गौराशङ्करविवाहवर्णनम्
(शिवरहस्यान्तर्गते ईशाख्ये)
(स्कन्दप्रोक्तम्)
॥ १ । देवैः कृता गणेशस्तुतिः॥
देवा ऊचुः ।
पाशाङ्कुशकरासक्तमोदकं विघ्ननोदकम् ॥ १३॥
बोधकं सर्वशास्त्राणां भजामो विघ्ननाशकम् ॥ १४॥
वेतण्डगण्डं शशिखण्डसूनुं
दानोदगण्डं नतदेवषण्डम् ।
स्वभक्तविघ्नार्तिहरप्रचण्डं
नमाम्खण्डं सुरहस्तिचण्डम् ॥ १५॥
नाकिनायकनताब्जपादुकं
विघ्ननाशविनायकं भजे ।
विष्णुसायकसुभक्तिदायकं
प्रणमताद्य सुरा गणनायकम् ॥ १६॥
हृदन्तर्विभान्तं धियं चोदयन्तं
उमाकान्तमोदप्रदं सत्सुदन्तम् ।
प्रशान्तं सुदान्तं हसन्तं नदन्तं
वसन्तं मुदा तं भजाम्येकदन्तम् ॥ १७
(प्रशान्तं सुदान्तं नदन्तं हृदन्त-
र्वसन्तं मुदा तं भजाम्येकदन्तम्) ॥ १७॥
सुरावनं सुपावनं नमज्जनार्तिनाशनं
सतां हृदेकवासिनं भजे मतङ्गजाननम् ।
सनातनं निरञ्जनं फलादिसारभोजनं
स्वभक्तविघ्ननाशनं भजे मतङ्गजाननम् ॥ १८॥
चरातरादिकारणं स्वभक्तपापहारिणं
भवाम्बुधेः सुतारणं प्रशान्तकामपूरणम् ।
गजाननप्रसादनं पठन्ति ये मनीषिणः
न ते भवन्ति दुःखितानना गणेशशासनात् ॥ १९॥
॥ २ । महादेवस्य वेदिप्रवेशवर्णनम्॥
वेदिं प्रवेशयामास महादेवं सुरैः सह ।
रत्नसिह्मासने दिव्ये संस्थाप्य परमेश्वरम् ॥ २१॥
पादौ प्रक्षाल्य देवस्य रत्नभृङ्गारजैर्जलैः ।
मेनाकरान्तनिर्यातैः सम्प्रोक्ष्याथ स्वामौलिषु ॥ २२॥
ब्रह्मविष्ण्वादिविबुधाः कृतार्था गिरिणा सह ।
तत्राह विष्णुर्देवेशो ब्रह्माणं तं विलोकयन् ॥ २३॥
भवानहं समुत्पन्नौ देवस्य भुजयोः पुरा ।
ललाटतटतो रुद्रः सुरा मुनिगणैः सह ॥ २४॥
एषा हैमवती गौरी माया सा परमेष्ठिनः ।
सञ्जानन् लोकसिध्यर्थमुद्वाहार्थमिहागतः ॥ २५॥
भवोऽसौ जगतां धाता पिता तव ममापि च ।
माता देवी सदाऽस्माकं ययोरुद्वाहमङ्गलम् ॥ २६॥
पश्यामो धन्यनेत्राभ्यां विमुक्तभवबन्धनाः ।
अस्यैव मूर्तिभिर्व्याप्तं जगत्सर्वं चराचरम् ॥ २७॥
क्षित्यम्ब्वग्न्यनिलाकाशसूर्येन्द्वात्मा च दीक्षितः ।
महादेवो महानात्मा स्वतन्त्रः सर्वहृद्गतः ॥ २८॥
तदा स गिरिराट् तत्र मेनयाऽपूजयद्वरम् ।
मधुपर्केण विधिना पुष्पैर्गन्धैर्मनोरमैः ॥ २९॥
धूपैर्दीपैश्च नैवेद्यैर्वासोऽलङ्कारभूषणैः ।
गामर्घ्यं शम्भवे दत्वा तामनुज्ञाप्य शङ्करः ॥ ३०॥
संस्थितः सुरसङ्घैश्च गणैर्वीजितचामरः ।
नदत्सु देवतूर्येषु गायत्सु सुमनोहरम् ॥ ३१॥
कीर्यमाणेषु पुष्पेषु साक्षतेषु सभाङ्गणे ।
सदस्येषु सुरेन्द्रेषु गणेषु च महत्सु च ॥ ३२॥
गर्गोदिते शुभे लग्ने गिरिराट् मेनया तदा ।
गिरिजां समलङ्कृत्य विमलां वरभूषणैः ॥ ३३॥
समानीय महादेवीं तदा प्रत्यङ्मुखस्थिताम् ।
वीजितां चामरैस्तत्र सखीभिः संवृतां शिवाम् ॥ ३४॥
मध्येपटधरावास्तां तदा शक्रहरी मुदा ।
सुराः सार्द्राक्षताहस्तास्तस्थुः प्राञ्जलयो गणाः ॥ ३५॥
