हरिद्वारमाहात्म्ये विष्णुतपोगङ्गानिर्गमस्नानफलवर्णनम्

हरिद्वारमाहात्म्ये विष्णुतपोगङ्गानिर्गमस्नानफलवर्णनम्

(शिवरहस्यान्तर्गते शिवगौरीसंवादे) ईश्वरः - तपस्यन्तं हरिद्वारे हरिं द्रष्टुं समागताः । ब्रह्माण्डजं समारुह्य सिन्धुरं वृत्रहा तथा ॥ २९॥ लोकपालगणाः सर्वे नारदाद्याश्च शङ्करि । दृष्ट्वा तं हरिमत्युग्रतपसश्च परायणम् ॥ ३०॥ ब्रह्मा प्राहामरश्रेष्ठं विबुधैः परिवारितः ॥ --- ब्रह्मा - किं ते कार्यं समुद्युक्तं भवता तप्यते तपः । हिमवच्छिखरे पुण्ये लक्ष्म्या साकं हरे वद ॥ ३१॥ तदा पितामहवचो निशम्य हरिरव्ययः । ध्यात्वा मां स तदा प्राह प्रणम्य परमेश्वरम् ॥ ३२॥ विष्णुः - विश्वोश्वरोऽयं मदनान्तकोऽयं गङ्गाधरोऽयं त्रिपुरान्तको‍ऽयम् । भगान्तको‍ऽयं हि यमान्तको‍ऽयं मखान्तकोऽयं च भवान्तकोऽ‍यम् ॥ ३३॥ अस्यैव देवस्य महेश्वरस्य लिङ्गार्चनात् पूततरोऽस्मि धन्यः । चक्रं सहस्रारमिदं सुदर्शनं लब्धं तथाऽन्यैरपि दुर्जयोऽहम् ॥ ३४॥ तस्मात्पुरारिमाराध्य चक्रं लब्धं सुदर्शनम् । दैवासुरे तदा युद्धे जयातेनाभवन्मम ॥ ३५॥ तस्मादुग्रान्महादेवाद्भवाद्भीमात्कपर्दिनः । लप्स्ये मनोरथान् ब्रह्मन् तेनाहं तपसि स्थितः ॥ ३६॥ ब्रह्मा - कस्ते मनोरथो विष्णो देवेन त्वं प्रवोधितः । पुरा लब्धवरश्चासि देवदेवान्महेश्वरात् ॥ ३७॥ विष्णुः - तत्तथैवाद्य मे ब्रह्मन् मुरो नामासुरो बली । दृष्ट्वा विवस्त्रां मत्पत्नीं रमां सर्वाङ्गसुन्दरीम् ॥ ३८॥ क्रीडन्तीं सखिभिः सार्धमस्मिन् सरसि पावने । कमलान्युपचिन्वन्तीं हरिद्वारेश्वरार्चने ॥ ३९॥ चकमेऽथासुरः कामाद्ज्ञास्तस्याशयो मया । तदा चक्रनिकृत्तं तमकार्षं च विधे तदा ॥ ४०॥ तदा सर्वे मुनिगणा मामवोचुः प्रहर्षिताः । मुनयः - साधु साधु हरे तेऽद्य कृतं कर्म सुदुष्करम् । तपस्विजनरक्षायै तपोविघ्नकरः सदा ॥ ४१॥ यज्ञघ्नश्च सदा पापी सुराणामपि कण्टकः । किञ्चायं देवदेवेशात्पूर्वं लब्धवरोऽसुरः ॥ ४२॥ भक्तश्च देवदेवेशे तस्माच्छापैर्न योजितः । भक्तस्य हनने पापममितं खलु वै हरे ॥ ४३॥ अत्र तत्पापशान्त्यर्थं हरिद्वारेशमीश्वरम् । तपसा तोषयस्वाद्य पूजया च सदा हरम् ॥ ४४॥ सर्वत्र निष्कृतिर्दृष्टा शिवद्रोहे न निष्कृतिः । तस्माच्छिवैकशरणः शिवात्पूतो भविष्यसि ॥ ४५॥ इत्युक्तो मुनिभिर्ब्रह्मन्भक्तस्य हननेन हि । प्रपतं पापसमूहं मे तस्माद्यक्ष्ये महेश्वरम् ॥ ४६॥ सपापेष्वपि भक्तेषु किं पुनः पुण्यकर्मसु । इत्युक्त्वा देवदेवेशं हरिद्वारेशमीश्वरम् ॥ ४७॥ प्रणम्य परया भक्त्या तुष्टाव हरिरव्ययम् ॥ --- विष्णुः - तरङ्गविलसज्जटं वृषतुरङ्गखेलद्गतिं भुजङ्गकृतकङ्कणं हरिशशाङ्कभारोद्वहम् । पतङ्गनयनं सदा मुहुरनङ्गदाहे रतं निषङ्गपयसान्निधिं क्षितिरथाङ्गमीशं भजे ॥ ४८॥ असङ्गिजनसङ्गतं मुनिजनार्च्यलिङ्गस्थितं दृशा करुणया ततं गिरिसुतार्धभागस्थितम् । विधीन्द्रसुरसंस्तुतं मुहुरनन्यभावं गतं प्रसीदतु भवान् हि मां परमपापतापैर्हतम् ॥ ४९॥ शम्भो विश्वेश भर्ग त्रिनयन भगवन् पाहि मामीश दृष्ट्या दृष्ट्वा तुष्टोऽहमीश स्थितिलयजननापारसंसारमग्नः । मत्पापानि विनाशयाशु सुतरां शुद्धे पदे देहि मे स्नातुं वारि महाघहारि भगवन्नस्मिन् वरे भूधरे ॥ ५०॥ --- सूतः - इत्थं हरिस्तदा स्तुत्वा ब्रह्मादिविबुधैः सह । तस्मै दिशामि तत्सर्वं प्रत्यक्षीकृतविग्रह ॥ ५१॥ ईश्वरः - किं त्वत्प्रियकरं विष्णो यन्मत्तः प्राप्तुमिच्छसि । ब्रह्माद्यैस्तद्ददस्वाद्य प्रसन्नोऽहं तवानघ ॥ ५२॥ विष्णुः प्रणम्य देवेशं वरमेनमयाचत ॥ विष्णुः - पुरा त्रिपथगा शम्भो पातालान्तरचारिणी । वियत्पथगता त्वेका चैका पातालवाहिनी ॥ ५३॥ ब्रह्माण्दोरुकटाहान्मे पूर्वं विक्रमता मया । मत्पादघट्टनाज्जाता सापि भूमितलं गताः ॥ ५४॥ पीता च जह्नुना शम्भो निलीना सा नृपं गता । मत्पादतोयं मत्पापनाशकं नु कथं भवेत् ॥ ५५॥ वियत्पथगता त्वेका भगीरथवरात् त्वया । गङ्गागर्वोपशान्त्यर्थं त्वया मूर्ध्नि विधारिता ॥ ५६॥ तामद्येशान देवेश प्रार्थितोऽसि मयाघहृत् । देहि शम्भो महादेव इत्थं प्रार्थितवान् हरिः ॥ ५७॥ हरिद्वारमहालिङ्गपादपीठाद्विनिर्गता । तदोत्सृष्टा मया गङ्गा दिव्या त्रिपथगा शिवे ॥ ५८॥ तुङ्गैस्तरङ्गैर्वितता फुल्लपङ्कजशोभिता । कल्हारमालावितता अविमुक्तपन्थ गता ॥ ५९॥ हिमवच्छिखराद्देवि मत्पादतलनिर्गता । तस्यां विष्णुस्तदा लक्ष्म्या ब्रह्मादिविबुधैः सह ॥ ६०॥ स्नात्वा स्वपापशान्त्यर्थमविमुक्तं तदा गतः । नानालिङ्गशतोपेतं स विश्वेशं प्रणम्य च ॥ ६१॥ स्तुत्वा स्तोत्रवरैर्विष्णुः बिल्वपत्रैः सुरैः सह । तुष्टाव च महेशानं कृपाराशीं तदाम्बिके ॥ ६२॥ --- विष्णुः - उत्फुल्लकल्हारविलोलहारं मन्दारमल्लीसुमपूजिताङ्घ्रिम् । हल्लीसलास्यप्रियया समेतं मल्लिङ्गगं बिल्वदलोत्तमाङ्गम् ॥ ६३॥ निशाराजकलामौलिं देवराजसमर्चितम् । राजराजसखं वन्दे फणिराजाङ्घ्रिकङ्कणम् ॥ ६४॥ --- ईश्वरः - इत्थं स विष्णुः स्तुतिभिस्तथा मां स्तुत्वा तदा ब्रह्ममुखामरेन्द्रैः । विनिर्गतो मत्पदलोललीला मद्गाङ्गसङ्गाब्धितरङ्गरङ्गम् ॥ ६५॥ ॥ इति शिवरहस्यान्तर्गते हरिद्वारमाहात्म्ये विष्णुतपोगङ्गानिर्गमस्नानफलवर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः २९॥ - - .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 29.. - Notes: Shri Vishnu along with Shri Lakshmi conducts worship of Shiva at foothills of Himalaya. An asura named Mura tries to misbehave with Lakshmi and incurs wrath of Vishnu, who then has to annihilate him. Having done this, Vishnu turns to worship Shiva for repentance, as Mura was a devotee of Shiva. Vishnu prays to Shiva to re-release Ganga from His dreadlocks so that He can bathe in it to redeem Himself from the sin of killing a Shiva devotee. Vishnu says that Ganga was initially released from His (Vishnu's) own great toe, hence He (Vishnu) will not be able to find the required redemption. He (Vishnu) iterates that Ganga has to be re-released by Shiva so that the redeeming effect can manifest for Him (Vishnu). Shiva obliges thus and Vishnu is relieved of His sin at Haridwareshwara - Haridwara being the place where Ganga was re-released due to efforts of Hari (Vishnu). The shloka numbers have been maintained per the source text. Proofread by Ruma Dewan
% Text title            : Haridvaramahatmye Vishnutapoganganirgamasnanaphala Varnanam
% File name             : haridvAramAhAtmyeviShNutapogangAnirgamasnAnaphalavarNanam.itx
% itxtitle              : viShNutapogaNgAnirgamasnAnaphalavarNanam haridvAramAhAtmye (shivarahasyAntargatA)
% engtitle              : viShNutapogangAnirgamasnAnaphalavarNanam haridvAramAhAtmye 
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | bhargAkhyaH panchamAMshaH | adhyAyaH 29|| -
% Indexextra            : (Scan)
% Latest update         : June 18, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org