हराष्टकम्
जयत्यखिलखेचरप्रवरमौलिरत्नप्रभा-
प्ररोहपरिपीवरीकृतनखांशुपादाम्बुजः ।
विशालनयनत्रयीरचितधामधामत्रयी-
तिरस्कृतजगत्रयीपरिणतान्धकारो हरः ॥ १॥
जयत्यमरदीर्घिकासलिलसेकसंवर्धित-
प्रचण्डनयनानलग्लपिततीव्रतापव्यथः ।
अचिन्त्यचरितोज्ज्वलज्वलदनन्यसाधारण-
प्रभावमहिमाहितत्रिभुवनापकारो हरः ॥ २॥
जयत्यचलकन्यकाललितदोर्लतालिङ्गित-
स्फुरद्गरलकालिमाकलितकान्तकणठस्थलः ।
तडिद्वलयलङ्घितोल्लसदमोघमेघभ्रम-
प्रमत्तगुहबर्हिणोपहृतनृत्तहर्षो हरः ॥ ३॥
जयत्यविरलोच्छलद्गरलवह्निहेतिच्छटा-
सटालफणभीषणक्षपणपाशमोक्षक्षमः ।
उदारकरुणारसप्रसरसारसिक्ताशयः
प्रपन्नविपदर्णवोत्तरणकणधारो हरः ॥ ४॥
जयत्युदधिनिःसरद्गरनिगारलब्धाऽभय-
प्रमोदभरनिभरत्रिदशदैत्यवृन्दस्तुतः ।
रसातलतलोद्गतज्वलदलङ्घ्यलिङ्गाल्लस-
न्महामहिममोहितद्रुहिणवासुदेवो हरः ॥ ५॥
जयत्यतुलविक्रमोन्मिषदखर्वगर्वज्ज्वर-
ज्वलच्चपलमन्मथोन्मथनभग्नभोगस्पृहः ।
दशास्यभुजमणडलीतरलितैकपिङ्गाचल-
त्रसद्गिरिसुताहठग्रथितकणठपीठो हरः ॥ ६॥
जयत्यकलितोल्लसन्मदभरोद्धरान्धासुर-
प्रतिष्करणसान्त्वनप्रथितनिग्रहाऽनुग्रहः ।
जगत्त्रयभयङ्करत्रिपुरघोरदावावली-
सलीलकवलीकृतिप्रलयवारिवाहो हरः ॥ ७॥
जयत्यघवनाशनिः सुमतिमाधवीमाधवः
कृपामृतपयोनिधिर्भवमहार्णवैकप्लवः ।
विपत्तृणसमीरणः प्रणयिचित्तचिन्तामणिः
समस्तभुवनोदयप्रलयकेलिकारो हरः ॥ ८॥
॥ इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते
भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
``हराष्टकं'' नाम षष्ठं स्तोत्रं सम्पूर्णम् ।
Notes:
Stutikusumāñjaliḥ स्तुतिकुसुमाङ्जलिः is a composition by Kāśmīra Mahākavi काश्मीर महाकवि Jagaddhara Bhaṭṭa जगद्धरभट्ट who belongs to the lineage of Ratnadhara रत्नधर (father) and Gauradhara गौरधर (grandfather).
The complete composition of Stutikusumāñjaliḥ स्तुतिकुसुमाङ्जलिः can be accessed from one of the links given below.
Proofread by Ruma Dewan