काशीक्षेत्रमहिमाख्यानम्
- शिवगौरीसंवादे -
श्रीशिवः -
अस्ति क्षेत्रवरं देवि सर्वक्षेत्रोत्तमोत्तमम् ॥ ६॥
वेदोपगीतमनिशं काशीक्षेत्रमनामयम् ।
कल्पान्ते सकलान् लोकान् संहृत्य निजमायया ॥ ७॥
काश्यामेव त्वया सार्धं संवसामि शुभानने ।
काशी त्रिशूलनिलया निर्मला लयवर्जिता ॥ ८॥
पुरातना न सा जन्या प्रलयेऽपि न नश्यति ।
ममापरा तनुः काशी मत्तो भिन्ना न सा परा ॥ ९॥
सैवाहं नावयोर्भेदः सत्यमेवावयोरिव ।
नाहं वसामि कैलासे न च मन्दरपर्वते ॥ १०॥
ना वा हिमाचले भद्रे काश्यामेव वसाम्यहम् ।
वसन्नप्यत्र कैलासे विलासार्थं कदाचन ॥ ११॥
विहाय काशीमनिशं निवसामि मनोरमे ।
ज्योतिःपुञ्जमयी काशी ज्ञानरूपा मनोरमा ॥ १२॥
तया तु सदृशी (शं) वस्तु नास्ति ब्रह्माण्डगोलके ।
भूगतापि न भूः काशी निम्नस्थाप्यखिलोन्नता ॥ १३॥
वेदवेद्यापि सा नूनं वेदवेद्या न तत्त्वतः ।
मत्स्वरूपा यतः काशी ततोऽहमिव तत्त्वतः ॥ १४॥
वेदान्तैरपि सा काशी न ज्ञातुं शक्यते ध्रुवम् ।
यथा त्वयि मम प्रीतिः तथा काश्यां शुभानने ॥ १५॥
सर्वथा प्रीतिरस्त्येव नात्राप्रीतिः कदाचन ।
मह्यं त्वमिव सा काशी सर्वदा सर्वसौख्यदा ॥ १६॥
काशी काशीति सततमुच्चरन्निवसाम्यहम् ।
धर्मैकराशिः सा काशी पापराशिविनाशिनी ॥ १७॥
अविनाशिसुधाराशिराशास्या वशिभिः सदा ।
बहुभिर्जन्मभिर्नित्यं यदि घोरतरं तपः ॥ १८॥
तप्तं तदा मत्प्रसादात्काश्यां वासो भविष्यति ।
काशिवासरता मर्त्याः स्वर्गलोकनिवासजम् ॥ १९॥
सुखं सर्वं तिरस्कृत्य निवसन्त्यनिशं मुदा ।
नोग्रैस्तपोभिर्दानैश्च धर्मैरध्ययनैरपि ॥ २०॥
काशीप्राप्तिर्न लोकानां मत्प्रसादं विना शुभे ।
काशीप्रकाशकं वस्तु लोके नैव हि दृश्यते ॥ २१॥
चन्द्रो वा भानुरग्निर्वा तत्प्रकाशकरो न हि ।
या न वेद्या वेदसङ्घैस्तदन्यैरपि साधनैः ॥ २२॥
अवेद्या सा कथं वेद्या काशी लोके शिवात्मिका ।
स्वर्गभोगमपि त्यक्त्वा देवेन्द्राद्यामराः सदा ॥ २३॥
काशीवासमपेक्षन्ते मुक्त्यर्थं सर्वसाधनैः ।
सर्वयज्ञतपोदानं धर्माणां फलमुत्तमम् ॥ २४॥
काशीवासात्मकं सत्यं न तस्मादधिकं फलम् ।
ब्रह्महत्यादिपापानि घोराणि विविधान्यपि ॥ २५॥
काशीति स्मरणादेव क्षणान्नश्यन्त्यसंशयम् ।
काशीनिवासनिरतान्नरानप्यमरा मुदा ॥ २६॥
नमस्कुर्वन्ति सततं पूजयन्ति स्तुवन्ति च ।
काशीवाससमुत्पन्नसुखेन सदृशं सुखम् ॥ २७॥
नानुभूतं मया क्वापि क्वचिदप्यमलानने ।
मन्मनो रमते काश्यां यथा तद्वद्वरानने ॥ २८॥
नान्यत्र रमते चेतः तद्वत्स्वेव हि तादृशम् ।
सर्वे धर्मस्तुलारूढाः परस्परजिगीषया ॥ २९॥
पुरा श्रीशैलशिखरे श्रीशैलेश्वरसन्निधौ ।
काशीनिवासजाद्धर्मादन्ये धर्मास्तुलां गताः ॥ ३०॥
परस्परं जयं प्राप्ताः प्रथमं ते ततः परम् ।
काशीनिवाससम्भूतधर्मश्रेष्ठजिगीषया ॥ ३१॥
पुनः सर्वे तुलां प्राप्तुमुद्युक्ताः सम्भ्रमान्विताः ।
श्रीशैलेशस्तदा धर्मान् संवीक्ष्य जयकाङ्क्षिणः ॥ ३२॥
उवाच वचनं प्रीत्या सामरूपं जगत्प्रियम् ।
