जैमिनिकृतं शिवस्तोत्रम्
अथानन्दार्णवे मग्नो दृष्ट्वा नृत्यं महेशितुः ।
जैमिनिर्वेदपादेन स्तवेनास्तौत्समाहितः ॥ ७३-२८॥
जैमिनिरुवाच ।
विरिञ्चिविष्णुगिरिशप्रणताङ्घ्रिसरोरुहे ।
जगत्सूते नमस्तुभ्यं देवि काम्पिल्यवासिनि ॥ ७३-२९॥
विघ्नेशविधिमातण्डचन्द्रेन्द्रोपेन्द्रवन्दित ।
नमो गणपते तुभ्यं ब्रह्मणां ब्रह्मणस्पते ॥ ७३-३०॥
उमाकोमलहस्ताब्जसम्भावितललाटकम् ।
हिरण्यकुण्डलं वन्दे कुमारं पुष्करस्रजम् ॥ ७३-३१॥
शिवं ब्रह्मादिदुर्दर्शं नरः कः स्तोतुमर्हति ।
दर्शनात्ते स्तुतिर्मे सा चाभ्राद्वृष्टिरिवाजनि ॥ ७३-३२॥
नमः शिवाय साम्बाय नमः शर्वाय शम्भवे ।
नमो नटाय रुद्राय सदसस्पतये नमः ॥ ७३-३३॥
पादभिन्नाय लोकाय मौलिभिन्नाण्डभित्तये ।
भुजभ्रान्तदिगन्ताय भूतानां पतये नमः ॥ ७३-३४॥
क्वणन्नूपुरयुग्माय विलसत्कृत्तिवाससे ।
फणीन्द्रमेखलायास्तु पशूनां पतये नमः ॥ ७३-३५॥
कालकालाय सोमाय योगिने शूलपाणये ।
अस्थिभूषाय शुद्धाय जगतां पतये नमः ॥ ७३-३६॥
पात्रे सर्वस्य जगतो नेत्रे सर्वदिवौकसाम् ।
गोत्राणां पतये तुभ्यं क्षेत्राणां पतये नमः ॥ ७३-३७॥
शङ्कराय नमस्तुभ्यं मङ्गलाय नमो नमः ।
धनानां पतये तुभ्यमन्नानां पतये नमः ।
आत्माधिपतये तुभ्यं नमो मीढुष्टमाय च ॥ ७३-३८॥
अष्टाङ्गायातिहृद्याय क्लिष्टभक्तेष्टदायिने ।
इष्टिघ्नाय सुतुष्टाय पुष्टानां पतये नमः ॥ ७३-३९॥
पञ्चभूताधिपतये कालाधिपतये नमः ।
नम आत्माधिपतये दिशां च पतये नमः ॥ ७३-४०॥
विश्वकर्त्रे महेशाय विश्वभर्त्रे पिनाकिने ।
विश्वहर्त्रेऽग्निनेत्राय विश्वरूपाय वै नमः ॥ ७३-४१॥
ईशान ते तत्पुरुष नमो घोराय ते सदा ।
वामदेव नमस्तेऽस्तु सद्योजाताय वै नमः ॥ ७३-४२॥
भूतिभूषाय भक्तानां भीतिभङ्गप्रदायिने ।
नमो भवाय भर्गाय नमो रुद्राय मीढुषे ॥ ७३-४३॥
सहस्राम्बाय साम्बाय सहस्राभीषवे नमः ।
सहस्रबाहवे तुभ्यं सहस्राक्षाय मीढुषे ॥ ७३-४४॥
सुकपोलाय सोमाय सुललाटाय सुभ्रुवे ।
सुदेहाय नमस्तुभ्यं सुमृडीकाय मीढुषे ॥ ७३-४५॥
भवक्लेशनिमित्तोरुभयच्छेदकृते सदा ।
नमस्तुभ्यमषाढाय सहमानाय मीढुषे ॥ ७३-४६॥
वन्देऽहं देवमानन्दसन्दोहं लास्यसुन्दरम् ।
समस्तजगतां नाथं सदसस्पतिमद्भुतम् ॥ ७३-४७॥
सुजङ्घं सुन्दरं क्षौमं रक्षोभूतक्षतिक्षमम् ।
