गीतसुन्दरम्
॥ श्रीः ॥
॥ शिवाभ्यां नमः ॥
तञ्जापुरच्छत्रपतिश्रीतुलजामहाराजस्य
आस्थानविद्वच्छिरोमणिभूतस्य
श्रीचोक्कनाथदीक्षितस्य शिष्येण
सदाशिवदीक्षितेन विरचितम् गीतसुन्दरम् ।
प्रथमः सर्गः
Sarga 1
श्लोकानि
श्रीमद्-भोसल-वंश-रत्न-तुलज-क्ष्मापाल-चूडामणेः
कल्याणं कलयतु सन्ततममी लीला-विशेषोज्ज्वलाः ।
कामं हेम-पयोजिनी-परिसरे मध्ये-कदम्ब-द्रुमं
मीनाक्ष्या सह सुन्दरेश्वर-विभोर्-अनङ्ग-नित्योत्सवाः ॥ १॥
त्यागेश-देशिक-निदेश-वशंवदानां-
आजानभक्ति-वश-नीत-सदाशिवानाम् ।
श्रीचोक्कनाथ-मखिनां निखिलेडितानां-
उल्लासयन्तु मम वाचं-अपाङ्ग-लीलाः ॥ २॥
भारती-सरस-केलि-मन्दिरं सोमसुन्दर-कथा-धुरन्धरम् ।
श्लाघनीय-सभाव-बन्धुरं लालयन्तु मम गीत-सुन्दरम् ॥ ३॥
प्रथमाष्टपदी ।
Ashtapadi 1
मालविरागेण गीयते । आदितालः ।
मघवति पर्यटति इतरैर्-अनुपरतम् ।
समयसि वृत्र-वधोदित-दुरितम् ।
सोमसुन्दर सुर-सार्वभौम जय मधुराधिपते ॥ १॥ (ध्रुवम्)
कृपया परिहरसि ऐरावत-तापम् ।
तापस-रोषारोपित-शापम् ।
सोमसुन्दर गजमुख-जनक जय मधुराधिपते ॥ २॥
रचयसि नीप-वने नगरीं-अभिरामाम् ।
कमला-कौतुक-विहरण-सीमाम् ।
सोमसुन्दर विश्वविधायक जय मधुराधिपते ॥ ३॥
मलयध्वज-तनयां कामयसे दयिताम् ।
विकृतोरोज-निमज्जन-मुदिताम् ।
सोमसुन्दर गिरिजावल्लभ जय मधुराधिपते ॥ ४॥
सहसाविर्भवसि पाण्ड्य-कुलोद्धरणे ।
श्रीमीनाक्षी-पाणि-ग्रहणे ।
सोमसुन्दर नव-मोहनाङ्ग जय मधुराधिपते ॥ ५॥
नियत-पतञ्जलये ललितादृत-भरतम् ।
नृत्यसि शङ्कर नव-रस-भरितम् ।
सोमसुन्दर नित्यानन्द जय मधुराधिपते ॥ ६॥
कुण्डोदर-जठरे अमिताशन-धैर्यम् ।
दिशसि तटाकतयाप्य्-अनिवार्यम् ॥
सोमसुन्दर अद्भुतचरित जय मधुराधिपते ॥ ७॥
क्षुधितं पालयितुं सृजसि नवान्न-निधिम् ।
वेगवतीमपि-तत्रानवधिम् ।
सोमसुन्दर हालास्येश जय मधुराधिपते ॥ ८॥
श्लोकानि
इन्द्राघं हरते गजेन्द्रं-अवते वन्यां पुरं कुर्वते
कन्यां प्रार्थयते सुमीन-नयना-पाणिग्रहं तन्वते ।
सानन्दं नटते पतञ्जलिकृते कुण्डोदर-क्षुत्-कृते
गर्तान्-नमयान्-नदीं च सृजते शर्वाय तुभ्यं नमः ॥ ४॥
योऽसौ काञ्चनमालया वल-रिपोर्-अर्धासनोल्लासिनं
हालास्ये मलयध्वजं करुणया संयोज्य सप्तार्णवीम् ।
स्नातुं योग्य-दशां-अदादपि तयोः सारूप्य-मुक्ति-श्रियं
देवः पाण्ड्य-धुरन्धरः स दिशतु श्रेयांसि भूयांसि वः ॥ ५॥
द्वितीयाष्टपदी
Ashtapadi 2
भैरवीरागेण गीयते । मिश्रछाप् तालः ।
कृत-सप्त-सागराकारण जगत्-कारण ।
मकुट-घटित-हिमकरण जय जय पाण्ड्यपते ॥ १॥
सुरलोक-नीत-मलयध्वज वृषभध्वज ।
हरिणा-लङ्कृत-कर-सरसिज जय जय पाण्ड्यपते ॥ २॥
जनितो-ग्रपाण्ड्याख्य-नन्दन जगदानन्दन ।
कृत-तटातका-मनोरञ्जन जय जय पाण्ड्यपते ॥ ३॥
वलयाद्य्-आयुध-दान-योजित तनय-भाजित ।
मधुरापुर-साम्राज्य-राजित जय जय पाण्ड्यपते ॥ ४॥
सुत-शक्ति-ताडित-वारिधे विधि-सारथे ।
अव्याज-भव्य-कृपानिधे जय जय पाण्ड्यपते ॥ ५॥
कनकाद्रि-दारण-पण्डित-सूनु-खण्डित ।
वल-रिपु-मौलि-विश्रुत जय जय पाण्ड्यपते ॥ ६॥
निगमान्त-सिद्धान्त-बोधन सुकृत-साधन ।
कृत-नत-जनतानुमोदन जय जय पाण्ड्यपते ॥ ७॥
नवरत्न-विक्रम-कारक भव-तारक ।
हालास्योदिता-नन्द-कोरक जय जय पाण्ड्यपते ॥ ८॥
श्लोकानि
देव्याः पदाब्जं-उपलाद्-अवरोप्य हस्ते
संवाहयन्-मकुट-चन्द्र-सुधाभिषिक्तम् ।
क्षन्तव्य-भावि-सकल-प्रणया-पराध
कल्याण-सुन्दर-विभुः कलयेद्-अभीष्टम् ॥ ६॥
कल्याणोत्सव-कौतुकाद्-उपचितैर्-अङ्गैर्-अनङ्गाधिक-
स्मेरैर्-एधित-हेम-रत्न-रुचिरा-लङ्कार-शृङ्गारिताम् ।
कान्तस्य्-आगमने विलम्बन-वशात्-कामास्त्र-लक्षीकृतां
साम्राज्ञीं मलयध्वजेन्द्र-तनयां प्राह प्रबुद्धा सखी ॥ ७॥
तृतीयाष्टपदी
Ashtapadi 3
वसन्तरागेण गीयते । आदितालः ।
खेलति काञ्चन-नलिनी-तीरे ।
चन्द्र-शिखामणि-रमरवधू-मणि-समरस-विविध-विहारे ॥ १॥ (ध्रुवम्)
सरस-कदम्ब-पराग-भरालस-शीतल-सुरभि-समीरे ।
अमृत-तरङ्ग-परम्परयाऽर्पित-शीकर-मौक्तिक-हारे ॥ २॥
दिशि दिशि नियमित-चन्द्र-दिवाकर-मधुमाधव-परिवारे ।
शशिमणि-परिणत-सोपानान्तर-चञ्चल-चारु-चकोरे ॥ ३॥
मौक्तिक-हंस-मुखादृत-पङ्कज-रजसा कृत-पटवासे ।
मिलित-परस्पर-कुसुमायुध-गतिरति-मन्मथ-कृत-हासे ॥ ४॥
मरकत-मेचकपत्र-निरन्तर-सङ्गत-कनक-रथाङ्गे ।
हरिमणि-किरणच्-छुरित-निशाकर-रुचि-घुतिकायित-भृङ्गे ॥ ५॥
सन्तत-दर-चलद्-अनिल-समाहृत-सारस-सौरभ-सारे ।
चिन्तामणि-गृह-शिखरोदञ्चित-चन्द्रक-रुचिर-मयुरे ॥ ६॥
अधर-सुधाधिक-मधुर-मनोहर-दिव्य-फलागम-रम्ये ।
अधिकृत-कौतुक-सुर-नर-पन्नग-प्रमदा-परिचय-सौम्ये ॥ ७॥
जाति-विहीन-वसन्त-महोदय-समुदित-मधुप-निनादे ।
जात-कुतूहल-नवयुव-कल्पित-हालास्यवासि-विनोदे ॥ ८॥
श्लोकानि
लीला-लोल-दृगञ्चलेषु सरसालापेषु केलीचलद्-
रत्ना-लङ्कृत-कुण्डल-द्युतिषु च स्मेराधर-स्फूर्तिषु ।
भावैर्-अप्सरसो मुनि-प्रणयिनीः सम्मोहयन्-मोदते
स्वामी सोमकला-वतंस-सुषुमा-कान्तो वसन्तोदये ॥ ८॥