स्तिमिते वाद्यघोषे च जेपुस्तत्र महर्षयः ।
वसिष्ठो वामदेवश्च गौतमोऽत्रिर्भृगुस्तथा ॥ ३६॥
जमदग्निः काश्यपश्च भरद्वाजो महर्षयः ।
प्रत्येकं मङ्गलं पद्यं पठन्ति स्म शिवोत्सवे ॥ ३७॥
॥ ३ । ऋषिभिःप्रोक्तं मङ्गलपाठः॥
वसिष्ठ उवाच ।
मौर्वीमूर्ध्निरथः शरासनशिरःसञ्चारिचक्रद्वयं
चक्रान्तर्निहितः शरस्तदुदरे सूतस्तदास्ये हयाः ।
तेषामेव शिरःसु देववसतिर्यस्येति यस्यश्रुतं
देवाश्चित्रपरिच्छदः स भगवान् कुर्यात्सदा मङ्गलम् ॥ ३८॥
वामदेव उवाच ।
यो देवः श्रुतिशेखरेषु विदितो यं भासकं जानते
येन भ्राम्यति लोकजालमखिलं यस्मै नमस्कुर्वते ।
यस्मान्नापरमस्ति किञ्चिदपि वै यस्याङ्गमेतज्जगत्
यस्मिंस्तिष्ठति सर्वमेव भुवनं कुर्यात्सदा(स मे)मङ्गलम् ॥ ३९॥
गौतम उवाच ।
विश्वात्मा भगवान् चराचरतनुर्विश्वात्मकोऽयं शिवो
वेदान्तप्रथिरुवैभवपदो निःश्वासवेदो हरः ।
यो गौरीरमणोऽत्र निर्जरवरो विश्वप्रकाशात्मको
विध्वस्ताखिलभक्तपातककुलः कुर्यात्स मे मङ्गलम् ॥ ४०॥
अत्रिरुवाच ।
यं देवा न हि जानते पुरहरं शम्भुं भवानीपतिं
विश्वात्मानमनन्तविष्णुविधिभिः संसेव्यपादाम्बुजम् ।
तं सर्वादिगुरुं मनोजवपुषं गौरीविवाहोत्सुकं
वन्दे तच्चरणाम्बुजन्मयुगलं कुर्यात्सदामङ्गलम् ॥ ४१॥
भृगुरुवाच ।
यद्भीत्या पवतेऽनिलोऽपि सहसा विश्वोदयस्थो रविः
अग्निश्चोर्ध्वशिखो भवत्यनुदिनं शक्रः सुरान् पाति वै ।
मृत्युर्धावति यद्भयेन सुतरां मृत्युञ्जयस्याज्ञया
यं साम्बं हृदये भजन्ति मुनयः सोऽयं शिवायास्तु नः ॥ ४२॥
जमदग्निरुवाच ।
यो विष्णोर्जनिता सुरासुरगुरुर्वेदान्तवेद्यो हरो
यत्पादाम्बुजपूजनेन जगती धन्या कृतार्थाऽभवत् ।
धन्योऽयं गिरिराजराजतिलकः सत्पात्रकन्यार्पणात्
नान्यं जानथ शङ्करात् सुरवराः कुर्यात्स वो मङ्गलम् ॥ ४३॥
काश्यप उवाच ।
सेवार्थागतविघ्नराट्गुहलसद्वाहेक्षणाभ्युत्थ त-
त्प्रत्यायात भुजङ्गफूत्कृतिकनद्भालाग्निकीलोत्करैः ।
इन्दुस्यन्दिसुधोपजीवितकरिव्याघ्रादिनादार्भटी-
भीताक्षावनतत्परागिरिसुताकान्तेक्षणान्मङ्गलम् ॥ ४४॥
भरद्वाज उवाच ।
कारुण्यामृतसारपूरितलसन्नेत्रान्तसंवीक्षण-
त्रैलोक्यावनदीक्षितं जपवटीराजत्कराम्भोरुहम् ।
साम्बं निर्जरदीर्धिकाप्रविलसत्सम्फुल्लपद्मावली-
धूलीधूसरकर्बुरोज्ज्वलजटारेखं भजे श्रेयसे ॥ ४५॥
इत्थं मङ्गलवाक्यानि प्रयुञ्जाना महर्षयः ।
॥ ४ । शिवशिवापाणिग्रहणवर्णनम्॥
अक्षतान् व्यकिरन् गौरीशङ्करोपरि सादरम् ॥ ४६॥
तत्राभिवीक्ष्य रतिमेव सुदुःखितां ता-
मम्बामुदैक्षत शिवः स्मरसम्प्रदाने ।
सा शर्ववक्त्रमभिवीक्ष्य दयान्तरङ्गा
चक्रेऽङ्गसङ्गिनमनङ्गं मपाङ्गपातैः ॥ ४७॥
अजोऽपि लाजैर्वरवह्निमौलौ
जुहाव मन्त्रैर्मुनिवर्यजुष्टः ।
स्वचारुवक्त्रैः शशिखण्डभूषणं