यक्षेशेष्टं नमामीशमक्षरं परमं प्रभुम् ॥ ७३-४८॥
अर्द्धालकमवस्त्रार्द्धमस्थ्युत्पलदलस्रजम् ।
अर्द्धपुंलक्षणं वन्दे पुरुषं कृष्णपिङ्गलम् ॥ ७३-४९॥
सकृत्प्रणतसंसारमहासागरतारकम् ।
प्रणमामि तमीशानं जगतस्तस्थुषस्पतिम् ॥ ७३-५०॥
धातारं जगतामीशं दातारं सर्वसम्पदाम् ।
नेतारं मरुतां वन्दे जेतारमपराजितम् ॥ ७३-५१॥
तं त्वामन्तकनेतारं वन्दे मन्दाकिनीधरम् ।
दधाति विदधद्यो मामिमानि त्रीणि विष्टपा ॥ ७३-५२॥
सर्वज्ञं सर्वगं सर्वं कविं वन्दे तमीश्वरम् ।
यतश्च यजुषा सार्द्धमृचः सामानि जज्ञिरे ॥ ७३-५३॥
भवन्तं सुदृशं वन्दे भूतभव्यभवन्ति च ।
त्यजन्तीतरकर्माणि यो विश्वाभिर्विपश्यति ॥ ७३-५४॥
हरं सुरनियन्तारं हरन्तमहमानतः ।
यदाज्ञया जगत्सर्वं व्याप्य नारायणः स्थितः ॥ ७३-५५॥
तं नमामि महादेवं यन्नियोगादिदं जगत् ।
कल्पादौ भगवान्धाता यथापूर्वमकल्पयत् ॥ ७३-५६॥
ईश्वरं तमहं देवं यस्य लिङ्गमहर्निशम् ।
यजन्ते सह भार्याभिरिन्द्रज्येष्ठा मरुद्गणाः ॥ ७३-५७॥
नमामि तमिमं रुद्रं यमभ्यर्च्य सकृत्पुरा ।
अवापुः स्वं स्वमैश्वर्यं देवासः पूषरातयः ॥ ७३-५८॥
तं वन्दे देवमीशानं यं शिवं हृदयाम्बुजे ।
सततं यतयः शान्ताः सञ्जानाना उपासते ॥ ७३-५९॥
तदस्मै सततं कुर्मो नमः कमलकान्तये ।
उमाकुचपटोरस्क या ते रुद्रशिवा तनूः ॥ ७३-६०॥
नमस्ते रुद्रभावाय नमस्ते रुद्रकेलये ।
नमस्ते रुद्रशान्त्यै च नमस्ते रुद्रमन्यवे ॥ ७३-६१॥
वेदाश्वरथनिष्ठाभ्यां पादाभ्यां त्रिपुरान्तक ।
बाणकार्मुकयुक्ताभ्यां बाहुभ्यामुत ते नमः ॥ ७३-६२॥
नमस्ते वासुकिज्याय विष्किराय च शङ्करः ।
महते मेरुरूपाय नमस्ते अस्तु धन्वने ॥ ७३-६३॥
नमः परशवे तेऽस्तु शूलायातुलरोचिषे ।
हयग्रीवात्मने तुभ्यमुतोत इषवे नमः ॥ ७३-६४॥
सुरेतरवधू हारहारीणि हर यानि ते ।
अन्यान्यस्त्राण्यहं तूण इदं तेभ्योऽकरं नमः ॥ ७३-६५॥
धराधरसुतालीलासरोजाहतबाहवे ।
तस्मै तुभ्यमघोराय नमो अस्मा श्रवस्य च ॥ ७३-६६॥
रक्ष मामज्ञमक्षीणमशिक्षितमनन्यगम् ।
अनाथं दीनमापन्ने दरिद्रं नीललोहितम् ॥ ७३-६७॥
दुर्मुखं दुष्क्रियं दुष्टं रक्षमामीश दुर्दशम् ।
आदृशा तमहं न त्वदन्यं विन्दामि राधसे ॥ ७३-६८॥
भवाख्येनाग्निना शम्भो रागद्वेषमदार्चिषा ।
दयालो दह्यमानानामस्माकमविता भव ॥ ७३-६९॥
