ईश्वरप्रोक्तमष्टमीपूजाकथनम्
(शिवरहस्यान्तर्गते महादेवाख्ये)
- शिवपार्वतीसंवादे -
ईश्वर उवाच ।
कृष्णाष्टम्यां महादेवि बोधायनविधानतः ।
स्त्रियो गृहस्थाः पुरुषा वर्णिनोऽपि महेश्वरि ॥ १॥
सर्वकृष्णाष्टमीष्वीशे उपोष्याहः प्रदोषके ।
नद्यां तडागे संस्नाय धौतवस्त्रधरः शुचिः ॥ २॥
भस्मत्रिपुण्ड्रसहितो रुद्राक्षाभरणैर्युतः ।
बिल्वपुष्पाणि सम्पाद्य धौतकुम्भानथाहतान् ॥ ३॥
कुशांश्च साग्रान्सम्पाद्य कृतनित्यक्रियो द्विजः ।
पूजास्थानं समालिप्य गोमयेन नवाम्भसा ॥ ४॥
रङ्गवल्लीशोभितं च पुष्पमण्टपकैर्युतम् ।
वितानपल्लवोपेतं तोरणावलिभूषितम् ॥ ५॥
तस्मिन् संस्थापिते पीठे समावाह्य वृषध्वजम् ।
साम्बं सगणमव्यग्र उग्रार्चनपरायणः ॥ ६॥
सङ्कल्प्य देशकालादि पञ्चाक्षरजपादरः ।
पाद्यार्ध्याचमनादीनि शङ्खं कुम्भं च साम्बुयुक् ॥ ७॥
लिङ्गाग्रे स्यापयेद्देवि सुकूर्चं गन्धपुष्पयुक् ।
पञ्चामृतं पञ्चगव्यं तथा फलरसानि च ॥ ८॥
मधुपर्कं च पात्रेषु स्थापयेद्गन्धपुष्पकम् ।
ताम्बूलं च हविर्देवि सम्पाद्याखण्डकाक्षताः ॥ ९॥
घृतदीपांस्ततो दिक्षु पिष्टैः कुर्यात्सवर्तिकान् ।
आत्वावहेति मन्त्रेण शिवमावाहयेद्व्रती ॥ १०॥
साम्बं च सगणं देवं लिङ्गेऽभ्यर्च्य पिनाकिनम् ।
पाद्यार्ध्याचमनादीनि दद्याद्देवि पृथक् पृथक् ॥ ११॥
मूलमन्त्रेण विधिवत् मधुपर्कं ततः शिवे ।
पञ्चामृतं पञ्चगव्यं तथा फलरसैः शिवे ॥ १२॥
गन्धपुष्पकुशाग्राम्बु लिङ्गे दद्यात्षडक्षरैः ।
शतरुद्रेण जपविद्गोशृङ्गेणाभिषेचयेत् ॥ १३॥
इमा आपः शिवेत्येव मापो दद्याच्छिवाय तु ।
आपोहिष्ठादिमनुभिरभिषिञ्चेत्ततः परम् ॥ १४॥
ब्रह्मजिज्ञैः पावमानैः कद्रुद्रायेति मन्त्रतः ।
सर्वोह्येषमहारुद्रः पुरुषोरुद्र इत्यपि ॥ १५॥
विश्वम्भूतमितीशानि वामदेवादिसामभिः ।
यजुः पतित्रमापोस्याद्योरुद्राग्नावितिमन्त्रतः ॥ १६॥
अभिषिच्य महादेवं शिवे लिङ्गस्वरूपिणम् ।
देवस्यत्वेति मन्त्रेण सकूर्चेनाभिषेचयेत् ॥ १७॥
भवाद्यैरष्टभिर्देवि तर्पयेन्नामभिः पृथक् ।
संशोध्य वाससा लिङ्गं पीठे संस्थाप्य पूजयेत् ॥ १८॥
वस्त्रं गन्धं सितं भस्म साक्षतं चोपवीतकं ।
सुवर्णरत्नाकल्पैश्च बिल्वैः पुष्पैश्च पूजयेत् ॥ १९॥
कमलोत्पलकल्हारमन्दारकरवीरकैः ॥ २०॥
कर्णिकारार्कदमनैः कनकैर्द्रोणसम्भवैः ।
शताष्टनामभिर्देवि निधनेत्यादिमन्त्रतः ॥ २१॥
धूपं च गुग्गुलोपेतं घृतदीपान् मनोरमान् ।
गणांश्च परितः पूज्य गन्धपुष्पाक्षतादिभिः ॥ २२॥
महाकालाय पूर्वे तु शङ्कुकर्णाय दक्षिणे ।
नन्दिकेशाय पश्चात्तु वक्रतुण्डाय चोत्तरे ॥ २३॥
ईशाने चण्डिकेशानं धर्मं चैव शिवाग्रतः ।
उत्तरे च महादेवि पूजयेदुपचारकैः ॥ २४॥