अद्योदञ्चित-पञ्चबाण-विशिख-प्रख्यात-पान्थ-व्यथा-
सन्नद्ध-प्रतिबुद्ध-षट्पद-शुकी-पारावत-प्रस्तुताः ।
श्रीखण्डाचल-शीतलानिल-चलन्-माकन्द-शाखाशिखा-
मन्दान्दोलित-नीड-निर्भर-कुहू-कण्ठस्वरा वासराः ॥ ९॥
एते वेगवती-तरङ्ग-तरल-प्रत्यग्र-पाथोरुहा-
नीतैः शीतल-सौरभैर्-विरहिणो भिन्दन्ति मन्दानिलाः ।
एषा वञ्जुल-मञ्जरी च शिरसा यद्विक्रमं श्लाघते
सोऽयं सून-शरासनो विजयते रन्ता वसन्तश्रियाम् ॥ १०॥
चूताङ्कुर-प्रथम-चर्वण-गर्वितानां
कोलाहलैर्-मुखरिता वनकोकिलानाम् ।
उद्दीपनेन मदनस्य तटातकयां
वासन्तिकाः सरस-सौरभं-आरभन्ते ॥ ११॥
सुराङ्गना-कल्पित-कौतुकोत्सव-
प्रपञ्चितानङ्ग-कला-कुतूहलम् ।
उदाहरन्ती घनसार-सुन्दरं
सखी पुनः प्राह तटातकामिति ॥ १२॥
चतुर्थाष्टपदी
Ashtapadi 4
कुम्भकाम्भोधिरागः । आदितालः ।
धरति नवं वरवेषं चिरयति तेन कदम्बवने
सखि तव उज्ज्वल-भूषम् । (ध्रुवम् ॥
चम्पक-सुन्दर-दिव्य-शुभाकृति-कनकाम्बर-शशिधारी ।
मदन-महोत्सव-सम्भव-सम्भृत-वरयुवती-मदहारी ॥ १॥
सरस-हरिद्रा-लेप-मिषेण सुधांशुधरस्य शुभाङ्गम् ।
विमृशति कापि स्पर्श-सुखालस-लीला-माद्यद्-अपाङ्गम् ॥ २॥
लोक-विलोकन-दोष-निवारक-मृगमद-बिन्दुं-उदारम् ।
एककपोले रचयति काचन नखलेखन-सुकुमारम् ॥ ३॥
कामपि शुभिका-लङ्करणोद्धृत-बाहुलता-ललिताङ्गीम् ।
स्मर-समयोचितं-अनुनयति श्रित-कोकिल-कलरव-भङ्गीम् ॥ ४॥
अप्सरसां-उपगानरसैर्-अनुरञ्जित-मङ्गल-गीताम् ।
नयन-विलासैर्-एलाकुञ्जं गमयति सुमशर-भीताम् ॥ ५॥
कामपि कामकला-परिशीलित-रतिसुख-रचना-लोलाम् ।
लज्जयति प्रिय-सरस-चमत्कृति-सत्कृत-नवनव-लीलाम् ॥ ६॥
काचिद्-अलक्तक-रेखाचित्रं पदकमले रचयन्ती ।
सूचित-राग-नवोदय-रीतिं स्वयं-अनुसरति नमन्ती ॥ ७॥
कामपि गुरुकुच-कुम्भ-विजृम्भण-मुदित-मदालस-भावाम् ।
सुखयति हालास्योपवने कृत-कुसुम-धनुर्धर-सेवाम् ॥ ८॥
इति श्रीमत्-परमशिवातिवादिमूर्धन्यस्य सदाशिव-दीक्षितस्य कृतिषु
चतुःषष्टि-लीलासङ्ग्रहे गीतसुन्दरे प्रथमः सर्गः ॥
द्वितीयः सर्गः
Sarga 2
श्लोकानि
अमर-वनिता-लास्ये दास्ये महेन्द्रकृते मुदा
विहरति शिवे वन्यावन्यां-अमोघ-विलासिनि ।
प्रणय-विधुता मानाधीना विधाय रहः सखीं
स्मर-शर-परिश्रान्ता कान्ता तदाह तटातका ॥ १॥
अपि रजत-गिरीशं प्राप्य जेतुं कराभ्यां
विगलित-शर-चापा तेन कामानुरूपा ।
मधुर-चतुर-मुग्धैः कैरपि प्रेमसारैः
सखि सरस-विलासैर्-अञ्चिता वञ्चितास्मि ॥ २॥
पञ्चमाष्टपदी
Ashtapadi 5
मां-अनुभवितुं धृत-सुमचापं
वसतीवाग्रे शिव-शुभ-रूपम् ॥ध्रुवम् ॥
तरलित-मौलि-कलाधर-कोरक-कलित-सुधारस-सेकम् ।
मदन-मदालस-लोचन-सूचित-रति-कौशल-परिपाकम् ॥ १॥
दरहसित-स्फुरिताधर-दर्शित-वीटी-सोरभसारम् ।
पीत-पराग-विधूसर-केसर-भासुर-कुरव-कहारम् ॥ २॥
काञ्चन-रेखा-त्रय-परिशोभित-तिलकित-रत्न-कलापम् ।
गुरुकुच-मृगमद-मकरी-मुद्रित-कुङ्कुमसार-विलेपम् ॥ ३॥
विद्रुम-कोमल-रक्ताङ्गुलि-मुख-नर्तित-रत्न-कुरङ्गम् ।
कर्णोत्तंसित-कुवलय-वासित-लीलापाङ्ग-तरङ्गम् ॥ ४॥
कर-धृत-पावक-कलित-प्रत्यय-नियताचञ्चल-भावम् ।
प्रतिकल-डमरुक-वादन-साधित-कामकला-रस-भावम् ॥ ५॥
मञ्जुल-शिञ्जित-मञ्जीरोज्ज्वल-किञ्चिद्-उदञ्चित-पादम् ।
पदगति-विस्तृत-ताल-झलज्झल-विहितान्धक-तनुभेदम् ॥ ६॥
मन्दान्दोलित-कुण्डल-विलसित-वितत-फणामणि-भासम् ।
आम्रेडित-भरतागम-फणिति-प्रकटित-मणित-विलासम् ॥ ७॥
कुसुम-शराहव-कुहना-पण्डित-ताण्डव-मोहन-वेषम् ।
वेगवतीजल-सीकर-शीतल-नवहालास्य-निवेशम् ॥ ८॥
श्लोकानि
भुवनविजय-रक्षा-चूर्ण-कीर्णानि भूयः
पथिक-वदन-शीतांशू-परागैः परागैः ।
मधुरस-विषधारां-उद्वमन्ति प्रयुङ्त्ते
किसलय-भुजगा-स्त्राण्यन्तरङ्गाण्य्-अनङ्गः ॥ ३॥
कुसुम-विलसन्-मल्ली-वल्ली-निकुञ्ज-ससम्भ्रम-
भ्रमर-युवति-श्रेणी-वेणीयुते मणिमण्डपे ।
तरुणिम-लसद्गर्वे शर्वे विहारिणि मां विना
विषम-विशिखाधीनं दीनं मनो न विनोद्यते ॥ ४॥
षष्ठाष्टपदी
Ashtapadi 6
काम्बोजी-रागेण गीयते । मिश्रछाप् तालः ।
घटय मया सह सखि शशिभूषम् ।
नवनव-भाव-विशेष-मनोहरया धृत-मन्मथ-वेषम् ॥ध्रुवम् ॥
परिणय-मण्डपं-उपगतया दरवलित-दृशा मदयन्तम् ।
रुचिराङुलि-धृत-करतलया नखशिरसा मृदु विलिखन्तम् ॥ १॥
अविरल-वर्षित-मौक्तिकया दरहसितोल्लसद्-अनुमोदम् ।
मणिरणितोज्ज्वल-नूपुरया दृषद्-आरोपित-मृदु-पादम् ॥ २॥
परिचय-सङ्गत-तनु-लतया श्रितगुरुकुच-लिकुचाभोगम् ।
सरस-करग्रह-पुलकितया स्मर-चकितोदयद्-अनुरागम् ॥ ३॥
केलिगृहं निशि भाजितया रतिसुख-रचने रसयन्तम् ।
करयुग-पिहित-पयोधरया मणिकाञ्चीं विश्लथयन्तम् ॥ ४॥
नयन-निवारित-साहसया नख-विकसि-सुकलाजालम् ।
अमित-मदन-मद-परवशया दृढ-परिरम्भण-बहुलीलम् ॥ ५॥
सुरत-सुखालस-लोचनया कृत-मधुराधर-रसपानम् ।
खिन्न-कपोल-कुचस्थलया नव-निधुवन-कुतुक-विधानम् ॥ ६॥
विलुलित-कुन्तल-कुण्डलया कर-लालित-कुच-कलशान्तम् ।
विलसित-वीरायित-कलया दर-मुकुलित-सरस-दृगन्तम् ॥ ७॥
उपरत-कलरव-कूजितया चिर-परिचित-हृदयं-उदारम् ।
