कालमृत्युजयस्तोत्रम्
श्रीनारायणीश्रीरुवाच ।
नारायण जगत्कान्त सर्वरक्षक सर्वग ।
कथं त्रिकालजं मृत्युं जयति मानवो भुवि ॥ १॥
मृत्युरनिपरावृत्तो बलवान् केन वार्यते ।
केन रूपेण वा मृत्युर्मानवान् परिधावति ॥ २॥
श्रीपुरुषोत्तम उवाच ।
शृणु श्रीशिवराज्ञीश्रि नारायणि रमेऽपि च ।
लक्ष्मि समुद्रजे चापि शृणु चाक्षरमाणिकि ॥ ३॥
गरुडो मम भक्तो वै समासीनोऽभवद्गृहे ।
जपन् मालां मम ध्यायन् मन्मूर्तिं दिव्यरूपिणीम् ॥ ४॥
पृष्टस्तदा जनकेन कश्यपेन सुतो निजः ।
कथं पुत्र महाभक्त योगिन् मृत्युर्निवर्तते ॥ ५॥
केन रूपेण मृत्युर्वै समायाति हरत्यपि ।
कथं निःस्पर्शनं तस्य देहिनस्त्विह चर्यते ॥ ६॥
श्रुत्वा पक्षी च पितरं समुवाच वदामि तत् ।
भक्त्या निवर्तते मृत्युराश्रयात्परमात्मनः ॥ ७॥
दण्डी शस्त्रधरो भिक्षुर्नग्नादिः कालदूतकः ।
समायाति वर्ष्म धृत्वा तद्दंशेन न जीवति ॥ ८॥
चितावल्मीकशैलादौ कूपे च विवरे तरोः ।
दंशे दंष्ट्रात्रयं लग्नं दष्टो देही न जीवति ॥ ९॥
षष्ठ्यां च कर्कटे मेषे मूलाऽऽश्लेषामघादिषु ।
कक्षाश्रोणिगले सन्धौ शङ्खकर्णोदरादिषु ॥ १०॥
वक्त्रे बाहौ च ग्रीवायां पृष्ठे दष्टो न श्रीपति ।
शेषोऽर्कः फणिपश्चन्द्रस्तक्षको भौम ईरितः ॥ ११॥
कर्कोटो ज्ञो गुरुः पद्मो महापद्मस्तु भार्गवः ।
शङ्खः शनैश्चरो राहुः कुलिकश्चेति ते ग्रहाः ॥ १२॥
तत्तद्ग्रहेषु तज्जातिसर्पदष्टो न जीवति ।
पादांऽगुष्ठः प्रतिपदः स्यात् पादपृष्ठौ द्वितीयका ॥ १३॥
गुल्फौ नु वै तृतीया स्याज्जानुनी च चतुर्थिका ।
लिङ्गं भगं पञ्चमीति नाभिः षष्ठीस्तिथिर्मता ॥ १४॥
हृदयं सप्तमी प्रोक्ता स्तनौ चाष्टमिकादिनम् ।
कण्ठस्तु नवमी प्रोक्ता दशमी नासिकापुटौ ॥ १५॥
नेत्रे चैकादशी बोध्या कर्णौ द्वादशिका मता ।
भ्रुवौ त्रयोदशीरूपे शङ्खश्चतुर्दशी मता ॥ १६॥
मस्तकं पञ्चदशिका तत्तिथौ तत्स्थले दशेत् ।
तदा कालकवलेन दष्टो देही न जीवति ॥ १७॥
पुंसो दक्षिणभागे तु नार्या वामे त्विदं मतम् ।
एतादृशक्षणे दष्टा न जीवन्ति कदाचन ॥ १८॥
किन्तु ``ॐ गरुड स्वाहा'' जपेल्लक्षप्रवर्तनम् ।
जपन् स्पृशेत्पदाङ्गुष्ठे तले पृष्ठे च गुल्फके ॥ १९॥
जङ्घायां जानुभागे च सक्थ्नोलिङ्गे भगे कटौ ।
जघने नाभिदेशे च नितम्बे चोदरे हृदि ॥ २०॥
स्तनयोः पार्श्वदेशे च बाह्वोश्च करयोस्तले ।
अङ्गुलिषु कफोणे च कण्ठे गले कृकाटके ॥ २१॥
हनौ मुखे गण्डके च नासायां च कपोलके ।
कर्णयोः कर्णपृष्ठे च ललाटे नेत्रयोर्भ्रुवोः ॥ २२॥
कपाले मस्तके चापि शिखायां विन्यसेन्मुहुः ।
स एव गरुडो देही जायते मन्त्रमन्त्रणात् ॥ २३॥
नाक्रमन्ति च तच्छायां स्वप्नेऽपि विषपन्नगाः ।
