गौतममहर्षिकृतं शिवस्तोत्रम्
गौतम उवाच ।
भोगार्थिनां भोगमभीप्सितं च दातुं महान्त्यष्टवपूंषि धत्ते ।
सोमो जनानां गुणवन्ति नित्यं देवं महादेवमिति स्तुवन्ति ॥ ४॥
कर्तुं स्वकीयैर्विषयैः सुखानि भर्तुं समस्तं सचराचरं च ।
सम्पत्तये ह्यस्य विवृद्धये च महीमयं रूपमितीश्वरस्य ॥ ५॥
सृष्टेः स्थितेः संहरणाय भूमेराधारमाधातुमपां स्वरूपम् ।
भेजे शिवः शान्ततनुर्जनानां सुखाय धर्माय जगत्प्रतिष्ठितम् ॥ ६॥
कालव्यवस्थाममृतस्रवं च जीवस्थितिं सृष्टिमथो विनाशनम् ।
मुदं प्रजानां सुखमुन्नतिं च चक्रेऽर्कचन्द्राग्निमयं शरीरम् ॥ ७॥
वृद्धिं गतिं शक्तिमथाक्षराणि जीवव्यवस्थां मुदमप्यनेकाम् ।
स्रष्टुं कृतं वायुरितीशरूपं त्वं वोत्सि नूनं भगवन्भवन्तम् ॥ ८॥
भेदैर्विना नैव कृतिर्न धर्मो नात्मीयमन्यन्न दिशोऽन्तरिक्षम् ।
द्यावापृथिव्यौ न च भुक्तिमुक्ती तस्मादिदं व्योमवपुस्तवेश ॥ ९॥
धर्मं व्यवस्थापयितुं व्यवस्य ऋक्सामशास्त्राणि यजुश्च शाखाः ।
लोके च गाथाः स्मृतयः पुराणमित्यादिशब्दात्मकतामुपैति ॥ १०॥
यष्टा क्रतुर्यान्यपि साधनानि ऋत्विक्प्रदेशं फलदेशकालाः ।
त्वमेव शम्भो परमार्थतत्त्वं वदन्ति यज्ञाङ्गमयं वपुस्ते ॥ ११॥
कर्ता प्रदाता प्रतिभूः प्रदानं सर्वज्ञसाक्षी पुरुषः परश्च ।
प्रत्यात्मभूतः परमार्थरूपस्त्वमेव सर्वं किमु वाग्विलासैः ॥ १२॥
न वेदशास्त्रैर्गुरुभिः प्रदिष्टो न नासि बुद्ध्यादिभिरप्रधृष्यः ।
अजोऽप्रमेयः शिवशब्दवाच्यस्त्वमस्ति(मेव)सत्यं भगवन्नमस्ते ॥ १३॥
आत्मैकतां स्वप्रकृतिं कदाचिदैक्षच्छिवः सम्पदियं ममेति ।
पृथक्तदैवाभवदप्रतर्क्याचिन्त्यप्रभावो बहुविश्वमूर्तिः ॥ १४॥
भावोऽभिवृद्धा च भवे भवे च स्वकारणं कारणमास्थिता च ।
नित्या शिवा सर्वसुलक्षणा वा विलक्षणा विश्वकरस्य शक्तिः ॥ १५॥
उत्पादनं संस्थितिरन्नवृद्धिलयाः सतां यत्र सनातनास्ते ।
एकैव मूर्तिर्न समस्ति किञ्चिदसाध्यमस्या दयिता हरस्य ॥ १६॥
यदर्थमन्नानि धनानि जीवा यच्छन्ति कुर्वन्ति तपांसि धर्मान् ।
साऽपीयमम्बा जगतो जनित्री प्रिया तु सोमस्य महासुकीर्तिः ॥ १७॥
यदीक्षितं काङ्क्षति वासवोऽपि यन्नामतो मङ्गलमाप्नुयाच्च ।
या व्याप्य विश्वं विमलीकरोति सोमा सदा सोमसमानरूपा ॥ १८॥
ब्रह्मादिजीवस्य चराचरस्य बुद्ध्यक्षिचैतन्यमनःसुखानि ।
यस्याः प्रसादात्फलवन्ति नित्यं वागीश्वरी लोकगुरोः सुरम्या ॥ १९॥
चतुर्मुखस्यापि मनो मलीनं किमन्यजन्तोरिति चिन्त्य माता ।
गङ्गाऽवतारं विविधैरुपायैः सर्वं जगत्पावयितुं चकार ॥ २०॥
श्रुतीः समालक्ष्य हरप्रभुत्वं विश्वस्य लोकः सकलैः प्रमाणैः ।
कृत्वा च धर्मान्बुभुजे च भोगान्विभूतिरेषा तु सदाशिवस्य ॥ २१॥
कार्यक्रियाकारकसाधनानां वेदोदितानामथ लौकिकानाम् ।
यत्साध्यमुत्कृष्टतमं प्रियं च प्रोक्ता च सा सिद्धिरनादिकर्तुः ॥ २२॥
ध्यात्वा वरं ब्रह्म परं प्रधानं यत्सारभूतं यदुपासितव्यम् ।
यत्प्राप्य मुक्ता न पुनर्भवन्ति सद्योगिनो मुक्तिरुमापतिः सः ॥ २३॥
यथा यथा शम्भुरमेयमायारूपाणि धत्ते जगतो हिताय ।
तद्योगयोग्यानि तथैव धत्से पतिव्रतात्वं त्वयि मातरेवम् ॥ २४॥
इति ब्रह्मपुराणे पञ्चसप्ततितमाध्यायान्तर्गतं
गौतममहर्षिकृतं शिवस्तोत्रं समाप्तम् ।
ब्रह्मपुराण । अध्याय ७५/४-२४॥
brahmapurANa . adhyAya 75/4-24..
Proofread by PSA Easwaran