ज्येष्ठमासकृते शिवस्तुतिः मास ३
(शिवरहस्यान्तर्गते महादेवाख्ये)
- शिवगौरीसंवादे -
शम्भो भूमिशताङ्ग सङ्गरहितानङ्गाङ्गभालानल-
ज्वालाऽपाङ्गपतङ्गवत्कृतमहानेत्रेश नागप्रभो ।
भस्माभ्यङ्ग कुरङ्ग सङ्गसुकर स्फारस्फुरद्गाङ्गस-
ल्लीलालोलमहोत्तमाङ्ग भगवञ्छङागाव मां सर्वदा ॥ ६६॥
विश्वेशान दयानिधान भगवन् पाहीश पञ्चानन
स्वामिन् पैतृककाननप्रिय शिव व्याघ्राजिनालङ्कृत ।
दीनानामवनाय कालकलनाहीनापदानादिक-
दानाय स्तुवतेऽस्तु ते दृशि सदा कारुण्यवारान्निधिः ॥ ६७॥
मयस्कर सुतस्करप्रवर पाहि विश्वेश्वर
प्रसीद परमेश्वर त्रिपुरमारदेहोद्धर ।
जलन्धरगरन्धरप्रमथ देव शम्भो हर
प्रसीद दययाऽधुना शिवद पाहि गङ्गाधर ॥ ६८॥
शर्व सर्वद सुपूर्वपूजित
पर्वतेशतनयाप्रिय प्रभो ।
कालगर्वहर खर्वविष्णुहृ-
त्कञ्जवास भगवन् प्रसीद माम् ॥ ६९॥
भव भवभयहर भीम भवात्मक
भावहृदन्तरसुन्दरविग्रह ।
पाहि शिवाव्यय देव दयाकर
शङ्कर सुखकर शं कुरु मे सदा ॥ ७०॥
स्तवेनानेन देवेशि स्तुवीत परमेश्वरम् ।
ज्येष्ठे मासि विशेषेण नक्तभक्तोऽथ हव्यभुक् ॥ ७१॥
एकवारं द्विवारं वा त्रिवारं वा यजेच्छिवम् ।
ज्येष्ठायामथ पौर्णम्यां होमः कार्यो यथाविधि ॥ ७२॥
दद्याद्गोमिथुनं तेभ्यः सवत्सं च सदक्षिणम् ।
दीनानाथान् भोजयित्वा स्वयं भुञ्जीत बन्धुभिः ॥ ७३॥
ज्येष्ठमासार्चनं देवि कथितं ते समासतः ।
यत्कृत्वा मनुजः सद्यो लभेत्फलमनुत्तमम् ॥ ७४॥
शिवालये लिङ्गमौलौ ग्रीष्मे हृद्यां गलन्तिकाम् ।
मासद्वयं तु शीतेन गन्धितेन जलेन च ॥ ७५॥
सच्छिद्रं कारयेत्कुम्भं धारयेत्तदहर्निशम् ।
कृत्वैवं याति सदनं मदनान्तस्य मे शिवे ॥ ७६॥
वंशसाहस्रसहितो विमानेनार्करोचिषा ॥ ७७॥
॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्तं ज्येष्ठमासकृते शिवस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः १६ ज्येष्ठमासार्चनम् । ६६-७७॥
- .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 16 jyeShThamAsArchanam . 66-77..
Notes:
Śiva शिव advises to Devī देवी; the ŚivaStutiḥ शिवस्तुतिः for the māsa मास while detailing about His Worship during the Jyeṣṭha māsa ज्येष्ठ मास. He mentions about conducting Homam होमम् during Jyeṣṭha Pūrṇimā ज्येष्ठ पूर्णिमा.
The Jyeṣṭhamāsakṛte ŚivaŚatāṣṭanāmaStotram ज्येष्ठमासकृते शिवशताष्टनामस्तोत्रम् and the Jyeṣṭhamāsakṛte ŚivaŚatāṣṭaNāmāvaliḥ ज्येष्ठमासकृते शिवशताष्टनामावलिः comprising of 108 Names १०८ नामानि of Śiva शिव, derived from the same can be accessed from one of the links provided below.
More details about worshiping Śiva शिव during individual Māsa मास are given in Chapters 13-25.
Selected Śloka-s श्लोकाः from Chapter 16 are presented on this page.
Proofread by Ruma Dewan