तत्तन्नामभिरेवेशि शिवस्य परितो यजेत् ।
उद्दीप्यस्वेति मन्त्रेण चाष्टपैष्टिकदीपतः ॥ २५॥
हविः साज्यं च ताम्बूलं शिवे दद्याद्गणेषु च ।
नीराजनं ततो दद्याद्वाद्यघोषपुरःसरम् ॥ २६॥
छत्रं च चामरं देवि व्यजनादर्शके तथा ।
प्रदक्षिणप्रणामं च स्तवमेतत्प्रयोजयेत् ॥ २७॥
जय शङ्कर पार्वतीपते हर
विधिविष्ण्विन्द्रसुसेविताब्जपाद ।
उरगेन्द्राभरण प्रसीद शम्भो
प्रसभं पापमपाकुरुष्व सद्यः ॥ २८॥
जय सोमानलसूर्यलोचनाद्य शम्भो
धृतचन्द्राङ्कजटाकुटीरगङ्गा ।
परिपाहिपतङ्ग मध्यवास
विधिमुण्डाभरण प्रसीद देव ॥ २९॥
जय सोमकलावतंस शूलपाणे
गणवृन्दामलसेवन प्रसीद ।
हर भर्गोरुमहोग्रकालकूट-
विषभक्षेन्दुकलालसत्कपर्द ॥ ३०॥
जय साम्ब महोरगेन्द्रहार
प्रसभं मन्मथनाशन प्रसीद भर्ग ।
भव भीम महेश्वराव शम्भो
मयि दृष्टिं करुणां करुष्व शम्भो ॥ ३१॥
इति स्तुत्वा महादेवं कालाष्टम्यां तदा व्रती ।
प्रतिष्ठाप्य ततो वनिं स्वस्वशाखोक्तमार्गतः ॥ ३२॥
अशनीयं हविर्यत्स्याज्जुहुयात्तेन सर्पिषा ।
इमा रुद्रेत्यादिना मां पूर्वं तु जुहुयाच्छिवम् ॥ ३३॥
शतं हि मेत्यादिभिश्च अहं बिभर्मि इत्यपि ।
मान आयुषि इत्येतदन्ते पितरि इत्यपि ॥ ३४॥
मानः सूर्यस्य एवापि मानो महान्त इत्यपि ।
मानस्तोकेन मन्त्रेण हविष्मन्त इति क्रमात् ॥ ३५॥
वास्तोष्पतेति मन्त्रेण आर्द्रया रुद्र इत्यपि ।
देवस्य तु सुतायेति जुहुयाज्जातवेदसि ॥ ३६॥
ततः स्विष्टकृतं हुत्वा आज्यैर्होमं समापयेत् ।
पुनरष्टसुमैः पूज्य होमान्ते शं प्रसादयेत् ॥ ३७॥
प्रीयतां भगवानीशः साम्बः सगण ईश्वरः ।
अनया पूजया होमैस्तृप्तो मां स प्रसीदतु ॥ ३८॥
दद्यादर्घ्यं महेशाय स पुष्पाम्बु महेश्वरि ।
दुःखदारिद्र्य मग्नं मां समुद्धर महेश्वर ॥ ३९॥
अष्टम्यामर्घ्यदानेन अष्टमूर्ते प्रसीद मे ।
इत्यर्घ्यं च ततो दत्वा पूजामुद्वास्य सत्तमे ॥ ४०॥
ब्राह्मणाय हिरण्यं गां शाम्भवाय निवेदयेत् ।
यत्किञ्चिद्वा यथाशक्ति दद्यादीशानतुष्टमे ॥ ४१॥
भक्ष्यभोज्यान्नसंयुक्तं भुञ्जीयाच्छाम्भवैः सह ।
दक्षिणाभिश्च तान् पुष्पैर्गन्धताम्बूलपूर्वकम् ॥ ४२॥
भोजयेच्च स्वयं भुज्यान्नक्तं वा तत्र वर्तयेत् ।
कृष्णाष्टमीषु नियतमेष सामान्यतो विधिः ॥ ४३॥
एकाब्दं त्र्यब्दमथवा द्वादशाब्दमथापि वा ।
कृत्वा व्रतोद्यापनं च नक्काशी वा भवेत्ततः ॥ ४४॥
सितासितास्वष्टमीषु अविमुक्ते तु नैत्यिकम् ।
उपोष्यैवाविमुक्तेशं पूज्य बिल्वैः सुमैरपि ॥ ४५॥
शिवे गङ्गाम्बुभिः शीतैरभिषिच्य महेश्वरम् ।
धूपदीपादिनैवेद्यै स्तुवीतैतं महेश्वरम् ॥ ४६॥
कालाष्टमीषु नियतमविमुक्तेश्वरं हि माम् ॥ ४७॥
गङ्गाधरान्धकरिपो प्रमथाधिनाथ
विश्वेश विश्वगतसर्जकभर्जकान्ते ।