विलोक्य नैत्रैर्मुदमाप विस्मितः ॥ ४८॥
ददौ स भृङ्गारिकधारया समं
स मेनया भूधरनायकः करे ।
हरस्य हस्ताब्जतले भवान्याः
पाणिं ददत्पात्रमहो बभूव ॥ ४९॥
सुरास्तदोचुर्मुनयो गिरीश्वरं
धन्यो हि मान्यो हरपात्रदाता ।
प्रतिग्रहीतापि महेश्वरः स्वयं
धन्या किलैषा जगतां जनित्री ॥ ५०॥
पाणिग्रहे पर्वतराजपुत्र्याः
पादाम्बुजं पाणिसरोरुहाभ्याम् ।
अश्मानमारोपयतः स्मरारे-
र्मन्दस्मितं मङ्गलमातनोतु ॥ ५१॥
प्रदक्षिणावर्तशिखं हि वह्निं
बिभ्यन्तं एनं क्रमणेन तौ शिवौ ।
परीत्य शेषं विधिना समाप्य
मुदा तदा तस्थतुरेव हर्षितौ ॥ ५२॥
नीराज्य गौरीसहितं महेश्वरं
मेना तदा सा प्रणनाम हृष्टा ।
गिरीश्वरश्चापि तदादिदम्पती
ननाम हृष्टो गिरिवर्यजुष्टः ॥ ५३॥
ताम्बूलविश्राणनगन्धपुष्पैः
सुरासुरान् भूधरनायकांश्च ।
चकार पूजाभिरतीव हृष्टान्
तुष्टान्तरङ्गोऽथ शिवाज्ञया हरिः ॥ ५४॥
गोभूहिरण्यं कनकाम्बरं वसु
द्विजेषु सर्वर्षिषु शङ्कराज्ञया ।
विश्राणको वैश्रवणो मुदाऽभूत्
तदा शिवायाः सुविवाहमङ्गले ॥ ५५॥
रुद्रं हरिद्राङ्गमुमा चकार
सा न्यस्ततन्द्रापि सुचन्द्रशेखरम् ।
तदाद्रिपत्नी गणगीतमन्द्रैः
सुचन्दनार्द्र पटवासभूषितम् ॥ ५६॥
हरोऽपि देव्या विजहार हर्षित-
श्चकार पुष्पैः सहकारपूजाम् ॥ ५७॥
॥ इति शिवरहस्यान्तर्गते गौराशङ्करविवाहवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । ईशाख्यः द्वादशमांशः । अध्यायः १८ गौराशङ्करविवाहः । १३-५७ ॥
- .. shrIshivarahasyam . IshAkhyaH dvAdashamAMshaH . adhyAyaH 18 gaurAshankaravivAhaH . 13-57 ..
Notes:
.. 1 . Devaiḥ Kṝtā GaṇeśaStutiḥ..
॥ १ । देवैः कृता गणेशस्तुतिः ॥
Deva-s देवाः eulogize Gaṇeśa गणेश upon being instructed by Śiva शिव to do so as He reaches the gates of the abode of Himācala हिमाचल, for the Ceremony of Pāṇigrahaṇa पाणिग्रहण of Pārvatī पार्वती.
.. 2 . Mahādevasya VedipraveśaVarṇanam..
॥ २ । महादेवस्य वेदिप्रवेशवर्णनम् ॥
Mahādeva महादेव makes entry into the Vedi वेदि where the procedure of Pāṇigrahaṇa पाणिग्रहण would be conducted. Mahādevī महादेवी is escorted to the Vedi वेदि in due course amidst a musical ambience.
.. 3 . ṚṣibhiḥProktaṁ MaṅgalaPāṭhaḥ..
॥ ३ । ऋषिभिःप्रोक्तं मङ्गलपाठः ॥
Ṛṣi-s ऋषयः individually recite the MaṅgalaPāṭhaḥ मङ्गलपाठः ahead of the Pāṇigrahaṇa पाणिग्रहण ceremony.
.. 4 . ŚivaŚivāPāṇigrahaṇaVarṇanam..
॥ ४ । शिवशिवापाणिग्रहणवर्णनम् ॥
Pāṇigrahaṇa पाणिग्रहण ceremony of Mahādeva महादेव and Mahādevī महादेवी comes to be to the delight of everyone present.
Proofread by Ruma Dewan