श्रमजल-बिन्दु-परिष्कृतया स्मृत-हालास्य-वन-विहारम् ॥ ८॥
श्लोकानि
आयान्त्या कनकाब्जिनी पथि मया साकूतं-आलोकिते
देवे निर्जर-कामिनी-परिषदि प्रत्यग्र-लीला-रसम् ।
सद्यः स्विद्यद्-उरःस्थलं सचकित-व्यापरितार्धेक्षणं
सव्याज-स्मयमान-वक्त्र-कमलं वैलक्ष्यं-आलक्ष्यते ॥ ५॥
उद्यद्-वेगवतीतरङ्ग-निकर-व्यक्तानुपूर्व्या स्पृशन्-
रोमाञ्चं जनयन्-कदम्ब-मुकुलोल्लासोपलम्भ-क्रमात् ।
भृङ्गी-कोक-कपोत-कोकिल-रवैर्-आशान्तरं पूरयन्-
बन्धुर्-गन्धवहस्तनन्धय इह प्रत्यङगं-आलिङ्गति ॥ ६॥
प्रान्त-भ्रान्त-दृगन्त-लील-मुदित-भ्रू-वल्लरी-चापलं
चिन्ता-निश्चल-कर्णपूरं-असम-प्रश्नोत्तर-प्रक्रियम् ।
आकल्यानति-कौतुकं सुरवधू-बिब्वोक-जात-स्पृहं
भावैः कैरपि शङ्करः प्रतिलतागेहं परिक्रामति ॥ ७॥
स्मरोपदेश-स्मृत-भाव-बन्धां
तटातकां वेगवती-तटेषु ।
अन्विष्य रथ्यासु लता-गृहेषु
रसालमूलं गिरिशः सिषेवे ॥ ८॥
सप्तमाष्टपदी
Ashtapadi 7
भूपाल-रागेण गीयते । मिश्रछाप् तालः ।
शिव शिव वसन्त-समये साधुना विरहेण । (ध्रुवम् ॥
तां-अवाप्य विनोदयामि कदा मनो मदनेन ।
तापकारितयाभियातिरिवाद्य यो मम तेन ॥ १॥
तां-अभिन्न-तनुं बिभेम्य्-अधुना हृदि प्रणिधातुम् ।
जन्मभूमि-गतां स्मरो बहु बाधयेन्-मदहेतुम् ॥ २॥
भावचित्र-विलेखने कलये कथं कर-पल्लवम् ।
तत्कला अपि मानिनीव न सागसो विषया ध्रुवम् ॥ ३॥
तां वियोग-कृशां विधाय वृथा यदाचरितं मया ।
तत्फलानि विवृण्वते किमु कोकिला मदसूयया ॥ ४॥
कोप-रक्त-दृशेव कोक-नदेन वेगवती-क्षते ।
कीर्ण-शीकरं-उद्यतोर्मिकरेण कुप्यति मत्कृते ॥ ५॥
किं करोमि कथं वदामि भजामि कं मदनादृते ।
जीविता-वधिर्-आनतिर्-मुहुर्-अङ्गजाय धनुष्मते ॥ ६॥
हन्त कृन्तति चिन्तया तनुं-आत्मभूरिव मानसम् ।
तां-उपेत्य कृत-व्यथां-अभिनेतुं-एनं-अनागसम् ॥ ७॥
तां-अहं प्रतिपद्य सत्वरं-आत्त-रम्य-विलासिनीम् ।
रञ्जयामि कदा रतौ हालास्य-सौध-निवासिनीम् ॥ ८॥
श्लोकानि
तवविमतं-अपास्तं वह्निनेत्रं निटाले
सपदि दहति चेन्-मां मन्मथ त्वच्-छराग्निः ।
अपहृत-निजरेखे वंशरत्ना-पराधिन्-
अहह हिम-मयूखो दुःसहं किं न कुर्यात् ॥ ८॥
पुरा सारङ्गाक्ष्या विविध-रस-भावैर्-उपचितो
वियोग्-एर्ष्या-क्रोधात्-सपदि मदनो मां व्यथयतु ।
कठोर-श्रीर्-अन्तर्-दहन-तुहिनासार-तरला
दशायां-अस्यां मे बत मुकुट-भूषापि विमता ॥ ९॥
बाणैस्ते मधु-संस्कृतैर्-अविरही वध्यः कथं स्याद्-अतः
स्वान्तं प्राप्य मनाग्-अनार्य चलयन्-धत्से दशां-ईदृशीम् ।
श्रीचेतोभव भावय त्रिजगतां सम्मोहकं त्वां विना
देहार्ध-प्रतिपन्न-मूर्तिमपि तां को वा वियोक्ता मया ॥ १०॥
दृश्यं सर्वमपि प्रिये तव वपुः श्राव्यं वचस्-तावकं
स्पृश्यं त्वत्कुच-कुम्भ-युग्ममपि च घ्रातव्यं-आस्यं तव ।
आस्वाद्यं च तवाधरा-मृतमपि ध्येयं त्वद्-आलिङ्गनं
सर्वं त्वन्-मयमेव को नु विरहः का वा नियोग-व्यथा ॥ ११॥
अम्भोरुहं वदनं-उत्पलं-ईक्षणं च
चूत-प्रवालं-अधरं लिकुचावुरोजौ ।
चाम्पेयदाम वपुर्-आदधती वनश्रीर्-
एषा तनोति कुतुकानि तटातकेव ॥ १२॥
आमोदैर्-मधुमेदुरैर्-अलिकुलैर्-आरब्ध-चारु-स्वनैः
सोत्कण्ठैः कलकण्ठ-कण्ठ-रणितैः शीतैश्च वाताङ्कुरैः ।
नीतो हन्त वनाद्-वनान्तरं-असौ दृष्ट्वा च तत्रोत्तरं
हालास्यं नवरत्न-सौधं-अगमद्-बालेन्दु-चूडामणिः ॥ १३॥
मधुरा-नगरोपान्त-रत्न-सौध-विहारिणम् ।
जगाद मीननयना-सखी कर्पूर-सुन्दरम् ॥ १४॥
अष्टमाष्टपदी
Ashtapadi 8
राजसुता रतिरूपा शिव
चन्दन-मलय-समीर-सुधाकर-विरचित-शतगुण-तापा । (ध्रुवम् ॥
पश्यति न किमपि दृश्यं-उदास्ते विशति विषादं-अवार्यम् ।
शङ्कर तावक-विरह-विचारे चञ्चति मुञ्चति धैर्यम् ॥ १॥
कनक-सरोज-रजोभर-धूसरमपि तनयाकृत-हंसम् ।
भसित-तिरोहित-पावकमिव संस्पृश्य क्षिपति नतांसम् ॥ २॥
फाल-विलोचन फणिपति-कङ्कण खण्डित-चन्द्र-ललाम ।
अनल-शरीर किरात-वरेति च जपति सदा तव नाम ॥ ३॥
नवघनसारै रुचिर-शरीरं रचयति मृगमद-कण्ठम् ।
निज-शशिकलया कलित-वतंसं श्लिष्यति लसद्-उपकण्ठम् ॥ ४॥
ध्यायति किञ्चन विलिखति किञ्चन कुप्यति जनं-उपयान्तम् ।
तुष्यति विजने क्षणमपि शुष्यति स्मृतं-अनपेक्ष्य भवन्तम् ॥ ५॥
क्षणमिव मरकत-गृहं-अधिशेते क्षणमिव नलिनी-पत्रम् ।
क्षणमपि कदलीवेदीभागं पारद-तरल-चरित्रम् ॥ ६॥
काम-शरानल-कवचितमपि निज-जीव-कुसुम-मृदु-बन्धम् ।
ध्यानरसेन मुहुः परिरक्षति शङ्कर भवद्-अनुबन्धम् ॥ ७॥
अलस-विलोचनं-अङ्कुरित-स्मितं-अनितर-परिचित-दास्यम् ।
अमित-कुतूहलमिह वाञ्छति तव हालास्येश रहस्यम् ॥ ८॥
इति श्रीमत्-परमशिवातिवादिमूर्धन्यस्य सदाशिव-दीक्षितस्य कृतिषु
चतुःषष्टि-लीलासङ्ग्रहे गीतसुन्दरे द्वितीयः सर्गः ॥
तृतीयः सर्गः
Sarga 3
श्लोकानि
दृष्टिं वस्तुषु न प्रचोदयति सा दृष्टानि नापेक्षते
सापेक्षाणि न चाददाति न तथा धत्ते गृहीतान्यपि ।
सुप्तेव प्रतिबोधितेव विमतेवाप्तेव भीतेव च
प्रत्य्त्पन्न-बलेव ते विरहिणी प्रत्याशया प्राणिति ॥ १॥
चित्रे त्वां चिर-निर्मितं पुनरपि द्रष्टुं न शक्नोति सा
