कालभैरवाष्टकम्
(शिवरहस्यान्तर्गते महादेवाख्ये)
- शिवपार्वतीसंवादे -
ईश्वर उवाच ।
देवराजसेव्यमानपावनाङ्घ्रिपङ्कजं
व्यालयज्ञसूत्रमिन्दुशेखरं कृपाकरम् ।
नारदादियोगिवृन्दवन्दितं दिगम्बरं
काशिकापुराधिनाथकालभैरवं भजे । १ ॥ ५३॥
भुक्तिमुक्तिदायकं प्रशस्तचारुविग्रहं
नितान्तभक्तवत्सलं समस्तलोकपालकम् ।
निक्वणन्मनोज्ञहेमकिङ्किणीलसत्कटिं
काशिकापुराधिनाथकालभैरवं भजे । २ ॥ ५४॥
भानुकोटिभास्वरं भवाब्धितारकं परं
नीलकण्ठनीप्सितार्थदायकं त्रिलोचनम् ।
कालकालमम्बुजाक्षकन्धराहरं शिवं
काशिकापुराधिनाथकालभैरवं भजे । ३ ॥ ५५॥
शूलटङ्कपाशदण्डपाणिमादिकारणं
श्यामकायमादिदेवमक्षरं निरामयम् ।
भीमवक्रिमभ्रुवं विचित्रताण्डवप्रियं
काशिकापुराधिनाथकालभैरवं भजे । ४ ॥ ५६॥
रत्नपादुकाप्रभाविरामपादयुग्मकं
नित्यमद्वितीयमिष्टदैवतं निरञ्जनम् ।
मृत्युदर्पनाशनं करालं दंष्ट्रभीषणं
काशिकापुराधिनाथकालभैरवं भजे । ५ ॥ ५७॥
धर्मसेतुपालनमधर्ममार्गनाशनं
कर्मपाशमोचनं सुकर्मदायकं प्रभुम् ।
सुवर्णवर्णकेशपाशशोभिताङ्गनिर्मलं
काशिकापुराधिनाथकालभैरवं भजे । ६ ॥ ५८॥
अट्टहासभिन्नपद्द्मजाण्डकोटिसन्ततिं
दृष्टिपातनष्टपापजालमुग्रशासनम् ।
अष्टसिद्धिदायकं कपालमालिकाधरं
काशिकापुराधिनाथकालभैरवं भजे । ७ ॥ ५९॥
भूतसङ्घनायकं विशालकीर्तिदायकं
काशिवासकोकपुण्यपापशोधनप्रभुम् ।
नीतिमार्गकोविदं पुरातनं जगत्प्रभुं
काशिकापुराधिनाथकालभैरवं भजे । ८ ॥ ६०॥
कालभैरवाष्टकं पठन्ति ये मनोहरं
ज्ञानमुक्तिसाधनं पवित्रपुण्यवर्धनम् ।
शोकमोहदैन्यलोभकोपतापनाशनं
ते प्रयान्ति कालभैरवादि सेवितं प्रभुं हरम् ॥ ६१॥
॥ इति शिवरहस्यान्तर्गते कालभैरवाष्टकं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः ३४ अष्टमीपूजाकथनम् । ५३-६१॥
- .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 34 aShTamIpUjAkathanam . 53-61..
Notes:
Śiva शिव advises about Kālabhairavāṣṭakam कालभैरवाष्टकम् as He delivers Upadeśa उपदेश to Pārvatī पार्वती about observing Aṣṭamī अष्टमी - especially that KṛṣṇaPakṣa कृष्णपक्ष - that is known as Kālāṣṭamī कालाष्टमी - and the merits of doing so.
The Kālabhairavāṣṭakam कालभैरवाष्टकम् is meant to be recited for worshiping Bhairava Kālarāja भैरव कालराज.
He advises about worshiping Him with Mahādevī महादेवी and His gaṇa-s गणाः, worshiping His Aśṭamūrti अष्टमूर्ति; and about a ŚivaStutiḥ शिवस्तुतिः meant to be recited on Kālāṣṭamī कालाष्टमी.
The Īśvaraproktaṁ Aṣṭamīpūjākathanam ईश्वरप्रोक्तमष्टमीपूजाकथनम् and the Kālāṣṭamīkṛte ŚivaStutiḥ कालाष्टमीकृते शिवस्तुतिः can be accessed from the links given below.
This text is slightly different from the more popularly known Aśṭakam अष्टकम् that is attributed to Shankaracharya.
Proofread by Ruma Dewan