परदारं परावासं परवस्त्रं पराश्रयम् ।
हर पाहि परान्नं मां पुरुणामन्पुरुष्टुत ॥ ७३-७०॥
लौकिकैर्यत्कृतं दुष्टैर्नावमानं सहामहे ।
देवेश तव दासेभ्यो भूरिदा भूरि देहि नः ॥ ७३-७१॥
कुलोकानामयत्नानां गर्विणामीश पश्यताम् ।
अस्मभ्यं क्षेत्रमायुश्च वसु स्पार्हं तदा भर ॥ ७३-७२॥
याञ्चातो महतीं लज्जामस्मदीयां घृणानिधे ।
त्वमेव वेत्सि नस्तूर्णमिदं स्तोतृभ्य आभर ॥ ७३-७३॥
जाया माता पिता चान्ये मां द्विषन्त्यमितं कृशम् ।
देहि मे महतीं विद्यां राया विश्वपुषा सह ॥ ७३-७४॥
अदृष्टार्थेषु सर्वेषु दृष्टार्थेष्वपि कर्मसु ।
मेरुधन्वन्नशक्तेभ्यो बलं धेहि तनूषु नः ॥ ७३-७५॥
लब्धानिष्टसहस्रस्य नित्यमिष्टवियोगिनः ।
हृद्रोगं मम देवेश हरिमाणं च नाशय ॥ ७३-७६॥
ये ये रोगाः पिशाचा वा नरा देवाश्च मामिह ।
बाधन्ते देवताः सर्वा निबाधस्व महानसि ॥ ७३-७७॥
त्वमेव रक्षितास्माकमन्यः कश्चिन्न विद्यते ।
तस्मात्स्वीकृत्य देवेश रक्षा णो ब्रह्मणस्पते ॥ ७३-७८॥
त्वमेवोमापते माता त्वं पिता त्वं पितामहः ।
त्वमायुस्त्वं मतिस्त्वं श्रीरुत भ्रातोत नः सखा ॥ ७३-७९॥
यतस्त्वमेव देवेश कर्ता सर्वस्य कर्मणः ।
ततः क्षमस्व तत्सर्वं यन्मया दुष्कृतं कृतम् ॥ ७३-८०॥
त्वत्समो न प्रभुत्वेन फल्गुत्वेन च मत्समः ।
ततो देव महादेव त्वमस्माकं तवस्मसि ॥ ७३-८१॥
सुस्मितं भस्मगौराङ्गं तरुणादित्यविग्रहम् ।
प्रसन्नवदनं सौर्म्य गाये त्वा नमसा गिरा ॥ ७३-८२॥
एष एव वरोऽस्माकं नृत्यन्तं त्वां सभापतिम् ।
लोकयन्तमुमाकान्तं पश्येम शरदः शतम् ॥ ७३-८३॥
अरोगिणो महाभाग विद्वांसश्च बहुश्रुताः ।
भगवंस्त्वत्प्रसादेन जीवेम शरदः शतम् ॥ ७३-८४॥
सदारा बन्धुभिः सार्द्धं त्वदीयं ताण्डवामृतम् ।
पिबन्तः काममीशानं नन्दाम शरदः शतम् ॥ ७३-८५॥
देवदेव महादेव त्वदीयाङ्घ्रिसरोरुहम् ।
कामं मधुमयं पीत्वा मोदाम शरदः शतम् ॥ ७३-८६॥
कीटा नागाः पिशाचा वा ये वा के वा भवेभवे ।
तव दासा महादेव भवाम शरदः शतम् ॥ ७३-८७॥
सभायामीश ते देव नृत्यवाद्यगलस्वनम् ।
श्रवणाभ्यां महादेव शृणुयाम शरदः शतम् ॥ ७३-८८॥
स्मृतिमात्रेण संसारविनाशनकराणि ते ।
नामानि खलु दिव्यानि प्रब्रवाम शरदः शतम् ॥ ७३-८९॥
इषुसन्धानमात्रेण दग्धत्रिपुर घूर्जटे ।