कन्दर्प्-आकृति-शङ्कया शशिभयान्-नादर्शं-आलोकते ।
किं वक्ष्ये विरहे तव प्रमथिता निर्वेग-शङ्का-शतैर्-
अङ्गानामपि सौरभैर्-अपकृतिं जानाति मीनेक्षणा ॥ २॥
नवमाष्टपदी
Ashtapadi 9
देशाक्षिरागेण गीयते । मिश्रछाप् तालः ।
अम्बिका जगदम्बिका
जगतां-अधिनायिका ॥ ध्रुवम् ॥
शरद्-अमृत-किरण-शुभ्रं-उदारम् ।
विरहोचितमिव वहति शरीरम् ॥ १॥
शिरसि करोति सुधाकर-कलिकाम् ।
सुमशर-चीटीमिव भय-जनिकाम् ॥ २॥
रविकिरणारुणमपि च कपर्दम् ।
व्रतमिव विदधात्यलकविमर्दम् ॥ ३॥
कर-विवलित-चन्द्रकला-घुटिका ।
जपति किमपि तव सुखसङ्घतटिका ॥ ४॥
करधृत-पुस्तकं-एति समोदम् ।
सरस-कवितया कमपि विनोदम् ॥ ५॥
हिमकिरणोपल-तनुरिव शशिना ।
भवता किरतु सुधा-रस-मधुना ॥ ६॥
अलमिह मन्मथ-विक्रम-विधिना ।
परं-उपयाहि पुरेति सुवचना ॥ ७॥
मनसि वचस्यपि वपुषि वसन्तम् ।
प्रथयति हालास्येश भवन्तम् ॥ ८॥
श्लोकानि
विमोहितां विस्मृत-बाल-लीलां
वियोग-दीनां-अमृतांशु-मौले ।
सञ्जीवय त्वं सरसाङ्ग-सङाद्-
अनङ्गदेवे शपथोऽन्यथा ते ॥ ३॥
व्याप्ता शीतकर-त्विषेव तरला तस्यास्-तनुः पाण्डरा
सङ्क्रान्तं स्मर-कार्मुकैरिव मुखं कर्णान्त-मुग्धेक्षणम् ।
हृत्वा धैर्यं-उपागतो बहिरिव श्वासानिलो वेगतश्-
चैतन्यं त्वयि गूहितं विषधरे नाद्यापहर्तुं क्षमः ॥ ४॥
अपि वपुषि समर्पितार्धभागा
तव पुरभाग-निगूहनोत्सुका या ।
परुष-विरहिणी कथं नु सैव
ज्वलद-समेषु-शरानलं सहेत ॥ ५॥
इह मणि-सदने वसामि तस्या
झटिति समानयने सखि त्वरेथाः ।
इति शिव-वचसा क्षणाद्-उपेता
तरल-दृशं पुनराह तां वयस्या ॥ ६॥
दशमाष्टपदी
Ashtapadi 10
आनन्दभैरवी रागेण गीयते । आदितालः ।
गिरिजाते पुर-वैरी
मज्जति विपुल-विषादे । ध्रुवम् ॥
गरमिव नवघनसारं गणयति चकितेन ।
रविमिव रजनीकरं प्रणमति बहु विनयेन ॥ १॥
रिपुमिव निज-हित-लोकं कलयति करुणेन ।
गिरिमिव मृगशावकं विचरति चिर-चलितेन ॥ २॥
वनमिव मणि-गृह-जातं प्रथयति श्वसितेषु ।
मणिमिव कर-चालितं विचरति त्वां विपिनेषु ॥ ३॥
शुचिमिव किसलय-जालं शमयति सलिलेन ।
शठमिव मलयानिलं प्रशपति सह शपथेन ॥ ४॥
अधिवपुर्-उदयति तापे त्यजति चन्द्र-ललाम ।
निनदति वन-मधुपे श्लथयति धृत-सुमदाम ॥ ५॥
विलसति धुरि हालास्ये नयनसुखं-उपैति ।
स्फुरति विरह-रहस्ये सीदति रुजं-उपयाति ॥ ६॥
श्लोकानि
दत्ता जीव-कला रति-प्रणयिने यत्र त्वया मुग्धया
तस्मिन्-नीप-पराग-पाटलतरे माणिक्य-सिंहासने ।
पश्यन्-उत्सुकं-अन्तरान्तरचलन्-नेत्राञ्चलैस्-त्वामिव
स्वामी तावक-यावकारुण-दरस्मेराधरं ध्यायति ॥ ७॥
एकादशाष्टपदी
Ashtapadi 11
केदारगौलरागेण गीयते । आदितालः ।
नीप-वनान्ते मधुरोपान्ते निवसति राज-किरीटी ।
चतुरे तादृश-नवरस-रसिकं सुखयति नान्यवधूटी ॥ध्रुवम् ॥
तरुण-शशाङ्कं मृगमद-पङ्कं
तव शिवकृतं-अपहारम् ।
सखि परिशीलय सपदि विलोकय
घुमुघुमितं घनसारम् ॥ १॥
चञ्चद्-अपाङ्गं चतुर-कुरङ्गं नटयति कर-कमलेन ।
स्मरति तवालस-वलित-ससाध्वस-नयन-विलासमनेन ॥ २॥
नयति समीरं कुवलय-हारं परिणत-मुकुल-कलापम् ।
नवहिम-सलिलं मलयजं-अतुलं घटयति शयन-समीपम् ॥ ३॥
मदन-कलम्बं तव च विलम्बं न हि सहते पुरवैरी ।
तव शिखि-चन्द्रक-रुचिर-नवांशुक-परिमल-विसरविहारी ॥ ४॥
चलति वतंसे श्रयति च हंसे मृदुगतिं-अनुसर धीरम् ।
श्रुतिसुख-रचनं करशुक-वचनं लालय पथि सुकुमारम् ॥ ५॥
दलति निचोले गलति दुकूले दृढ-परिरम्भण-शीलम् ।
रमय विशङ्कं रचित-नखाङ्कं शिवं-अधरामृत-लोलम् ॥ ६॥
सम-रति-सरसं शिवं-अतिरभसं सुख-शयितं कुचभारे ।
कृतमणि-रणितं विलसित-मणितं रञ्जय नवसुखसारे ॥ ७॥
मदन-निदानं मद-कल-गानं रहसि निवेदय लास्ये ।
सखि मणि-सदने सरसिज-वदने भज तं नवहालास्ये ॥ ८॥
श्लोकानि
किसल-चलितं कीरालापं पुरो न समीहते
ललित-वलित-ग्रीवं सास्रं दिशो मुहुर्-ईक्षते ।
कलयति करे वक्त्राम्भोजं तवागम-सम्मुखं
ग्लपयति वनं गाढ-श्वासैः शिवे रमणस्-तव ॥ ८॥
अस्तं चण्ड-करस्य वीक्ष्य विमुखो देवः प्रतीक्ष्यान्तरे
कान्त्या तेषु नरावृतं जगदिति प्रीणाति सन्ध्यारुणे ।
ध्वान्तं गाढमिति प्रमुग्ध-करणो भूयःकलां-ऐन्दवीं
सम्भाव्य प्रणयार्पितां तव तनु-ज्योत्स्नामपि श्लाघते ॥ ९॥
सञ्चारस्-तिमिरस्य मुग्ध-तरुणीं-आराहव-प्रक्रिया-
सार-ख्यापक-सूत्रधार इव हि व्यग्राभिसार-क्रमः ।
सत्यस्मिन्-दृशि बद्ध-पुष्प-धनुषो यूनोर्-अपारं रहः-
संलापैः सह सम्भ्रमैः सह रतारम्भैः सहालिङ्गनैः ॥ १०॥
इदमिह तटं हेमाब्जिन्यास्-ततो नवचम्पकः
कुरवक-तरुं वामे कृत्वा रसालं-उपाश्रितः ।
तदनु निकटे द्रष्टुं शक्यां-उपेत्य स सम्भ्रमात्-
सुदति भवतीं गाढाश्लेषैर्-नयेन्-मणिवेदिकाम् ॥ ११॥
अय तां गुरु-कुच-तान्तां
गमन-श्रान्तां नितम्ब-भारेण ।
दृष्ट्वा निकुञ्ज-शयितां
तच्चरितं प्राह शङ्कराय सखी ॥ १२॥
द्वादशाष्टपदी
Ashtapadi 12
देव विभो महादेव विभो
त्वयि चिरसक्ता पाण्ड्यसुता ॥ध्रुवम् ॥
कथमपि कतिपय-पदं-अनुचलिता ।
गुरुकुच-जघन-भरेण विवलिता ॥ १॥
