गोकर्णमहालिङ्गे वसुमनोनृपानुष्ठित प्रदोषपूजाकैङ्कर्यवर्णनम्
(शिवगौरीसंवादे)
ईश्वरः -
पुरा वसुमना नाम राजासीदतिधार्मिकः ॥ ५८॥
विदर्भविषये देवि स कैङ्कर्यपरो मम ।
नानाप्रकारशोभाढ्यैर्भूधराकारगोपुरैः ॥ ५९॥
प्राकारराजद्वृषभैर्धूयमानपताककैः ।
नवरत्नचितानेकमण्डपैः शोभितं नृपः ॥ ६०॥
वाहनैश्चैव देवेशि रथैश्च शतचक्रकैः ।
मदागारपरो राजा मुक्त्यगाराधिनायकः ॥ ६१॥
छत्रचामरजालैश्च स्वर्णशय्यादिभाजनैः ।
क्षौमाम्बरैः स्वर्णक्लृप्तैः भूषणैर्मणिकल्पितैः ॥ ६२॥
कारयामास नृपतिर्गोलकं रत्ननिर्मितम् ।
धूपैर्दीपैश्च नैवेद्यैः स्नापनीयैरहर्निशम् ॥ ६३॥
सलक्षगोघृतापारदीपैर्दीपयदम्बिके ।
ताम्बूलपर्वतांश्चापि दत्तवान्मत्कृपाप्तये ॥ ६४॥
कर्पूरखण्डैः शतशो दीपयामास मां शिवे ।
छत्रचामरकोटीभिर्व्यजनादर्शकैरपि ॥ ६५॥
नानावाद्यरवैर्देवि पूरयामास मद्गृहम् ।
नाट्याङ्गनास्तदा तेन कल्पिताः सुमनोहराः ॥ ६६॥
सहस्रं कम्बुकण्ठ्यस्ताः पीनश्रोणिपयोधराः ।
शैवान्सम्भोजयामास शिवनैवेद्यराशिभिः ॥ ६७॥
प्रफुल्लपुष्पारामं च मत्पूजार्थं प्रकल्पयत् ।
सोमवारप्रदोषेषु चतुर्दश्यष्टमीषु च ॥ ६८॥
शिवरात्रिषु देवेशि पर्वस्वपि विशेषतः ।
पूजयत्येव भूपालो नित्याद्दशगुणं शिवे ॥ ६९॥
तत्प्रदोषे कृतां पूजां श्रृणु त्वमगजे शुभाम् ।
श्रुत्वाऽपि लभते गौरि मम लोकं न संशयः ॥ ७०॥
प्रदोषे पूजनं कुर्वन्नित्यमास्ते प्रहृष्टधीः ।
गोकर्णेशं महालिङ्गं पश्यन्नष्टोरुकिल्बिषः ॥ ७१॥
प्रदोषपूजारतचित्तवृत्तिः नृपस्तदा मत्पदपूजनोत्सवैः ।
समभ्यषिञ्चद्गिरिजे महेशं गोकर्णलिङ्गस्यमपारभाग्यैः ॥ ७२॥
क्षीराज्यादिघटैः सुतैलजघटैः सक्षौद्रसच्छर्कराभारैः
खण्डदधिप्रसर्पितसुसर्प्युत्थाज्यमण्डादिभिः ।
रम्भाम्रादिफलैस्तथेक्षुजरसैर्जम्बीरनी रैः शिवैः
सन्नारिकेलोद्भवद्रवत्सुक्षौद्रमहोरुकोशैः ॥ ७३॥
आसिच्य गन्धोदकरत्रपुष्पसौवर्णनीरैश्च सुगन्धपूरैः ।
पाटीरसारैर्मृगनाभिपूरैः कर्पूरसारैश्च सुशोधितैर्जलैः ॥ ७४॥
आलिम्प्य गन्धैश्च तदोरुलिङ्गं संवेष्ट्य शुभ्रोत्तमधौतवस्त्रैः ।
दत्वोपवीतान्युपवीतिने मे अखण्डशाल्युद्भवतण्डुलाक्षतैः ॥ ७५॥
अनर्घ्यरत्नोत्तम भूषणैर्मामभूषयद्देवि तदा नृपाग्रणीः ।
बिल्वैश्च पद्मैः करवीरमल्लिकाजातीफलैः गन्धफलीसरैश्च ॥ ७६॥
उत्फुल्लनीलोत्पलपुण्डरीकैः कल्हारजालैररविन्दपुष्पैः ।
समर्चयन्नामसहस्रतो नृपस्तदा मुदा मां शशिशेखरं शिवम् ॥ ७७॥
बिल्वत्वक्परिकल्पितागरुरसैर्धूपस्तदा दीयते