आधिभिर्व्याधिभिर्नित्यमजिताः स्याम शरदः शतम् ॥ ७३-९०॥
चारुचामीकराभासं गौरीकुचपटोरसम् ।
कदा नु लोकयिष्यामि युवानं विश्पतिं कविम् ॥ ७३-९१॥
प्रमथेन्द्रावृतं प्रीतवदनं प्रियवाससम् ।
सेविष्येऽहं कदा साम्बं सुभासं शुक्रशोचिषम् ॥ ७३-९२॥
बह्वेनसं मामकृतपुण्यलेशं च दुर्मतिम् ।
स्वीकरिष्यति किं न्वीशो नीलग्रीवो विलोहितः ॥ ७३-९३॥
कालशूलानलासक्तं भीतं व्याकुलमानसम् ।
कदा नु द्रक्ष्यतीशो मां तुविग्रीवो अनानतः ॥ ७३-९४॥
गायका यूयमायात यदि रागादि लिप्सवः ।
धनदस्य सखायं तमुपास्मै गायता नरः ॥ ७३-९५॥
स्वस्त्यस्तु सखि ते जिह्वे विद्यादातुरुमापतेः ।
स्तवमुच्चतरं ब्रूहि जयतामिव दुन्दुभिः ॥ ७३-९६॥
चेतयाजन शान्तस्त्वं नेदं वेदाखिलं जगत् ।
अस्य तृप्त्याखिलं शभोर्गौरो न तृषितः पिब ॥ ७३-९७॥
सुगन्धिं च सुखस्पर्शं कामदं सोमभूषणम् ।
गाढमालिङ्ग मच्चित्तं योषा जारमिव प्रियम् ॥ ७३-९८॥
महामयूखाय महाभुजाय महाशरीराय महाम्बराय ।
महाकिरीटाय महेश्वराय महो महीं सुष्टुतिमीरयामि ॥ ७३-९९॥
यथाकथञ्चिद्रचिताभिरीषत्प्रसन्नतश्चारुभिरादरेण ।
प्रपूजयामि स्तुतिभिर्महेशमषाढमुग्रं सहमानमाभिः ॥ ७३-१००॥
नमः शिवाय त्रिपुरान्तकाय जगत्त्रयेशाय दिगम्बराय ।
नमोऽस्तु मुख्याय हराय भूयो नमो जघन्याय च बुध्नियाय ॥ ७३-१०१॥
नमो विकाराय विकारिणे ते नमो भवायास्तु भवोद्भवाय ।
बहुप्रजात्यन्तविचित्ररूप यतः प्रसूता जगतः प्रसूतिः ॥ ७३-१०२॥
तस्मै सुरेशोरुकिरीटनानारत्नावृताष्टापदविष्टराय ।
भस्माङ्गरागाय नमः परस्मै यस्मात्परं नापरमस्ति किञ्चित् ॥ ७३-१०३॥
सर्पाधिराजोषधिनाथयुद्धक्षुभ्यज्जटामण्डलगह्वराय ।
तुभ्यं नमः सुन्दरताण्डवाय यस्मिन्निदं सञ्चविचैति सर्वम् ॥ ७३-१०४॥
मुरारिनेत्रार्चितपादपद्ममुमाङ्घ्रिलाक्षापरिरक्तपाणिम् ।
नमामि देवं वृषनीलकण्ठं हिरण्यदन्तं शुचिवर्णमारात् ॥ ७३-१०५॥
अनन्तमव्यक्तमचिन्त्यमेकं हरन्तमाशाम्बरमम्बराङ्गम् ।
आजं पुराणं प्रणमामि यूपमणोरणीयान्महतो महीयान् ॥ ७३-१०६॥
अन्तःस्थमात्मानमजं न दृष्ट्वा भ्रमन्ति मूढा गिरिगयह्वरेषु ।
पश्चादुदग्दक्षिणतः पुरस्तादधः स्विदासीदुपरि स्विदासीत् ॥ ७३-१०७॥
इमं नमामीश्वरमिन्दुमौले शिवं महानन्दमशोकदुःखम् ।
हृदम्बुजे तिष्ठति यः परात्मा यतश्च सर्वाः प्रदिशो दिशश्च ॥ ७३-१०८॥