कालरूपाश्चापि सर्पास्तद्भयाद्विद्रवन्ति वै ॥ २४॥
विषं मन्त्रस्य विन्यासात् सर्वं नश्यति लीयते ।
``ॐ शेषेश्वर नागिनीपते गरुडपृष्ठग ॥ २५॥
आस्तीकवाक्फलद श्रीहरे विषिविषं हर'' ।
इतिमन्त्रं लक्षवारं जपेत् सिद्धो भवेत्ततः ॥ २६॥
प्रयुञ्जीत महाकालोऽप्यपि दूरायते भयात् ।
ममाऽनादिकृष्णनारायणनामजपात्तदा ॥ २७॥
महाकालोऽपि संयाति विप्रकृष्टो भयान्मम ।
जीवाऽयोग्योऽपि देह्यत्र जीवत्येव न संशयः ॥ २८॥
श्रीधरस्याऽर्चनं कुर्यात् परिवारान्वितस्य मे ।
ध्यात्वाऽऽत्मानं श्रीधराख्यं शङ्खचक्रगदाधरम् ॥ २९॥
ॐ श्रीमते पुरुषोत्तमाय नमः परात्मने ।
अक्षराय नमश्चेति माणिक्यायै नमो नमः ॥ ३०॥
पद्मावत्यै जयायै च ललितायै नमो नमः ।
सुखदायै च प्रज्ञायै लक्ष्म्यै चापि नमो नमः ॥ ३१॥
राधिकायै क्रियायै च ज्ञानायै च नमो नमः ।
इच्छायै कमलायै च महालक्ष्म्यै नमो नमः ॥ ३२॥
ॐ ह्रीं श्रीधरायापि विष्णवे मे नमो नमः ।
अभिषेकं तथा वस्त्रं ततो यज्ञोपवीतकम् ॥ ३३॥
गन्धं पुष्पं तथा धूपं दीपमन्नं प्रदक्षिणम् ।
दद्याज्जपेन्मनुं मे च ध्यायेन्मां च हृदि स्थितम् ॥ ३४॥
शुद्धस्फटिकसङ्काशं कोटिसूर्यसमप्रभम् ।
प्रसन्नवदनं सौम्यं स्फुरन्मुकुटकुण्डलम् ॥ ३५॥
किरीटिनमुदाराङ्गं वनमालाविभूषितम् ।
परब्रह्मस्वरूपं मे चिन्तयेच्छोभनं परम् ॥ ३६॥
श्रीनिवासाय कृष्णाय नमः श्रीपतये नमः ।
श्रीधराय सशार्ङ्गाय श्रीप्रदाय नमो नमः ॥ ३७॥
श्रीवल्लभाय शान्ताय श्रीमते ते नमो नमः ।
श्रीपर्वतनिवासाय नमः श्रेयस्कराय च ॥ ३८॥
श्रेयसाम्पतये चापि श्रीविश्रामाय ते नमः ।
नमः श्रेयःस्वरूपाय श्रीकराय नमो नमः ॥ ३९॥
श्रिया साकं शयानाय शरण्याय नमो नमः ।
पुष्पाञ्जलिं ततो दत्वा श्रीश्वरं वै विसर्जयेत् ॥ ४०॥
एवं पूजाप्रकर्ता च निर्विषो जायते ध्रुवम् ।
स विधूयेत पापानि मे प्रयाति परं पदम् ॥ ४१॥
``ॐ श्रीं ह्रीं श्रीधराय श्रीविष्णवे जिष्णवे नमः'' ।
सर्वव्याधिहरश्चायं सर्वपीडाहरो मनुः ॥ ४२॥
सर्वपापहरश्चापि भुक्तिमुक्तिप्रदायकः ।
सर्वगरलसंहर्ता ह्यभिचारविनाशकः ॥ ४३॥
सर्वेष्टपूरकश्चापि मम धामप्रदोऽपि च ।
मत्स्वरूपः स्वयं भूत्वा जपेज्जीवेन्न संशयः ॥ ४४॥
यन्मासे यदृतौ यश्च सूर्येण सह भोगवान् ।
सर्पोऽपि वर्तते तस्य नाम्ना शपथमादिशेत् ॥ ४५॥
तेन सर्पविषं तूर्णं शाम्यत्येव न संशयः ।
इति श्रीलक्ष्मीनारायणीयसंहितायाः द्वापरयुगसन्तानात्मकस्य
तृतीयखण्डे
१४३-अध्यायान्तर्गतं कालमृत्युजयस्तोत्रं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड ३। अध्याय १४२/१-४५॥
lakShmInArAyaNIyasaMhitA . khaNDa 3. adhyAya 142/1-45..
Proofread by PSA Easwaran