ज्येष्ठमासकृते शिवशताष्टनामस्तोत्रम् मास ३
(शिवरहस्यान्तर्गते महादेवाख्ये)
- शिवगौरीसंवादे -
नमोज्येष्ठाय हृष्टाय शिपिविष्टाय धावते ॥ ४७॥
नमः पुष्टिप्रसादाय गोवृषाय ककुद्मिने ।
अभ्युदीर्णाय शान्ताय वज्रहस्ताय शस्त्रिणे ॥ ४८॥
नम आशावसानाय सहमानाय हेतवे ।
ध्वजिने दण्डिने चैव बम्भराय प्रसादिने ॥ ४९॥
उरुगव्याय काव्याय बभ्रुवे भ्रमते नमः ।
नमः स्विष्टाय पूर्वाय हुताय प्रहुताय च ॥ ५०॥
सभ्याय च सदस्याय सभायाः पतये नमः ।
अहिंसायाप्य(प्र)लोभाय पञ्चास्याय सुधन्वने ॥ ५१॥
त्रिणेत्राय सुपार्श्वाय तुष्टाय उदराय च ।
शिवाय शान्तरूपाय शतावर्ताय ते नमः ॥ ५२॥
अन्नायासन्नपालाय आत्तमालाय ते नमः ।
नमो भवाय रुद्राय कद्रुद्राय प्रचेतसे ॥ ५३॥
नमस्तेन्द्रियहीनाय लेलिहानाय सृक्विणे ।
विश्वाय विश्वरूपाय विश्वस्मै शिरसे नमः ॥ ५४॥
सर्वतः पाणिपादाय सर्वेन्द्रियविहारिणे ।
रुद्राय प्रतिरूपाय खण्डचन्द्रधराय च ॥ ५५॥
विश्वोत्पत्तिविनाशाय षडूर्मिरहिताय च ।
नमः सिद्धाय साध्याय यमानां पतये नमः ॥ ५६॥
मयोभुवे शम्भवे च विभवे प्रभवे नमः ।
दुन्दुभ्यायाहनन्याय शङ्गायाथ प्रमाय च ॥ ५७॥
सुवीराय सुघोराय अक्षोभ्यक्षोभणाय च ।
सुप्रजाय सुमेध्याय सुधाम्नेऽनन्तचक्षुषे ॥ ५८॥
नमो बुद्धाय शुद्धाय बन्धमोक्षाय ते नमः ।
नमस्ते भूतभव्याय वर्तमानाय दम्यते ॥ ५९॥
नमो भवाय भद्राय घनघोषाय ते नमः ।
प्रपन्नजनरक्षाय भक्तपापहराय च ॥ ६०॥
साकेतवासगोप्याय यममार्गहराय च ।
भद्राय रुद्ररूपाय तन्द्राय च नमो नमः ।
नमः स्थूलाय सूक्ष्माय दृश्यादृश्याय गोप्त्रिणे ॥ ६१॥
वर्षते ज्वलते चैव ग्रसते ह्रसते नमः ।
नमः सुचारुकोशाय उरुवक्षशिखाय च ॥ ६२॥
नमो नमः सुवर्णाय तपनीयनिभायते ।
विरूपाय प्रसन्नाय सर्वरूपाय ते नमः ॥ ६३॥
देवि नामशताष्टेन पूजयेज्जयेष्ठमासके ।
स्तुवीतैवं महादेवं सव्येनानेन सर्वदा ॥ ६४॥
तस्याहं परमप्रीतो दिशामि परमां गतिम् ॥ ६५॥
॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्तं ज्येष्ठमासकृते शिवशताष्टनामस्तोत्रं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः १६ ज्येष्ठमासार्चनम् । ४७.२-६५॥
- .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 16 jyeShThamAsArchanam . 47.2-65..
Notes:
Śiva शिव delivers to Devī देवी; Jyeṣṭhamāsakṛte ŚivaŚatāṣṭanāmaStotram ज्येष्ठमासकृते शिवशताष्टनामस्तोत्रम् comprising of 108 Names १०८ नामानि of Śiva शिव while detailing about His Worship during the Jyeṣṭha māsa ज्येष्ठ मास.
The corresponding Jyeṣṭhamāsakṛte ŚivaŚatāṣṭaNāmāvaliḥ ज्येष्ठमासकृते शिवशताष्टनामावलिः derived from the Jyeṣṭhamāsakṛte ŚivaŚatāṣṭanāmaStotram ज्येष्ठमासकृते शिवशताष्टनामस्तोत्रम्, and a Jyeṣṭhamāsakṛte ŚivaStutiḥ ज्येष्ठमासकृते शिवस्तुतिः can be accessed from one of the links provided below.
More details about worshiping Śiva शिव during individual Māsa मास are given in Chapters 13-25.
Selected Śloka-s श्लोकाः from Chapter 16 are presented on this page.
Proofread by Ruma Dewan