रागादिकापट्यसमुद्भवेन भान्तं भवाख्येन महामयेन ।
विलोक्य मां पालय चन्द्रमौले भिषक्तमं त्वा भिषजां शृणोमि ॥ ७३-१०९॥
दुःखाम्बुराशिं सुखलेशहीनमस्पृष्टपुण्यं बहुपातकं माम् ।
मृत्योः करस्थं भव रक्ष भीतं पश्चात्पुरस्तादधरादुदक्तात् ॥ ७३-११०॥
गिरीन्द्रजाचारुमुखावलोकसुशीतया देव तवैव दृष्ट्या ।
वयं दयापूरितयैव पूर्णमपो न नावा दुरिता तरेम ॥ ७३-११॥
अपारसंसारसमुद्रमध्ये निमग्नमुत्क्रोशमनल्परागम् ।
मामक्षमं पाहि महेशजुष्टमोजिष्ठया दक्षिणयेव रातिम् ॥ ७३-११२॥
स्मरन्पुरा सञ्चितपातकानि खरं यमस्यापि मुखं यमारे ।
बिभेमि मे देहि यथेष्टमायुर्यदि क्षितायुर्यदि वा परेतः ॥ ७३-११३॥
सुगन्धिभिः सुन्दरभस्मगौरैरनन्तभोगैर्मृदुलैरघोरैः ।
इमं कदाऽऽलिङ्गति मां पिनाकी स्थिरेभिरङ्गैः पुरुरूप उग्रः ॥ ७३-११४॥
क्रोशन्तमीशं पतितं भवाब्धौ नाकुस्थमण्डूकमिवातिभीतम् ।
कदा नु मां रक्षति देवदेवो हिरण्यरूपः स हिरण्यसन्दृक् ॥ ७३-११५॥
चारुस्मितं चन्द्रकलावतंसं गौरीकटाक्षारुहयुग्मनेत्रम् ।
आलोकयिष्यामि कदा नु साम्बमादित्यवर्णं तमसः परस्तात् ॥ ७३-११६॥
आगच्छतानादि मुमुक्षवो ये यूयं शिवं चिन्तयतान्तरेऽब्जे ।
ध्यायन्ति मुक्त्यर्थममुं हि नित्यं वेदान्तविज्ञानसुनिश्चितार्थाः ॥ ७३-११७॥
आयात यूयं भवताधिपत्ये कामं महेशं गिरिशं यजध्वम् ।
एवं पुराभ्यर्च्य हिरण्यगर्भो भूतस्य जातः पतिरेक आसीत् ॥ ७३-११८॥
एकायनं ते विपुलां श्रियं ते श्रीकण्ठमेनं सुकृता नमन्ताम् ।
श्रीमानयं श्रीपतिवन्द्यपादः श्रीणामुदारो धरुणो रयीणाम् ॥ ७३-११९॥
सुपुत्रकामा अपि ये मनुष्या युवानमेनं गिरिशं यजन्ताम् ।
यतः स्वयम्भूर्जगतो विधाता हिरण्यगर्भः समवर्तताग्रे ॥ ७३-१२०॥
अलं किमुक्तैर्बहुभिः समीहितं समस्तमस्याश्रयणेन सिध्यति ।
पुरैनमाश्रित्य हि कुम्भसम्भवो दिवा न नक्तं पलितो युवाजनि ॥ ७३-१२१॥
अन्यत्परित्यज्य ममाक्षिभृङ्गाः सर्वं सदैनं शिवमाश्रयध्वम् ।
आमोदवानेष मृदुः शिवाय स्वादुःष्किलायं मधुमाँ उतायम् ॥ ७३-१२२॥
भविष्यसि त्वं प्रतिमानहीनो विनिर्ज्जिताशेषनरामरश्च ।
नमश्च ते वाणि महेशमेनं स्तुहि श्रुतं गर्तसदं युवानम् ॥ ७३-१२३॥
यद्यन्मनश्चिन्तयसि त्वमिष्टं तत्तद्भिविष्यत्यखिलं ध्रुवं ते ।
