घुसृणेश्वरमहात्म्यवर्णनम्
ईश्वरः -
अस्त्येकं क्षेत्रमबले घुसृणीश्वरसञ्ज्ञकम् ।
ज्योतिर्लिङ्गं महादेवि श्रृणु तन्महिमां पुनः ॥ १॥
हृतरत्नाः पुरा सर्वे क्षीरसागरपूर्वकाः ।
समुद्रास्तेषु सम्भूय तपोऽतप्यन्त दारुणम् ॥ २॥
परिम्लानमुखाः सर्वे वेलाकल्लोलवर्जिताः ।
हृतमण्डं यथा भाति दधिभाण्डं सुराधिपे ॥ ३॥
निस्सारभूता निःसाराः सागरा मामुपाययुः ।
भस्मनोद्धूल्य सर्वाङ्गं रुद्राक्षवरकङ्कणाः ॥ ४॥
जपन्तः शतरुद्रीयं पञ्चाक्षरपरायणाः ।
लिङ्गपूजापरा नित्यं घुसृणीशार्चने रताः ॥ ५॥
बिल्वपत्रैश्च कमलैः रक्तनीलोत्पलैरपि ।
ततः कालान्तरे देवस्तेषां प्रादुरभूत्पुरः ॥ ६॥
दृष्ट्वा शिवं तुष्टुवस्ते समुद्रा मां तदाम्बिके ।
पुण्यमार्यं पुरारातिमरातिं मन्मथस्य च ॥ ७॥
अन्तकस्य च देवेशं महेशं वृषभध्वजम् ।
अन्धकान्तकमाशास्यं त्रियम्बकमुमासखम् ॥ ८॥
प्रणमामो महादेवमुदाराङ्गं कपर्दिनम् ॥ ९॥
महोदाराद्रत्नहारोरुकण्ठं भुसुण्ठीकराब्जं गरानीलकण्ठम् ।
गृणद्रुद्रजाप्याघहारं हरन्तं महाकामठत्वक्(?) परीतं लुठन्तः ।
सदा नो भवाब्धौ परित्राहि शम्भो ॥ १०॥
तवाङ्घ्रिद्वन्द्रार्च्याविधिनियतभारात्मकतया
सदा नेदिषुश्चेत्त्वयि च सहितो जापनपरः ।
स एवानुग्राह्यस्तव हि सततं हृद्यतम इत्यहो
भावो भावैर्भवहर भवाब्धिं स तरते ॥ ११॥
तव गुणगणगणना वा केन कार्या महेश
श्रुतिशिखरनिविष्टः शान्तचित्तैकगम्यः ।
भुवनभवनमध्ये कश्चिदस्त्येव शम्भो
तव पदकमलोत्थामोदसम्मोदितात्मा ॥ १२॥
अस्मिन्महत्यर्णवगस्त्वमीशो
विश्वेश आशास्य इति प्रतीतः ।
निषङ्गभूतान्भयतश्च सागरान्
अस्मानथो पाहि महेश दिष्ट्या ॥ १३॥ (दृष्ट्या)
इति सागरवाक्यानि श्रुत्वाऽहं गिरिजे तदा ।
तेषां प्रसन्नो ह्यभवं तांस्तदा पूरयामि वै ॥ १४॥
रत्नैरनर्घ्यैः शतशस्तिमिङ्गिलगणैस्तदा ।
पुरान्धकासुरं हत्वा तद्रक्ताक्तं करे मम ॥ १५॥
न धार्यमिति देवेशि भूमौ शूलं महत्तरम् ।
तदा त्यक्तं मया देवि घुसृणीश्वरसन्निधौ ॥ १६॥
शूलपातमभून्नाम्ना तत्तीर्थं सुमनोहरम् ।
तत्सागरजलैः पूर्णं शूलपातं महत्सरः ॥ १७॥
वसन्ति शैवा नियतं शूलपातसरस्तटे ।
पञ्चाग्निनिरताश्चान्ये वायुभक्षास्तथापरे ॥ १८॥
अश्मकुट्टा महादेवि दन्तोलूखलिनस्तथा ।
सर्वे मल्लिङ्गपूजाभिः नयन्त्यायुर्मुनीश्वराः ॥ १९॥
भस्माभ्यक्ताः सदा गौरि शिवनामजपादराः ।
तत्र तान्सततं दृष्ट्वा निलिम्पा भयकम्पिताः ॥ २०॥
इन्द्रोपेन्द्रा वचयित्वा विष्णोर्देवपदेषु च ।
तेषां वाञ्छा नैव गौरि मत्पादार्चापरायणाः ॥ २१॥
तृणाय ते महेशानि विष्ण्वादीनां पदं शुभम् ।
मत्पादभाव सकला भावानां भूतयः सदा ॥ २२॥ (सक्तानां)
पदे पदे भविष्यन्ति भावुकानि न संशयः ।
भवानि नियतं सत्यं मम भक्तस्य केवलम् ॥ २३॥
मद्भक्तवर्यैर्ध्यर्त्यस्ता लोकाः सर्वे चतुर्दश ।
अगस्त्येनापि भक्तेन सागराश्चुलकीकृताः ॥ २४॥
वीरभद्रगणेनापि ब्रह्मविष्ण्वादयः सुराः ।
दक्षयज्ञे तदा गौरि शिक्षिताश्चापि खण्डिताः ॥ २५॥
एतादृशानां भक्तानां सुरेषु गणनाऽपि न ।
किं चतुर्दहलोकोत्थश्रिया तेषां भविष्यति ॥ २६॥
आपातमधुरा सा श्रीः संयोगा हि वियोगजाः ।
धनधान्यानि सर्वाणि रत्नानि विविधं वसु ॥ २७॥
नश्वराण्यतिदुःखानि भयमूलानि शङ्करि ।
मम भक्तिः सदा गौरि अनश्वरसुखं धनम् ॥ २८॥
मुक्तये मम भक्तिश्च बन्धाय नरकाय च ।
धनं तद्भौतिकं गौरिं सर्वापन्निलयं सदा ॥ २९॥
आनन्दकन्दं मद्भक्तिर्मोक्षदा कामदा ध्रुवम् ।
तया भक्त्या विराजन्ते चन्द्ररेखेव शारदी ॥ ३०॥
मद्भक्ता नियताः सर्वे वसन्ति शिवपूजकाः ।
तृणीकृतेन्द्रचन्द्रानां तेषां स्वर्गस्तु तुच्छकः ॥ ३१॥
अच्छानां च निरिच्छानां मच्छासनयतात्मनाम् ।
आनन्दनन्दितस्वान्त आनन्दघनपूजया ॥ ३२॥
ते वै शिवरसास्वादनन्दिताखिलवृत्तयः ।
घुसृणीशपदद्वन्द्वपूजाक्षपितकल्मषाः ॥ ३३॥
वसन्ति सततं शैवाः तस्मिन्क्षेत्रे गिरीन्द्रजे ॥ ३४॥
॥ इति शिवरहस्यान्तर्गते शिवपार्वतीसंवादे घुसृणेश्वरमहात्म्यवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः १९। १-३४॥
- .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 19. 1-34..
Notes:
Shiva describes to Parvati, the glory and merits of worshipping at Ghusrneshwara Jyotirlinga located near Bhimarathi river.
The shloka numbers are maintained per the source text.
Proofread by Ruma Dewan