श्वसिति न सौरभ-मिलद्-अलि-भीता ।
न चलति मलय-समीर-विधूता ॥ २॥
गणयति किमपि मनोरथ-जालम् ।
हसति विनिन्दति विभवं-अवेलम् ॥ ३॥
मुहुरपि कलयति मण्डनं-अमितम् ।
दिशि दिशि किरति दृशं सह-चकितम् ॥ ४॥
तिमिरागतमिव तत्रभवन्तम् ।
गायति सूचित-वास-गृहान्तम् ॥ ५॥
भवद्-अभिसार-विलोकन-कुतुकम् ।
सफलयतरलित-चन्दिर-कलिकम् ॥ ६॥
अपचित-मृदुल-रसाल-किसाला ।
रचयति शयनं रतिसुख-लोला ॥ ७॥
जीवति सा तव पुराकृत-कलया ।
हालास्ये भवद्-अर्पिता-धर-सुधया ॥ ८॥
इति श्रीमत्-परमशिवातिवादिमूर्धन्यस्य सदाशिव-दीक्षितस्य कृतिषु
चतुःषष्टि-लीलासङ्ग्रहे गीतसुन्दरे तृतीयः सर्गः ॥
चतुर्थः सर्गः
Sarga 4
श्लोकानि
अचिरं-अभिसर त्वं प्रीणय प्राण-कान्तां
त्वदधर-मधु-लोला कातरा सा वियोगे ।
चलितुं-अनवकाशा मुद्रिता मोहकोशे
गणित-रजनि-शेषा भृङ्ग-योषेव खिन्ना ॥ १॥
अपि चिरयसि चेत्त्वं भावजं वा रुजं वा
परिहर परमेश प्राणितुं प्रेयसी ते ।
परिचय-सरसानां सा सखीनां वियोगेऽप्य्-
अनुकलयति तापं किं पुनः प्राण-बन्धोः ॥ २॥
अद्यैव हन्त कुसुमायुध-जैत्र-यात्रा
विस्तारिता पट-कुटी मकराङ्कितेव ।
आलोक-भीत-सकलारि-कला दशाभिर्-
आबद्ध-रश्मिर्-उदिता हरिणाङ्क-मूर्तिः ॥ ३॥
तपति तनुं हिममानौ
विरह-कृशानौ च दहति बहुभीता ।
अविरलित-बाष्प-पूरं
शोकं-अधीरं वितेने सा ॥ ४॥
त्रयोदशाष्टपदी
Ashtapadi 13
आहरिरागेण गीयते । झम्पातालः ।
किं करोमि कथं सहे
विफलित-कठोर-जीविताहम् ॥ध्रुवम् ॥
अति-परुष-कामशरं-अनुसरति हिमकरे ।
रति-कुतुकं-अपरासु नयति शिति-कन्धरे ॥ १॥
अपि तमसि मम वसतिरिव विपिन-कौमुदी ।
गिरिश-मतिरिव बहुल-कुसुम-वन-षट्पदी ॥ २॥
अनुशोच्य बहु खेदयति चक्रवाकी ।
नीलकण्ठतयेव नटति केकी ॥ ३॥
तनुमिव हि शोषयति भूषण-कदम्बम् ।
कलयति च परवशे गिरिशे विडम्बम् ॥ ४॥
सुरलोक-वनिताभिर्-अपि यद्-अनुयातम् ।
भावि शल्यं तदिह मम हृदि निखातम् ॥ ५॥
अतिविरहि-वपुर्-इदं किमिति धृत-चेतनम् ।
अनुभविष्यति किं नु विमुख वृष-केतनम् ॥ ६॥
अनुचलित-चन्द्रकलं-अनुवलित-कन्धरम् ।
स्फुरति मम मानसं स्फुरित-मधुराधरम् ॥ ७॥
मदन-शशि-मलय-गिरि-पवन-वैरस्यम् ।
जित्वा कदा यामि नव्य-हालास्यम् ॥ ८॥
श्लोकानि
देवः पुष्पवने विलास-रसिकः किं हेमनाथारतः
किं वा सार-तरेण भद्र-वनिता-गानेन सम्मोहितः ।
यद्वा वैश्यसुता-कर-ग्रह-सुखान्नेष्टे निवृत्यै कुतः
सारज्ञः प्रणयी युवा समरसोऽप्यद्यापि नैवागतः ॥ ५॥
अथानुनेतुं शशिखण्ड-चूडं
चिराद्-अलब्धा-वसरां-उपेताम् ।
सखीं विलोक्य प्रियं-अन्यकान्ता-
वशीकृतं दुष्टं-इवाह गौरी ॥ ६॥
चतुर्दशाष्टपदी
Ashtapadi 14
कापि नवललिता वशयति शिवं-अङ्गज-पालिता ॥ध्रुवम् ॥
मदन-मदोदित-वदन-विकासा ।
रतिसुख-लालस-नयन-विलासा ॥ १॥
दरहसित-स्फुरिताधर-बिम्बा ।
तरुणिम-मद-मत्त-वितत-नितम्बा ॥ २॥
सरभ-सपरिरम्भ-गुम्फित-पुलका ।
चिर-परिशीलित-नख-दन्त-कलिका ॥ ३॥
सकुतुक-समरस-केलि-कलापा ।
कुच-कुम्भ-कौसुम्भ-कलित-विलेपा ॥ ४॥
नव-मदनाहव-सम्भृत-लीला ।
मणि-कुण्डल-बिम्ब-चुम्बि-कपोला ॥ ५॥
षे एन्जोय्स् एवेर्-नेव् पस्सिओनते स्पोर्त्स्, दुरिन्ग् व्हिच् थे एअर्-रिन्ग्स् किस्स् हेर् चीक्स्। (५॥
काञ्ची-मणि-रणितोचित-मणिता ।
स्मर-समरोद्धत-नटन-विवलिता ॥ ६॥
चल-दलकाहत-कर्ण-शिरीषा ।
दर-मीलितेक्षण-दर्शित-तोषा ॥ ७॥
प्राणप्रियासीति कथित-मनोज्ञा ।
हालास्य-पुर-वास-रचित-प्रतिज्ञा ॥ ८॥
श्लोकानि
कान्तः कन्दुक-खेलद्-अङ्घ्रि-कमल-व्यत्यस्त-नृत्य-क्रमै-
रागः स्वीयं-अपाकरिष्णुरपि हा तिष्ठेत मह्यं कदा ।
औत्सुक्याद्-अनुरञ्जनाद्-अनुपदस्पर्शाद्-अनुप्राप्य मां-
आश्लिष्येद्-अनुलालयेद्-अनुवदेद्-आनन्दयेद्वा कदा ॥ ७॥
मन्दो निन्दतु चन्दनाचल-मरुद्-व्यालीव केलीशुकी
कान्तोऽरुन्तुद-वाचं-उच्चरतु हा कामोऽपि भीमायताम् ।
किं वक्ष्यामि कथं कठोर-विरहे सन्तप्ततया यन्मया
शीतांशुर्-मम जन्म-वंश-गुरुरप्य्-अद्यैव वैरायते ॥ ८॥
अत्रान्तरे पुष्प-वनाभिसारे
सौन्दर्यं-अन्यादृशं-आवहन्तीम् ।
कैवर्त-कन्यां चकमे पुरारिर्-
इत्थं सखी प्राह सुमीन-नेत्राम् ॥ ९॥
पञ्चदशाष्टपदी ।
Ashtapadi 15
मुखारिरागेण गीयते । मिश्रछाप् तालः ।
यतते कुसुमायुध-समरे
मधुर-सुधांशुर्-अधुना ॥ध्रुवम् ॥
जित-मणि-मुकुरे स्मित-पुर-रुचिरे कामिनी-गण्ड-तले ।
घटयति वदनं सविलास-मदनं विधुमिव सुधा-मण्डले ॥ १॥
शितमुख-रचने रमणी-रशने शुकतुण्ड-शिखरोपमे ।
नवनव-मधुरं जित-बिम्बं-अधरं वितरति रति-सम्भ्रमे ॥ २॥
परिचय-पृथुले गुरुकुच-युगले मञ्जुल-मकरीदले ।
सृजति विशङ्कं सरस-नखाङ्कं मणिमिव कनकाचले ॥ ३॥
रतिगति-चतुरे रशना-मुखरे खेलति पृथु-जघने ।
परिचित-नलिने यमुना-पुलिने हरिरिव रुचिर-घने ॥ ४॥
चिकुर-विभागं नयति सरागं लावण्य-पूर-पथम् ।
विलसद्-अकुटिलं सिन्दूर-पटलं रविमिव तिमिर्-आवृतम् ॥ ५॥
स्मर-चाप-तरले भ्रुकुटी-युगले लोचन-गुण-रञ्जिते ।
श्रित-फाल-फलकं मृगमद-तिलकं शरमिव कामयते ॥ ६॥