ब्रह्मादिविष्णुसुरवर्गसुपूजिताङ्घ्रे
मामीश पाहि दयया स्मरकालनाश ॥ ४८॥
इति स्तुत्वाऽविमुक्तेशं कालराजं प्रपूजयेत् ।
कालाष्टम्यां तु नियतं काशीवासी महेश्वरि ॥ ४९॥
मामेत्य गङ्गातटगं गन्धपुष्पाम्बुभिः सदा ।
अपूपहविषा चैव वटकैर्लङ्ङुकैरपि ॥ ५०॥
पूजयेद्धूपदीपैश्च कालाष्टम्यां स्तुवीत च ।
भैरवं भीषयणाकारं वासनिर्विघ्नहेतवे ॥ ५१॥
स्तोत्रेणानेन देवेशि काश्यां कालाष्टमीषु च ।
स्तुवीत पद्यैर्हृद्यैश्च ममाद्य गणपोत्तमम् ॥ ५२॥
प्रविष्टो योऽप्यथान्यत्र वसन्नेतत्स्तवं जपेत् ।
पुनः काशीं समासाद्य तत्र नष्टतनुर्भवेत् ॥ ६२॥
कालाष्टम्यां कालराजं स्तुवीतैवं प्रसाद्य च ।
काश्यामेव वसेन्नित्यं न पापे रमते हि सः ॥ ६३॥
किम्पुनर्बहुनोक्तेन कालाष्टम्यर्चको नरः ।
सर्वान्कामानवाप्नोति भुक्तिं मुक्तिं च विन्दति ॥ ६४॥
यज्ञायुतफलं प्राप्य मम लोके महीयते ।
ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः ॥ ६५॥
मध्याष्टमीप्रथितसोमकलावतंसं
सर्वाष्टमीषु नगजे परिपूजयन्ति ।
नष्टानि तेषु दुरितानि भवन्ति सद्यो
हृष्टानि तेषु सुकृतानि विमुक्तिदानि ॥ ६६॥
यो वाऽविमुक्ते सितभस्मभालः
कालाष्टमीषु नितं मम कालराजम् ।
सम्पूजयत्यघगणैर्नबिभेति सद्यो
हृद्यो भवेदतितरां स भवेऽतिधन्यः ॥ ६७॥
॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्तमष्टमीपूजाकथनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः ३४ अष्टमीपूजाकथनम् । वावृत्तश्लोकाः ॥
- .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 34 aShTamIpUjAkathanam . vAvRRittashlokAH ..
Notes:
Śiva शिव delivers Upadeśa उपदेश to Pārvatī पार्वती about observing Aṣṭamī अष्टमी - especially that KṛṣṇaPakṣa कृष्णपक्ष - that is known as Kālāṣṭamī कालाष्टमी - and the merits of doing so.
He advises about worshiping Him with Mahādevī महादेवी and His gaṇa-s गणाः; and worshiping His Aśṭamūrti अष्टमूर्ति.
He also advises about the ŚivaStutiḥ शिवस्तुतिः and Kālabhairavāṣṭakam कालभैरवाष्टकम्; the latter being meant to be recited for worshiping Bhairava Kālarāja भैरव कालराज.
Selected Śloka-s from the Chapter are presented on this page.
Further details are mentioned in the Adhyāyaḥ 35 - Kṛṣṇāṣṭamīvratodyāpanakathanam अध्यायः ३५ - कृष्णाष्टमीव्रतोद्यापनकथनम्.
The Kālāṣṭamīkṛte ŚivaStutiḥ कालाष्टमीकृते शिवस्तुतिः and the Kālabhairavāṣṭakam कालाष्टकम् can be accessed from the links given below.
Proofread by Ruma Dewan