दीपैर्गोघृतपूरितैरतिसितैर्वर्तीभिरत्युज्ज्वलैः ।
नैवेद्यैर्द्दधिखण्डसारसुभगैः सत्सोपदंशान्वितैः
सूपापूपादिराशिप्रभवपरिमलामोदिस्वाद्वन्नजालैः ॥ ७८॥
शुभ्रद्रोणसुमप्रभान्नजमहाराशीभिरीशं शिवे
सूपापूपमरन्दसुनदरमहाहैयङ्गवीनोत्थितैः ।
आज्यैः प्राज्यैः सुतप्तप्रभवपरिमलैः कालकाले निवेद्य
हृष्टोऽभूत् प्रार्थिवेन्द्रो जनिशतविततानन्दपुण्यैकमूर्तिः ॥ ७९॥
सन्नागवल्लीदलभारकल्पितैः निष्टप्तहेमादिविशालपात्रैः ।
ताम्बूलैः कतकैर्लवङ्गमुखरैः पूगीफलैश्चूर्णकैः ॥ ८०॥
उडुगणपतिमौलिं धेनुकर्णेशलिङ्गं तुरगणगणकृष्टैः वाद्यजालोत्थशब्दैः ।
गणपतिकरशुण्डालग्नकञ्जोत्थनादैः दशशतवरदीपैर्दीपयामास भूपः ॥ ८१॥
सुधारसारगण्होत्थितापारदीपैरस्रण्डैश्च बिल्वैस्तदाऽऽखण्डलाद्याः ।
सुधाधामखण्डोज्वलन्मौलिलिङ्गमखण्डेकबोधाय नीराजयन्ति ॥ ८२॥
हर हर शिव शङ्कर प्रसीद दुरितोत्थिततापहरास्तदोषे ।
इति सुरवरकिन्नरोक्तिशब्दैः करबद्धाञ्जलिभिस्तदा प्रदोषे ॥ ८३॥
छत्रैश्चामरकोटिभिश्च गिरिजे मां वीजयन्त्यादरा -
न्मायूरैर्व्यजनैस्तथैव विमलादर्शैश्च नाट्यैरपि ।
देवि प्रस्तवनप्रदक्षिणनमस्कारैः शिवं तोषय -
द्भेरीशङ्खमृदङ्गकाहलरवैर्नाट्याङ्गनाकल्पितैः ॥ ८४॥
नाट्यैस्तालमृदङ्गनूपुरझणत्कारारवैः शङ्करं सन्तोष्य
प्रमथेश्वरं स मुमुदे धन्यः स भूपाग्रणीः ॥ ८५॥
राजा -
श्रीमद्गोकर्ण शम्भो भवशतजनितापारतापैकभङ्गं
त्वल्लिङ्गं दृष्टिसङ्गं यदि भवति महाभाग्यपूर्णे जनेऽस्मिन् ।
काले वीतभये प्रदोषसमये सर्वैः सुरैः सेविते
त्वत्पादाम्बुरुहं प्रकृष्टभवजापारव्यथां संहरेत् ॥ ८६॥
शिवः -
इत्थं मामम्बिकेशं सुरवरनिकरैः शाङ्करैर्देवि पुण्यैः
काले तस्मिन्प्रदोषे गिरिवरतनये सर्वसौख्येऽस्तदोषे ।
भूपस्तापैर्विहीनो मुदितवसुमनाः सन्मानास्तत्पदाब्जं
सम्पूज्यालोक्य पूतो मम गणवरभाग्भाग्यवर्यः कृतो मे ॥ ८७॥
॥ इति शिवरहस्यान्तर्गते शिवगौरीसंवादे गोकर्णमहालिङ्गे वसुमनोनृपानुष्ठित प्रदोषपूजाकैङ्कर्यवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः २३। ५८ब-८७॥
- .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 23. 58ba-87..
Notes:
Shiva describes to Devi, the Pradosha Puja conducted by King Vasumana at Gokaraneshwara MahaLinga; especially on Mondays (Somavara), (Krishna) Chaturdashi and (Krishna) Ashtami tithi-s, and Shivaratri-s.
The shlokas are maintained per the source text.
Proofread by Ruma Dewan