कुचगिरि-वहने कचभर-नहने मदयति बहु मोदते ।
गायति गीतं रति-सुख-जातं नृत्यति विवशायते ॥ ७॥
उपवन-सविधे प्रतिकल-विविधे चुम्बन-बन्ध-शते ।
तरलित-चिकुरे तरुणी-निकरे हालास्यपती राजते ॥ ८॥
श्लोकानि
काञ्ची-चञ्चल-किङ्किणी-कलरवैः कर्णामृतं कल्पयेद्-
वेणी-सौरभ-सम्पदा सहजया घ्राण्प्सितं पूरयेत् ।
भाग्यानाम्-अधिदेवता नयनयोः सैवोपलभ्येत वेत्य्-
आशास्ते स विशङ्कते विवलते त्वां वीक्षते शङ्करः ॥ १०॥
आमोदो रति-कौशले बहुमतिः कन्दर्प-सारस्वते
सौजन्यं मृदु-भाषणे सखि कथं विस्मार्यते मायिना ।
स्थाने धूर्त-शिखामणिः स रमते धन्यासु वन्यासु वा
यातायातदये समान-हृदये चिन्ता दुरन्ता मम ॥ ११॥
षोडशाष्टपदी
Ashtapadi 16
या सुखिता सखि शम्भुना
या सुखिता । (ध्रुवम् ॥
मुकुट-घटित-शशधर-शकलेन ।
न बिभेति सा नवहिम-सलिलेन ॥ १॥
मधुर-समधुरिम-लसद्-अधरेण ।
न जहाति सा मुदं-अलि-निकरेण ॥ २॥
सहकार-किसलय-मृदुल-शयेन ।
न दुनोति सा हृदि मधु-समयेन ॥ ३॥
दरहास-विकसित-मुखमधुरेण ।
न तनोति सा शुचं-अतनु-शरेण ॥ ४॥
मृगमद-सुरभित-वसनाञ्चलेन ।
न दधाति सा परिभवं-अनिलेन ॥ ५॥
प्रतिकल-नवनव-शुभ-रचनेन ।
न तनोति सा रुजमपि विजनेन ॥ ६॥
सललित-समरस-सुविहरणेन ।
न बिभर्ति सा रुषं-उपचरणेन ॥ ७॥
अनुरत-हालास्य-पुर-निलयेन ।
समुपैति सा नवमणि-वलयेन ॥ ८॥
इति श्रीमत्-परमशिवातिवादिमूर्धन्यस्य सदाशिव-दीक्षितस्य कृतिषु
चतुःषष्टि-लीलासङ्ग्रहे गीतसुन्दरे चतुर्थः सर्गः ॥
पञ्चमः सर्गः ॥
Sarga 5
श्लोकानि
न किं ते दाक्षिण्यं पवन न किं-आमोद-समयः
प्रसीद प्राणोऽसि प्रणयिनं-अनुप्रापय मनाक् ।
श्वसन्तं हा हन्तज्वलयसि मनोजाग्निं-अधुना
जगत्प्राणस्येदं बत मलय-बन्धो किं-उचितम् ॥ १॥
किञ्चिच्-चलापाङ्ग-निदेश-मात्राल्-
लीलावतीनां कुशलं विधातुः ।
कन्दर्प कुत्र्-आत्मभुवस्-तवापि
संहार-पारुष्यमिदं प्रसक्तम् ॥ २॥
निर्वेद-सङ्कल्प-विकल्प-जालैर्
नीत्वा कथञ्चिद्-रजनीं प्रभाते ।
स्मरातुरापि प्रणमन्तं-अग्रे
नवागसं शङ्करं-आह गौरी ॥ ३॥
आलिप्तं निटिले तव प्रियतमा-सीमन्त-सिन्दूरकं
सङ्क्रान्तो नयनाञ्चले नववधू-कर्पूर-वीटी-रसः ।
इन्द्धे कज्जल-कालिमा कलुषवद्-बन्धूक-शोणाधरे
लब्धं सर्वं-अभीष्टं-आशु भवता धन्योऽसि मान्योऽसि मे ॥ ४॥
सप्तदशाष्टपदी ।
Ashtapadi 17
मलहरिरागेण गीयते । आदितालः ।
साधु पुरहर साधु विषधर
साधितवानसि कामम् ।
तां-उपलालय सोमकलाधर
या तव दिशति ललामम् ॥ध्रुवम् ॥
मृदुपद-रञ्जित-नवलाक्षारस-
संवलितं तव फालम् ।
उदयारुण-रुचिरार्ध-विभासित-
विधिं-अनुसरति सलीलम् ॥ १॥
पृथुल-पयोधर-कुङ्कुम-रस-दृढ
मुद्रितं-उरसि समोहम् ।
कथयति वर्तुल-मण्डल-युगलं
वरतनु-कुच-परिणाहम् ॥ २॥
एककलावति भवति पुरा शिव
शेखरमात्रं-उदारम् ।
बहुल-नखेन्दु-कलाभिर्-अलङ्कृतं-
अधुना लसति शरीरम् ॥ ३॥
रजनी-जागर-चुम्बन-लालस
कोकनदाधिक-शोणम् ।
लोचन-युगलं तव रति-साहसं-
अनुवदति स्मयमानम् ॥ ४॥
विद्रुम-मरकत-मौक्तिक-घटितं
कुङ्कुम-पङ्किल-हारम् ।
उरसि निधाय वृथा वचनैरपि
किरसि सुधारस-सारम् ॥ ५॥
नवनवबन्ध-विशेष-विनोदित-
युवति-शतं तव गात्रम् ।
मृगमद-कुङ्कुम-रजनी-कज्जल-
यावक-विरचित-चित्रम् ॥ ६॥
कैतव-कौशलमपि तव विदितं
तां-उपयाहि समौनम् ।
स्वादुसक्तु-गमित-प्रणयामिव
न गणय मामपि नूनम् ॥ ७॥
तावक-जनमपि तादृश-सुखमपि
किमिति विहाय विषादम् ।
कलयसि हालास्याधिप मा कुरु
पुनर्-अलसासु विवादम् ॥ ८॥
श्लोकानि
अङ्गं शृङ्गार-तुङ्गं तरुणिम-विततेर्-अन्तरङ्गा अपाङ्गा
वक्त्रं शीतांशु-मित्रं जयतु मधुकर-श्रेणिका वेणिका ते ।
दक्षो वक्षोज-भारः स्मर-समर-समारम्भ-सम्भावनीयः
कान्ते क्लान्ते सखि त्वं कथमसि विमुखी मान्मथेऽपि प्रपञ्चे ॥ ५॥
तदनु स्मृत-विरहां तां विरस-स्वान्तां विषाद-सङ्क्रान्ताम् ।
प्रकटित-पशुपति-चरितामाली मलयध्वजां प्राह ॥ ६॥
अष्टादशाष्टपदी
Ashtapadi 18
यरकलकाम्भोजिरागेण गीयते । आदितालः ।
सुन्दरं सोमसुन्दरम् ।
नन्दय सखि शरद्-इन्दु-मुखम् ॥ध्रुवम् ॥
अयि शिवं-अनुनय सन्त्यज कोपम् ।
जनयसि सरसे किमु परितापम् ॥ १॥
रुचिर-तद्-अङ्गुलि-परिचय-पृथुलम् ।
सफलय सपदि पयोधर-युगलम् ॥ २॥
तव मधुराधर-मधुरिम-रसिकम् ।
सकृद्-अवलोकय समरस-कुतुकम् ॥ ३॥
विफल-विचार-विषाद-विदूना ।
सीदसि किमिति कलावति दीना ॥ ४॥
प्रतिवदसि प्रियतमं-उपयातम् ।
तं घटयसि परयुवती-जातम् ॥ ५॥
करगतं-अमृतं विकिरसि बाले ।
अहह कुतूहल-कुसुमित-लीले ॥ ६॥
अचिरं-उपाश्रय कुवलय-नयने ।
शङ्करं-अभिनव-किसलय-शयने ॥ ७॥
सुगुण-निधे देवि कुरु मम वचनम् ।
स्मर-हालास्याधिप-रतिरस-रचनम् ॥ ८॥
श्लोकानि
प्राप्तश्च प्रार्थनीयः सुदति वदति च प्रेमसारानुसारं
वामे कामेषु-भिन्नं वपुर्-अतिमृदुलं पश्य पश्यालिकस्य ।
मानं मौनं च मा गाः सखि सुखय रतौ सत्वरा जित्वरा त्वं
रन्तुर्-भर्तुर्-वधूनां-अभिलषित-सुख-प्रापणः श्लाघनीयः ॥ ७॥
तस्मिन्-दिनान्त-समये सहसा गिरीशो
दोषा-नुचिन्तन-कषायित-लोचनां ताम् ।