दुःखेन वृत्तिं विषये कदाचिद्यक्ष्वामहे सौमनसाय रुद्रम् ॥ ७३-१२४॥
अज्ञानयोगादपचारकर्म यत्पूर्वमस्माभिरनुष्ठितं ते ।
तदेव सोढ्वा सकलं दयालो पितेवपुत्रान्प्रति नो जुषस्व ॥ ७३-१२५॥
संसाराख्यक्रुद्धसर्पेण तीव्रै रागद्वेषोन्मादलोभादिदन्तैः ।
दष्टं दृष्ट्वा मां दयालुः पिनाकी देवस्त्राता त्रायतामप्रयुच्छन् ॥ ७३-१२६॥
इत्युक्त्वान्ते ये समाधेर्नमन्ते रुद्र त्वां ते यान्ति जन्माहिदष्टाः ।
सन्तो नीलग्रीवसूत्रात्मनाहं तत्त्वा यामि ब्रह्मणा वन्दमानः ॥ ७३-१२७॥
भवाधिभीषणज्वरेण पीडितान्महामया-
नशेषपातकालयानदूरकाललोचनान् ।
अनाथनाथ ते करेण भेषजेन कालहा
उदूषुणो वसो महे मृशस्व शूर राधसे ॥ ७३-१२८॥
जयेम येन सर्वमेतदिष्टमष्टदिग्गणं
भुवः स्थलं दिवः स्थलं नभःस्थलं च तद्गतम् ।
य एष सर्वदेव दानवप्रभुः सभापतिः
स नो ददातु तं रयिं पुरुं पिशङ्गसन्दृशम् ॥ ७३-१२९॥
नमो भवाय ते हराय भूतिभासितोरसे
नमो भवाभिभूति भीतिसङ्गिने पिनाकिने ।
नमः शिवाय विश्वपाय शाश्वताय हेलये
न यस्य हन्यते सखा न जीयते कदाचन ॥ ७३-१३०॥
सुरपतिपतये नमो नमः प्रजापतिपतये नमो नमः ।
क्षितिपतिपतये नमो नमोऽम्बिकापतय उमापतये नमो नमः ॥ ७३-१३१॥
विनायकं वन्दनमस्तकाहतस्वनाद्यसङ्घृष्टकिरीटमस्तकम् ।
नमामि नित्यं प्रणतार्तिनाशनं कविं कवीनामुपमश्रवस्तमम् ॥ ७३-१३२॥
देवा युद्धे यागे विप्रास्त्रेप्याह्वयं ध द्वयं विन्दन्ति स्कन्दम् ।
वन्दे सुब्रह्मण्यों सुब्रह्मण्यों सुब्रह्मण्योम् ॥ ७३-१३३॥
नमः शिवायै जगदम्बिकायै शिवप्रियायै शिवविग्रहायै ।
समुद्बभूवाद्रिपतेः सुता या चतुष्कपर्दा युवतिः सुपेशाः ॥ ७३-१३४॥
हिरण्यवर्णां मणिनूपुराङ्घ्रिं प्रसन्नवक्त्रां शुकपद्महस्ताम् ।
विशालनेत्रां प्रणमामि गौरीं वचोविदं वाचमुदीरयन्तीम् ॥ ७३-१३५॥
नमामि मेनातनयाममेयामिमामुमां कान्तिमतीममेयाम् ।
करोति या भूतिसितौ स्तनौ द्वौ प्रियं सखायं परिषस्वजाना ॥ ७३-१३६॥
कान्तामुमां कान्तनिभाङ्गकान्तिभान्तामुपात्तानतहर्यजेन्द्राम् ।
नतोऽस्मि यास्ते गिरिशस्य पार्श्वे विश्वानि देवी भुवनानि चष्टे ॥ ७३-१३७॥
वन्दे गौरीं तुङ्गपीनस्तनीं तां चन्द्राचूडां क्लिष्टसर्वाङ्गरागाम् ।
यैषा दुःखिप्राणिनामात्मकान्तिं देवीं देवीं राधसे चादयन्तीम् ॥ ७३-१३८॥
