकलिङ्ग ६०. अनन्तलिङ्ग ९१. जगदेकलिङ्ग
९२. एकस्त्वमेकलिङ्ग ९३. एक एक एव लिङ्ग ९४. श्रीमदेकलिङ्ग
९५. एकलिङ्ग एकलिङ्ग एकलिङ्ग नमस्ते नमस्ते नमस्ते ॥
कीर्तनेन तु रुद्रस्य पापं याति सहस्रधा ।
प्रचण्डपवनेनेव घनं जलदमण्डलम् ॥
यं शैवाः समुपासते शिव इति ब्रह्मेति वेदान्तिनो
बौद्धा बुद्ध इति प्रमाणपटवः कर्तेति नैयायिकाः ।
अर्हन्नित्यथ जैनशासनरताः कर्मेति मीमांसकाः
सोऽयं वो विदधातु वाञ्छितफलं देवो जगज्जीवनम् ॥
त्रयी साङ्ख्यं योगः पशुपतिमतं वैष्णवमिति
प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च ।
रुचीनां वैचित्र्यादृजुकुटिलनानापथजुषां
नृणामेको गम्यस्त्वमसि पयसामर्णव इव ॥
(शिवमहिम्नः स्तोत्रे सप्तमं पद्यमिदम् ।)
भीतिर्नास्ति भुजङ्गपुङ्गवविषात् प्रीतिर्नं चन्द्रामृते
नाशौचं नृकपालदामलुठनात् शौचं न गङ्गाजलात् ।
नोद्वेगश्चितभस्मनो न च सुखं गौरीस्तनालिङ्गना-
दात्मारामतया हिताहितसमः स्वस्थो हरः पातु वः ॥
जगदङ्कुरकु(छे) दाय विशदानन्दमूर्तये ।
गलिताखिलभेदाय नमः शान्ताय विष्णवे ॥
॥ शुक्लाम् ॥
मङ्गलं भगवान् विष्णुर्मङ्गलं गरुडध्वजः ।
मङ्गलं पुण्डरीकाक्षो मङ्गलायतनो हरिः ॥
इति श्रीमदेक(लिङ्ग) माहात्म्यं सम्पूर्णम् ।
॥ इति श्रीमदेकलिङ्गाय नमः ॥
श्रीमदेकलिङ्गमाहात्म्य (काव्यमय) का विषयानुक्रम
प्रारम्भ में आठ पद्य कामदेवस्तुति के हैं फिर बाष्पवंशवर्णन की प्रतिज्ञा तोन श्लोकों में तदनन्तर पौराणिक एकलिङ्गमाहात्म्य (चतुर्थाध्याय) की विषयवस्तु आर्याछन्द में कही है । फिर उसी में से अष्टम नवम और दशम अध्याय प्रायः अविकल रूप से उद्धृत किये हैं छन्द नहीं बदले हैं यतर्किचित् पाठभेद अवश्य है। इसके बाद ``पुरातन कवियों'' के वचन उद्धृत करते हुए गुहदत्त के पूर्वजों का वर्णन (श्लोक १-६) आरम्भ होता है।
वंश वर्णन-गुहदत्त (श्लोक ६-१०) बाष्प (श्लोक ११-२२) (श्लोक २३-४४ हमारे परिशिष्ट में से छूट गये हैं कृपया शुद्धिपत्र देखें।) कालभोज खुम्माण गोविन्द आलुराउल विश्वनाथ शक्तिकुमार शालिवाहन नरवाहन कीत्तिवर्मा नरवर्मा करणसिंह भादूक गातडि हंस (योगिराज) वैरड श्रीपुञ्ज कण जितसिंह तेजसिंह (२३-४४) समरसिंह (४५-६०) रत्नसिंह (६१) अन्यशाखा (६२-६५) बबरू नागपाल पूर्णपाल फेखर भुवनसिंह भीमसिंह जयसिंह (६६-६८) लक्ष्म्यसिंह (६८-७४ ) रसीराण (७५) अरिसिंह (७६-७८) हम्मीर (७९-८७) क्षेत्रसिंह (८८-१०३) मोकल (१०४-१२१ ) ।
कुम्भास्तुति-श्लो० १-६७।
पञ्चायतनस्तुति-गेयप्रबन्धनिर्माण की प्रतिज्ञा (१-२) गणेशस्तुति ( १-१३) सूर्यस्तुति (१-९) नारायणस्तुति (१-११) शिवस्तुति (१-९) चण्डिकास्तुति (१-१२) प्रकीणं पद्य ( १-५ ) एकलिङ्ग सम्बन्धी प्राच्य पद्य (?-५) प्रकीर्ण पद्य (६-१३) विभिन्न छन्दों के उदाहरण (१-३५) कुम्भस्तुति (३६-४१ ) ।
एकलिङ्गनमस्कार (गद्य) ।
अन्त में कुछ प्रसिद्ध प्राचीन पद्य।
Notes:
EkaliṅgaMāhātmyam - Kāvyamayam एकलिङ्गमाहात्म्यम् - काव्यमयम् includes description of the lineage of Baṣpa Rājā बाष्प राजा, Stuti स्तुति of the erudite Mahārāṇā Kumbhā महाराणा कुम्भा i.e. Kumbhakaraṇa कुम्भकरण, and the Pañcāyatana Stuti पञ्चायतन स्तुति. The latter comprises of Stuti-s of Ganeśa गणेश, Sūrya सूर्य, Nārāyaṇa नारायण, Śiva शिव, Caṇḍikā चण्डिका and Ekaliṅga Śiva एकलिङ्ग शिव.
It is noteworthy that the Pañcāyatana Stuti पञ्चायतन स्तुति has some names associated with Kumbhā कुम्भा such that he is remembered with each of the Deity worshipped with this stuti. Towards conclusion, there is EkaliṅgaNamaskāra एकलिङ्गनमस्कार.
EkaliṅgaMāhātmyam एकलिङ्गमाहात्म्यम्, that constitutes a SthalaPurāṇa स्थलपुराण and SthalaMāhātmyam स्थलमाहात्म्यम्, has been composed in two styles - Paurāṇika पौराणिक and Kāvyamaya काव्यमय. It includes the descriptions about the manifestation of the Ekaliṅga Śiva Kṣetra एकलिङ्ग शिव क्षेत्र in relation to the story of the duo - Baṣpa Rājā बाष्प राजा - Hārīta Muni हारीत मुनि, and the lineage of kings of Citrakūṭa चित्रकूट (now k.a. Cittaur̤agar̤ha चित्तौड़गढ़) and Medapāṭa मेदपाट (now k.a. Mevār̤a मेवाड़) including Mahārāṇā Kumbhā महाराणा कुम्भा.
Baṣpa Rājā बाष्प राजा is now popularly known as Bappā Rāvala बप्पा रावल.
The VāyuPurāṇam वायुपुराणम् has been attributed to be the source composition of EkaliṅgaMāhātmyam एकलिङ्गमाहात्म्यम् as the main narrator of the same is Vāyu वायु.
EkaliṅgaMāhātmyam - Paurāṇika एकलिङ्गमाहात्म्यम् - पौराणिक is composed in 32 chapters that, with a brief summary of each chapter can be accessed from the respective link given below.
Encoded and proofread by Ruma Dewan