आराद्-उपेत्य विनयेन मुहुः श्वसन्तीं
सव्रीड-नम्र-वदनः स्वयं-इत्युवाच ॥ ८॥
एकोनविंशाष्टपदी ।
Ashtapadi 19
मुखारिरागेण गीयते । झम्पातालः ।
प्रिये मीननयने
विसृज मयि रोषं-अविचारम् ।
रहसि कृत-दूषणं रमणि मम भूषणं
कलय परिरम्भं-उपहारम् ॥ध्रुवम् ॥
प्रसरतु तव प्रणय-सरसं-अवलोकनं
भजतु जगद्-अमृतरस-सेकम् ।
वचनमपि सप्रेम यदि भवति तावकं
वशयामि मदनं-अतिलोकम् ॥ १॥
तरुणि तव लोचनं न कलय रुषारुणं
दलित-कोकनद-दल-समानम् ।
विविध-रति-साहसैर्-अधिरजनि जागराद्-
अनुरागं-अनुवहतु नूनम् ॥ २॥
कलकण्ठि किमिति मयि दोष-परिगणनेन
मुखरयसि मुख-कमल-नालम् ।
स्मर-समर-काहली-कलकल-विजृम्भितं
मणितं-अनुनय मधुर-लीलम् ॥ ३॥
श्वसित-पवनेन परिशीलयसि वेपथुं
विद्रुम-लताङ्गि किं-अधीरम् ।
विषम-रति-रभसेन कुच-लिकुच-ताण्डवं
वियति कल्पय तरल-हारम् ॥ ४॥
प्रतिफलित-ताटङ्क-मणि-किरण-रञ्जितं
न तिरय करेण सुकपोलम् ।
घनसार-वीटिका-कबलं-अतिसौरभं
देहि मम जित-मधुर-जालम् ॥ ५॥
ललित-वलित-ग्रीवं-उन्नमित-वदनं-अयि
मयि किं-अनुचिन्तनं-अपारम् ।
रदनदर-संसर्ग-निर्गलन्-मधुरसं
वितर मधुराधरं-उदारम् ॥ ६॥
गजदनुज-कुम्भ-दृत-मुक्ताफलोज्ज्वलं
मणिसरं गमय कुच-भारम् ।
अनुयातु शशिकला तारक-समाजमिव
मम करज-रेखानुवारम् ॥ ७॥
हंसक-झलञ्झलित-मुखर-पद-पङ्कजं
मम हृदि निधेहि सुकुमारम् ।
स्मर-ताप-शमनाय वर्षतु सुधारसं
हालास्य-कृत-राज्य-भारम् ॥ ८॥
श्लोकानि
यदि च कुपितं चेतो हेतुं विनैव तव प्रिये
प्रहर परुषं वेण्या वाण्या विनिन्द रुषं त्वज ।
अहह दहति क्रूरो मारः प्रयुज्य शरान्-बहून्-
व्यथित-वपुषं वामे भामे कथं समुपेक्षसे ॥ ९॥
दिशि मम दरस्मेरां दृष्टिं दिशेद्-अवलोक्य-मां
त्रिचतुर-पदं प्रत्युद्गच्छेन्-नितम्ब-भरालसा ।
उपगतमपि प्रेमावेशान्-निगूहन-चुम्बन-
प्रथम-वचनैर्-धन्यं कुर्यात्-प्रिये भवती कदा ॥ १०॥
अनुनय-विनयाभ्यां प्रापयित्वा प्रसादं
गतवति मधुरेशे मञ्जु सङ्केत-कुङ्जम् ।
तदनु शबर-नेत्रां प्राप्य काचित्-प्रदोषे
चतुरतरं-अवादीद्-रत्नपेटीं दधाना ॥ ११॥
विंशाष्टपदी
Ashtapadi 20
कल्याणीरागेण गीयते । मिश्रछाप् तालः ।
कान्ते शशिमकुतं-अभिसर ।
कातर-लोचने ॥ध्रुवम् ॥
तव हृदया-नुसरण-चतुरं रति-कौशल-गरिम-धुरीणम् ।
वेगवती-तट-कुसुमित-वञ्जुल-कुञ्जे कृत-मृदुगानम् ॥ १॥
नवमणि-काञ्ची-कलरव-बोधित-शुक-कोकिल-परिवारम् ।
प्रतिपदं-अनुनय जघन-स्तन-भर-विघ्नित-गमन-विचारम् ॥ २॥
अहमहमिकया नवनव-कुसुम-मधूलि-चलद्-अलिगुञ्जे ।
नटति विलोकय नव-पवनाहत-मञ्जरिका-नवकुञ्जे ॥ ३॥
कनक-दुकूल-चकच्चकित-स्तन-कलश-युगान्तर-लग्नम् ।
मृदु परिवेलय मणिसरं-उपकुरु करकमलेन वलग्नम् ॥ ४॥
शङ्कित-नवजलद्-आगम-तिमिर-विलोकन-नटित-मयूरम् ।
अयनं-उपाश्रय विविध-पराग-भरालस-मलय-समीरम् ॥ ५॥
नयन-विलास-विनिर्मित-कुवलय-मालिकयैव वनान्तम् ।
भूषय दरहसिताङ्कुर कुसुमैर्-उपसर सखि तव कान्तम् ॥ ६॥
अवगतमेव सखीभिर्-उदाहर तव पति-समरस-भावम् ।
स्फुरद्-अधरं मुहुर्-उपचित-पुलकं न तिरय भवद्-अनुभावम् ॥ ७॥
अनति-विभूषणं-अखिला-वयवं प्रिय-घटनाय तवाङ्गम् ।
कलय विलासिनि वशितानङ्गं हालास्याधिपसङ्गम् ॥ ८॥
इति श्रीमत्-परमशिवातिवादिमूर्धन्यस्य सदाशिव-दीक्षितस्य कृतिषु
चतुःषष्टि-लीलासङ्ग्रहे गीतसुन्दरे पञ्चमः सर्गः ॥
षष्ठः सर्गः
Sarga 6
श्लोकानि
रन्तुः पुष्पवतीं दिवा दिनमणेर्-भूयः प्रदोषागमे
तामिस्रालि-मिषाद्-अकीर्त्ति-पटली व्याप्नोति सर्वा दिशः ।
किं चेहाभिसरद्-वधूकचमरामोद-प्रिया षट्पद-
श्रेणिर्-नील-सरोज-कानन-धिया व्यग्रा परिक्रामति ॥ १॥
तनु-प्रभा-कल्पित-चारु-चित्रकं
सलील-संव्यानमिव स्तनान्तरे ।
निरन्तरायं परिरम्भ-सम्भ्रमं
कलावतीनां तनुते चिरं तमः ॥ २॥
एकविंशाष्टपदी
Ashtapadi 21
घण्टारागेण गीयते । झम्पातालः ।
पश्य ललिते शङ्कर-विलासम् ।
पश्य ललिते ॥ध्रुवम् ॥
जलद-रुचि-वलभिद्-उपलाकर-घने ।
विलस सखि विद्युदिव मीननयने ॥ १॥
कनकमहि-परिलसित-धातु-निकरे ।
इह निवस मणिरिव सुगन्धि-चिकुरे ॥ २॥
शशि-किरण-विशद-तट-सौध-निकटे ।
इह भव चकोरीव चन्द्र-मकुटे ॥ ३॥
नलिनी-दला-रचित-मृदुल-शयने ।
इह चर मरालीव मन्द-गमने ॥ ४॥
वनपवन-दरदलित-सुमविताने ।
इह निनद रतिरिव सुललित-गाने ॥ ५॥
कोमल-तमालदल-कृत-कुटीरे ।
इह जय मयूरीव सुगुणहारे ॥ ६॥
अतिरुचिर-नवरत्न-कुट्टिमपदे ।
इह विहर मञ्जीर-शिञ्जित-पदे ॥ ७॥
अतिशयित-हालास्य-स्थल-सद्-उपवने ।
इह रमय शिवमवित-सकल-भुवने ॥ ८॥
श्लोकानि
निसर्ग-कच-सौरभ-प्रतिपद-प्रतिष्ठापके
तव प्रियतमे सखि प्रसव-चाप-तापाधिके ।
प्रमर्दित-घनस्तन-स्तबक-लिप्त-कस्तूरिका-
करम्बित-कराम्बुजे न कलय प्रतीपं वृथा ॥ ४॥
आलीषु किल दाक्षिण्यात्-केलीशुक-सहायिनी ।
सानन्द-मदना प्राप मीनाक्षी सुन्दरेश्वरम् ॥ ५॥
द्वाविंशाष्टपदी
Ashtapadi 22
मध्यमावतीरागेण गीयते । आदितालः ।
मधुराधिपतिं परिचित-समरस-भावम् ।
सा ननन्द समवेक्ष्य समाहित-कुसुम-सरासन-भावम् ॥ध्रुवम् ॥