एनां वन्दे दीनरक्षाविनोदां मेनाकन्यां मानदानन्ददात्रीम् ।
या विद्यानां मङ्गलानां च वाचामेषा नेत्री राधसः सूनृतानाम् ॥ ७३-१३९॥
संसारतापोरुभयापहन्त्रि भवानि भोज्याभरणैकभोगे ।
धियं वरां देहि शिवे निरर्गलां ययाति विश्वादुरिता तरेम ॥ ७३-१४०॥
शिवे कथं त्वत्समता क्व दीयते जगत्कृतिः केलिरयं शिवः पतिः ।
हरिस्तु दासोऽनुचरीन्दिरा शची सरस्वतीं वा सुभगा ददिर्वसु ॥ ७३-१४१॥
वसुरुवाच ।
इत्यनेन स्तवेनेशं स्तुत्वेत्थं स महामुनिः ।
स्नेहाश्रुपूर्णनयनः प्रणनाम सभापतिम् ॥ ७३-१४२॥
मुहुर्मुहुः पिबन्नीशं ताण्डवामृतमङ्गलम् ।
सर्वान्कामानवाप्यान्ते गाणपत्यमवाप ह ॥ ७३-१४३॥
इमं स्तवं जैमिनिना वचोदितं द्विजोत्तमो यः पठतीह भक्तितः ।
तमिष्टवाक्सिद्धिमतिद्युतिश्रियः परिष्वजन्ते जनयो यथा पतिम् ॥ ७३-१४४॥
महीपतिर्यस्तु युयुत्सुरादरादमुं पठत्यस्य तथैव सादरात् ।
प्रयान्ति शीघ्रं प्रमदान्तकान्तिकं भियं दधाना हृदयेषु शत्रवः ॥ ७३-१४५॥
त्रैवर्णिकेष्वन्यतमो य एनं नित्यं कदाचित्पठतीशभक्तितः ।
कलेवरान्ते शिवपार्श्ववर्ती निरञ्जनः साम्यमुपैति दिव्यम् ॥ ७३-१४६॥
लभन्ते पठन्तो मतिं बुद्धिकामा लभन्ते तथैव श्रियं पुष्टिकामाः ।
लभन्ते हि धान्यं नरा धान्यकामा लभन्ते ह पुत्रान्नराः पुत्रकामाः ॥ ७३-१४७॥
पादं वाप्यर्द्धपादं वा श्लोकं श्लोकार्द्धमेव वा ।
यस्तु धारयते नित्यं शिवलोकं स गच्छति ॥ ७३-१४८॥
यत्र नृत्तं शिवश्चक्रे ताण्डवं तत्स्थलं शुभे ।
पुण्यात्पुण्यतरं तीर्थं तत्र स्नात्वा विमुच्यते ॥ ७३-१४९॥
यस्तत्र कुरुते श्राद्धं पितॄणां मनुजोत्तम ।
पूर्वजान्स नयेत्स्वर्गं नात्र कार्या विचारणा ॥ ७३-१५०॥
गां सुवर्णं धरां शय्यां वस्त्रमातपवारणम् ।
पानमन्नं द्विजे दद्यात्तत्र तत्सर्वमक्षयम् ॥ ७३-१५१॥
एतदाख्यानकं पुण्यं पुण्डरीकपुरोद्भवम् ।
शृणुयाच्छ्रावयेद्वापि सोऽपि रुद्रप्रियो भवेत् ॥ ७३-१५२॥
इति श्रीबृहन्नारदीयपुराणे बृहदुपाख्याने उत्तरभागे वसुमोहिनी संवादे
त्र्यम्बकेश्वरमाहात्म्ये वेदपादस्तवो नाम त्रिसप्ततितमोऽध्यायः ॥ ७३॥
बृहन्नारदीयपुराण । उत्तरभाग । अध्याय ७३/२९-१४८॥
bRRihannAradIyapurANa . uttarabhAga . adhyAya 73/29-148..
Proofread by PSA Easwaran