जैगीषव्यप्रोक्तं शिवभक्तिचरितम्

जैगीषव्यप्रोक्तं शिवभक्तिचरितम्

(शिवरहस्यान्तर्गते सदाशिवाख्ये) - जैगीषव्यस्कन्दसंवादे - कथं वा कलिजानां तु शिवभक्तिर्भविष्यति । सङ्कराणां जारजानां दुर्जीवानां विशेषतः ॥ ४॥ वर्णाश्रमादिहीनानामवेदानां शिवात्मज । भक्तिः कथं भवेच्छम्भौ साक्षान्मुक्तिप्रदायिनी ॥ ५॥ - - या साऽनन्ततपोलभ्या अलभ्यैव दुरात्मनाम् । यः शिवानुगृहीतश्चेत् स भक्तेः पात्रतामियात् ॥ ६॥ सा न धर्मतपोलभ्या अलभ्या योगिनामपि । नोर्वरादानतो लभ्या न दन्त्युत्तमदानतः ॥ ७॥ न गोसहस्रदानैर्वा न वाजिवरदानतः । न रथायुतदानैर्वा हिरण्यादिप्रदानतः ॥ ८॥ न रूप्यकुप्यदानैर्वा नाम्बरादिप्रदानतः । न तुलापुरुषाद्यैर्वा दशधेनुप्रदानतः ॥ ९॥ न सत्राहि न एकाहदक्षदीक्षोपसङ्घकैः । सा भक्तिः शाम्भवी जातु भविष्यति कदाचन ॥ १०॥ नानतोयप्रदानैर्वा विप्रग्रामप्रदानतः । प्रपामण्टपविस्तार छायावनसुरोपणैः ॥ ११॥ सरसस्तीरबन्धैर्वा सा भक्तिः शाम्भवी भवेत् । यो महादेवपादाब्जध्यानानन्दैकमेदुरः ॥ १२॥ तेनैव लभ्या सा भक्तिः साक्षान्मोक्षप्रदायिनी । न वर्णाश्रमधर्मैर्वा नैवाचारानुपालनैः ॥ १३॥ आभिजात्येन शीलेन सा न लभ्या कथञ्चन । न वेदान्तानुवादैर्वा न शब्दैस्तर्ककोटिभिः ॥ १४॥ न मीमांसासहस्रैर्वा न मीमांस्या कथञ्चन । प्रसादः शाङ्करो यस्य तस्य भक्तिर्महेश्वरे ॥ १५॥ यं चिन्तयति गौरीशो मोचयामीति पाशतः । तं भक्तिभाग्यधौरेयं कुरुते करुणाकरः ॥ १६॥ शरणागतपालाय शिवाय परमात्मने । यो नमस्कुरुते प्रीत्या स मुक्तो मोचयेत्परान् ॥ १७॥ द्विजो वा श्वपचो वापि न तस्य सुमहानणुः । भवप्रीतो महादेवो भावदः परमेश्वरः ॥ १८॥ न तस्य कश्चिन्मित्रो वा शत्रुर्वास्ति कदाचन । सर्वे सुरासुराविप्राः पशवस्तद्वशे स्थिताः ॥ १९॥ स एव देवदेवेशः पशुपाशनिकृन्तनः । तस्य मायामयं सर्वं जगदेतच्चराचरम् ॥ २०॥ यस्याष्टमूर्तिभिर्व्याप्तं तेन भिन्नं न किञ्चन । ईशावास्येति वेदेन सर्वं शिवमयं जगत् ॥ २१॥ यो सौ सूर्यस्थितो देवस्तमिन्धयति तेजसा । योऽसावग्निस्थितो देवो वर्चसा तं प्रपूरयेत् ॥ २२॥ योऽसौ चन्द्रस्थितो देवः कान्त्या तं सम्प्रपूरयेत् । योऽसौ वायुस्थितो देवश्चलनैराविशेच्च तम् ॥ २३॥ योऽसौ विष्णुस्थितो देवः पालन्या शक्तितो युतः । योऽसौ ब्रह्मणि विश्वात्मा सृष्टिकर्त्रात्मना स्थितः ॥ २४॥ योऽसौ रुद्रात्मको देवः स काले संहरेज्जगत् । योऽसाविन्द्रात्मको देवस्त्रिविष्टपनिविष्टितः ॥ २५॥ योऽसौ भूमिमयो देवो धत्ते सर्वं चराचरम् । योऽसौ स वरुणो देवो ह्यपः पाति त्विषां पतिः ॥ २६॥ योऽसावाकाशगो देवो व्याप्य तिष्ठति रोदसी । योऽसावपां शरीरो वै नदीनदगणाधिपः ॥ २७॥ योऽसौ सर्वात्मको देवः सर्वभूतगुहाशयः । पुरुषः परिपूर्णात्मा तेन पूर्णमिदं जगत् ॥ २८॥ तस्यैव कृपया भक्तिर्जायते नेतरेच्छया । भक्त्या ज्ञानं विजायेत सैव भक्तिप्रसादतः ॥ २९॥ स्वतन्त्रस्य महेशस्य निरिच्छस्य पिनाकिनः । भक्त्यैव लभ्यते मुक्तिर्नान्यथा वेदवादतः ॥ ३०॥ तस्यैष आत्मा वृणुत इति मन्त्रानुशासनात् । पराञ्चिखानि देवेशो व्यावृणोत्परमेश्वरः ॥ ३१॥ तस्माद्ब्रह्मादयो देवा मोहिताः शिवमायया । तेनैव सुकरो मार्गो दर्शितः शूलपाणिना ॥ ३२॥ सर्वेषां भाति(भूति) लाभाय मुक्तयेऽपि च शाश्वतः । अग्निरित्यादिभिर्मन्त्रैस्त्रिकालं भस्मधारणम् ॥ ३३॥ त्र्यायुषेण मन्त्रेण त्रिपुण्ड्रस्य च धारणम् । त्रियम्बकेण मन्त्रेण रुद्राक्षाणां च धारणम् ॥ ३४॥ पञ्चाक्षरेण मन्त्रेण त्रिकालं लिङ्गपूजनम् । रुद्राध्याय जपश्चैव त्रिकालं सावधानतः ॥ ३५॥ बिल्वपत्रैर्महादेवपूजनं सोमवासरे । कालाष्टम्यां महादेवपूजनं बिल्वपल्लवैः ॥ ३६॥ चतुर्दश्यामपामार्गैर्निशिबिल्वैश्च पूजनम् । अस्तदोषे प्रदोषे च बिल्वैर्लिङ्गस्य पूजनम् ॥ ३७॥ शिवक्षेत्रनिवासश्च अविमुक्ते विशेषतः । शिवभक्तार्चनं वापि भोगभाग्यैर्यथारुचि ॥ ३८॥ शिवोत्सवादिदर्शश्च शिवाश्रमनिषेवणम् । शिवध्यानं महामूर्तेः साम्बस्य च विशेषतः ॥ ३९॥ नृत्यमानं त्रयीनेत्रं साम्बं चन्द्रकलाधरम् । नीलकण्ठं च सानन्दनन्दिभृङ्गिनिषेवितम् ॥ ४०॥ गणेशस्कन्दजनकं ध्यायेद्देवं महेश्वरम् । क्षणार्धं वा तदर्धं वा स मुक्तो भवति ध्रुवम् ॥ ४१॥ एवं भक्तिर्विरूपाक्षे यस्याऽसाधारणी भवेत् । स तरत्येव संसारमसारं जन्ममृत्युदम् ॥ ४२॥ ॥ इति शिवरहस्यान्तर्गते जैगीषव्यप्रोक्तं शिवभक्तिचरितं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । सदाशिवाख्यः नवमांशः । अध्यायः ३ मुनिवाक्यम् । ६-४२॥ - .. shrIshivarahasyam . sadAshivAkhyaH navamAMshaH . adhyAyaH 3 munivAkyam . 6-42.. Notes: Jaigīṣavya जैगीषव्य; wanting to learn from Skanda स्कन्द, spells out the Characteristics of ŚivaBhakti शिवभक्ति, and wishes to know how that can be achieved - especially, in KaliYuga कलियुग - knowing well, that the same cannot be achieved by any means other than Śivānugraha शिवानुग्रह - the Grace of Śiva शिव. He tells about the using specific mantra-s viz. Agnirādityādi Mantra अग्निरित्यादि मन्त्र for Bhasmadhāraṇa भस्मधारण, Tryāyuśa Mantra त्र्यायुष मन्त्र for Tripuṇdradhāraṇa त्रिपुण्ड्रधारण and Triyambaka Mantra त्रियम्बक मन्त्र for Rudrākṣadhāraṇa रुद्राक्षधारण. He also speaks about Trikāla त्रिकाल worship of the Śivaliṅga शिवलिङ्ग with PañcākṣaraMantra पञ्चाक्षरमन्त्र and RudrādhyāyaJapa रुद्राध्यायजप. He recommends Pūjā पूजा of Mahādeva महादेव with Bilvapatra बिल्वपत्र especially on Somavāra सोमवार and Kālāṣṭamī कालाष्टमी; Pūjā पूजा of Śivaliṅga शिवलिङ्ग with Apamārga अपमार्ग on Caturdaśī चतुर्दशी and with Bilva बिल्व during night, Astadoṣa अस्तदोष and Pradoṣa प्रदोष. Proofread by Ruma Dewan
% Text title            : Jaigishavyaproktam Shivabhakticharitam
% File name             : jaigIShavyaproktaMshivabhakticharitam.itx
% itxtitle              : shivabhakticharitam (jaigIShavyaproktaM shivarahasyAntargatam)
% engtitle              : jaigIShavyaproktaM shivabhakticharitam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | sadAshivAkhyaH navamAMshaH | adhyAyaH 3 munivAkyam | 6-42||
% Indexextra            : (Scan)
% Latest update         : July 14, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org