मीनाक्षी सविलास-समागम-समुदित-बहुविध-लीलम् ।
विमल-कलानिधिमिव शरद्-उज्ज्वल-राका-रञ्जन-शीलम् ॥ १॥
विशदं-उरःस्थलं-अधिगत-नवमणि-खचित-मनोहर-भूषम् ।
अमृत-पयोनिधि-मध्यभागमिव समणिद्वीप-विशेषम् ॥ २॥
गौरी-कुच-भरं-अनुकलयन्तं सरस-कटाक्ष-विहारम् ।
कनक-महीधर-शिखराञ्चितमिव पारिजात-सुमहारम् ॥ ३॥
कुङ्कुम-रजसा गलनील-रुचिं विदधतं-उपरि सुदूरम् ।
चलित-कदम्ब-पराग-विधूसरमिव मधुकरं-अनुवारम् ॥ ४॥
कलित-कपोल-विकास-दरस्मितं-अनुरत-मदकल-गीतम् ।
प्रेमपूरं-अतिलङ्घित-वेलं बहिरिव मुहुर्-अनुयातम् ॥ ५॥
सित-सुकुमार-शरीरं-उदञ्चित-विद्रुम-राग-दुकूलम् ।
राजहंसमिव नवयावक-रस-रञ्जित-पक्ष-विलोलम् ॥ ६॥
मरकत-वलय-विभूषित-पाटल-कोमल-करयुग-सीमम् ।
वर-तापिञ्छ-स्तबकालङ्कृत-पल्लव-शरमिव कामम् ॥ ७॥
निटिल-विराजित-काश्मीर-तिलकं-अमित-कुतूहल-सान्द्रम् ।
हालास्य-पुरी-सौध-शृङ्ग-मणि-रुचि-रञ्जितमिव चन्द्रम् ॥ ८॥
श्लोकानि
दरस्मेरापाङ्ग-स्फुरित-मृदु-शोणाधर-दलं
चलत्-कर्णोत्तंसं कुसुम-शयनोपान्तगमने ।
तदानीं मीनाक्ष्याः पति-समरसा-लोक-कुतुकाद्-
उदीतो रोमाञ्चः स्मर-समर-रक्षा-कवचितः ॥ ६॥
लीलाशुकं प्रियतमस्य करे विधातुं
सव्रीड-सस्मित-ससाध्वसं-उद्यतायाः ।
तस्या मनोभव-विलास-वशंवदाया
आलीजनैर्-उपगता बहिरेव वृत्तिः ॥ ७॥
तदनु विजने केली-कुञ्जे सपल्लव-मल्लिका-
कुवलय-दलाकल्पे तल्पे तरङ्गित-वीक्षणाम् ।
सरस-ललित-प्रेम-स्थेम-प्रपञ्चन-कातरां-
अनुकल-नवव्रीडां कान्तां जगाद जगत्पतिः ॥ ८॥
त्रयोविंशाष्टपदी
Ashtapadi 23
नादनामक्रियारागेण गीयते । आदितालः ।
ललिते सपदि सदाशिवम् ।
समरसं-अनुभव कातरम् ॥ध्रुवम् ॥
प्रविश यवनिकां निविश ममाङ्के रम्भोरु प्रियसारे ।
मामिव पाणि-स्पर्श-विलोलं तव शुकं-अनुवद धीरे ॥ १॥
विसृज विशृङ्खल-रतिगत-वैभव-विरस-विलज्जित-भेदम् ।
विदलित-शेष-निचोलं-इवार्पित-गुरुकुच-सन्धि-विषादम् ॥ २॥
मर्दन-चञ्चल-नखकिरणैर्-अवलोकय कुच-तट-रागम् ।
मदन-मद-द्विपकुम्भ-विजृम्भितमिव सिन्दूर-परागम् ॥ ३॥
विनमित वेणिकं-उन्नमिता-ननं-अधरा-स्वाद-विशङ्कम् ।
न गमय नखमुख-घातं-इमं सखि पुनरिव विरहातङ्कम् ॥ ४॥
मृदुल-भुजान्तर-वलयित-कन्धर-बहुलित-रागं-अपारे ।
मां-आलिङ्ग्य सुमाशुग-तप्तं स्नपय सुखामृत-सारे ॥ ५॥
रूप-विलोकन-वचनाकर्णन-वदनास्वाद-सरूपम् ।
अनुरञ्जय मां-अतनु-पराजितं-अभिमुख-सरसालापम् ॥ ६॥
अकृत-श्रुति-पथ-लङ्घनमिव तव नयनाकर्ण-विलासम् ।
अमृत-विलङ्घन-भीरुमिवा-ञ्चसि मुहुर्-अधरावधि-हासम् ॥ ७॥
समरति-परवश-सञ्जीवनमिव मलय-समीर-कुमारम् ।
अनुरत-मणित-विलासैर्-अनुनय नवहालास्य-विहारम् ॥ ८॥
श्लोकानि
आशास्यं मम पूरयेति सरसं सम्प्रार्थितायास्-तदा
वक्तुं किञ्चिद्-उदञ्चितेऽधरदले मन्दाक्षमग्नं वचः ।
अंसावर्तितं-आननं पुलकितं ताटङ्क-रत्न-प्रभा-
रम्यं गण्डतलं मुहुर्-विवलिता दृष्टिः प्रियस्याधरे ॥ ९॥
प्रेम-पूर-परीवाह-कटाक्ष्-आविष्कृत्-आशयः ।
शङ्करः प्राह मीनाक्षीं साकूतं रन्तुं-इच्छया ॥ १०॥
चतुर्विंशाष्टपदी
Ashtapadi 24
कलयाधुना मदनाहवं मीनाक्षि नयनोत्सवम् । (ध्रुवम् ॥
सरस-दृगञ्चलभल्ल-पुरस्कृत-नखार्ध-चन्द्र-प्रकरे ।
विलसति निष्क्रममाण-मनोभव-कुञ्जर-कुम्भ-कुचान्तरे ॥ १॥
शुक-पिक-कोकिल-चन्दिर-मारुत-मधुमाधव-परिवारे ।
दिशि दिशि सज्जित-मधुर-शरासन-सुमशर-विविध-विहारे ॥ २॥
मणित-विजृम्भित-काहलि-कलकल-रव-मुखरे रत्यगारे ।
मणि-रशनाकृत-जयघण्टाध्वनि-मिश्रित-हंसक-रणित-भरे ॥ ३॥
नवनव-विकसित-रोमाञ्च-कवचित-तदिद्-उपमान-शरीरे ।
वशयति मां-अवशं रति-साहस-तत्व-निरूपण-सुन्दरे ॥ ४॥
अविरल-सङ्गत-सून-शराञ्चित-सरस-रसाल-किसाले ।
विरहि-मनोगत-मर्म-निकृन्त-नक्रकच-धुरन्धर-शीले ॥ ५॥
दृढ-परिरम्भण-चुम्बन-ताडन-कारित-घर्मज-शीकरे ।
मधुरिम-भरित-शरास-विलास-कन्दलितास्य-निशाकरे ॥ ६॥
मलय-समीरण-चञ्चल-कुन्तल-मधुपावृत-मुख-पङ्कजे ।
त्रिजगद्-अहङ्कृति-जलनिधि-शोषण-मण्डन-मण्डित-कुम्भजे ॥ ७॥
विजयरमा-प्रथमागम-मङ्गल-वाद्यक-वादन-सम्भ्रमे ।
नवरस-भरित-विलास-समेधित-नवहालस्य-गृहोत्तमे ॥ ८॥
श्लोकानि
प्रत्यङ्गं स्पृशतः करौ नियमितौ यद्-बाहुमूले तया
स्थानाद्-उच्चलतो यद्-ऊरु-घटनं श्रोणी-तटेनाहतम् ।
वक्षोजात-वली-तरङ्ग-जघनाभोग-श्रियं पश्यतो
दष्टोऽयं मधुराधरोऽस्य तदिदं शृङ्गार-वीरायितम् ॥ ११॥
तत्तद्-भाव-कला-विलासकतया कामः कृतार्थस्-तयोर्-
उन्मृष्ट-श्रमवारि-शीकरतया धन्योऽस्तु मन्दानिलः ।
दत्तान्योन्य-जयश्रियोः समरति-प्रोत्साहन-प्रौढयोर्-
गौरीशङ्कर-मौलिचन्द्रकलयोर्-भाग्यं तदन्यादृशम् ॥ १२॥
इति श्रीमत्-परमशिवातिवादिमूर्धन्यस्य सदाशिव-दीक्षितस्य कृतिषु
चतुःषष्टि-लीलासङ्ग्रहे गीतसुन्दरे षष्ठः सर्गः ॥
॥ समाप्तं गीतसुन्दरम् ॥
॥ शिवार्पणमस्तु ॥
Composed by
Sadashiva Dikshita
Disciple of Sri Chokkanatha Dikshita Crest jewel
of Asthana Vidvans of Chatrapati
Sri Tulaja Maharaja of Thanjavur