हिरण्यकशिपुकृतं ब्रह्मरुद्रस्तोत्रम्
रुद्रः प्राह तदा दैत्यं किं ते मनसि रोचते ॥ ७१॥
यदर्थं तप आतिष्ठो वृणु वरान्ददाम्यहम् ।
श्रुत्वा दृष्ट्वा च वरदं नत्वा गद्गदया गिरा ॥ ७२॥
नमः सर्वाधिभूताय सर्वान्तर्यामिणे नमः ।
तपःफलप्रदात्रे ते ब्रह्मणे शम्भवे नमः ॥ ७३॥
नमोऽस्तु जनकायाऽत्रभवते कश्यपाय च ।
नमो मरीचये तद्वत् सर्वर्षिभ्यो नमो नमः ॥ ७४॥
सर्वे शुभप्रदातारो भवन्तु मम सर्वदा ।
यदि देया वरा मह्यं पात्रं चाहं मतोऽस्मि वः ॥ ७५॥
सुराऽसुरमनुष्याणां गन्धर्वोरगरक्षसाम् ।
पशुपक्षिमृगाणां च सिद्धानां च महात्मनाम् ॥ ७६॥
यक्षविद्याधराणां चोद्भिज्जानां किन्नरात्मनाम् ।
किम्पुंसां सर्वरोगाणां मन्त्र्यायुधास्त्रयन्त्रिणाम् ॥ ७७॥
सर्वेषां दत्तशापानामवध्यत्वं च मे भवेत् ।
नाऽन्तर्बहिर्न दिवसे न रात्रौ चिज्जडैर्न च ॥ ७८॥
न पृथ्व्यां नाऽम्बरे मृत्युर्मम स्यादजसृष्टितः ।
युद्धे चाऽप्रतिद्वन्द्वत्वमैकपत्यं च देहिनाम् ॥ ७९॥
सर्वेषां लोकपालानामीश्वरत्वमखण्डितम् ।
तपोयोगप्रभावाणामविनाशो ममास्त्विति ॥ ८०॥
इत्येते तु वराः स्वेष्टा दीयन्तां पितृभिश्च मे ।
ब्रह्माज्ञया तदा रुद्रः प्राह शिष्यं तपस्विनम् ॥ ८१॥
शिष्य चैते वराः जन्मवतां तु दुर्लभाः सदा ।
तथापि वितरामोऽद्य कः सृष्टौ शाश्वतो जनः ॥ ८२॥
इति दत्त्वा वरान् रुद्रब्रह्माद्याः केतनं ययुः ।
हिरण्यकशिपुश्चापि निववृते तपःस्थलात् ॥ ८३॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने १३५-अध्यायान्तर्गतं
हिरण्यकशिपु कृतं ब्रह्म-रुद्रस्तोत्रं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड १। अध्याय १३५/७१-८३॥
lakShmInArAyaNIyasaMhitA . khaNDa 1. adhyAya 135/71-83..
Proofread by PSA Easwaran