काशीवासजधर्मेण स्पर्धा कार्या न सर्वथा ॥ ३३॥
स सर्वधर्मचक्रेश इति वेदैर्विनिर्मितः ।
तन्मे न राजते स्पर्धा सा हीनेन न राजते ॥ ३४॥
सर्वोन्नतेन तु स्पर्धा स्वनाशायोपपद्यते ।
लोके नीतिविरुद्धानि कर्माणि विफलानि हि ॥ ३५॥
न कुर्वन्त्येव निपुणा नीतिशास्त्रविशारदाः ।
स्वशक्तिं परशक्तिं च विचार्य समयादिकम् ॥ ३६॥
ततः स्पर्धा प्रकुर्वाणा निपुणाः सन्ति सम्मताः ।
क्व भवन्तोऽनूनवीर्याः क्व सः सर्वोन्नतः परम् ॥ ३७॥
क्वानन्तोद्यद्भानुतेजाः क्वात्यल्पाग्न्यणुकप्रभा ।
ततस्तेन सह स्पर्धा न कर्तव्या कदाचन ॥ ३८॥
अल्पस्य महता सार्धं विरोधो नोपजायते ।
इति श्रीगिरिनाथस्य श्रुत्वा वचनमादरात् ॥ ३९॥
विश्वस्य तद्वचः सम्यक् स्पर्धा त्यक्त्वा ययुस्ततः ।
तस्माच्छ्रुभानने देवि काशीवाससमुद्भवः ॥ ४०॥
धर्मों धर्मवरो ज्ञेयो धर्मस्तादृङ्न सर्वथा ।
यावन्ति सन्ति तीर्थानि पाताले पृथिवीतले ॥ ४१॥
सत्यलोकादिलोकेषु तावन्ति सुखदे सदा ।
काशीं प्रयान्ति श्रीकाशीमर्चयन्ति स्तुवन्ति च ॥ ४२॥
काश्यां विवेश्वेषु(श)तीर्थेषु स्नानं कुर्वन्ति यत्नतः ।
पुण्यक्षेत्राणि सर्वाणि दूरदेशस्थितान्यपि ॥ ४३॥
गत्वा काशीं मुदा सम्यक् पूजयन्ति हि तां सदा ।
देवाः स्वस्वगणैःसाकं विहाय स्वर्गजं सुखम् ॥ ४४॥
गच्छन्त्यतीव सन्तुष्टाः काशीं प्रति सदाशिवे ।
सरस्वत्या सह स्रष्टा काशीवासरतः सदा ॥ ४५॥
सत्यलोकं विहायैव काश्यामायाति हृष्टधीः ।
विष्णुरप्यनघं स्वीयं स्थानं त्यक्त्वा सदा मुदा ॥ ४६॥
काश्यां तिष्ठति मामेव लिङ्गरूपिणमर्चयन् ।
गन्धर्वाः किन्नरा यक्षाः सर्वे स्वस्वगणान्विताः ॥ ४७॥
प्रयान्ति सततं काशी काशीपूजनतत्पराः ।
पाण्डुपर्णाशिनो धन्या मुनयो ब्रह्मवादिनः ॥ ४८॥
वाताशनाश्च सततं सन्ति काश्यां मुनीश्वराः ।
क्षीराब्धिप्रमुखाः सर्वे समुद्राः सन्ततं मुदा ॥ ४९॥
काशीपूजार्थमायान्ति रत्नैरभ्यर्चयन्ति ताम् ।
कामदोग्ध्री स्वयं गत्वा क्षीरेणैवाभिषिच्य ताम् ॥ ५०॥
काश्यां तिष्ठति सन्तुष्टा देवलोकं विहाय सा ।
पुष्पितांः कल्पवृक्षाश्च गत्वा काशीमहर्निशम् ॥ ५१॥
पुष्पवृष्टिं वितेनुस्ते काशीपूजापरायणाः ।
आदित्या वसवः साध्याः सिद्धाश्च स्वगणान्विताः ॥ ५२॥
काश्यां शुचिरता नित्यं निवसन्त्यादरेण ते ।
कश्यपोऽत्रिर्वसिष्ठाद्या ऋषयः शैवपुङ्गवाः ॥ ५३॥
विश्वेदेवाश्च सततं काश्यां तिष्ठन्त्यनाकुलाः ।
अन्येऽपि सत्यलोकादिसत्य(सर्व) लोकनिवासिनः ॥ ५४॥
सेर्वेऽपि काश्यामनिशं वसन्ति शिवपूजकाः ।
काशीं ते दुर्लभां प्राप्य निक्षेपमिव निर्धनः ॥ ५५॥
त्यक्तुं मनः कदाचिद्वा न कुर्वन्त्येव सर्वथा ।
क्षुधिता इव मृष्टान्नं पिपासव इवोदकम् ॥ ५६॥
कदाचिदपि तें काशीं न त्यजन्ति दृढव्रताः ।
चकोरा इव पूर्णेन्दुं कामुका इव कामिनीम् ॥ ५७॥
न विहास्यन्ति ते काशीमन्याशारहिताः सदा ।
भ्रमरा इव पुष्पाणि गावो वत्सतराणि च (निव) ॥ ५८॥
काशीं प्रशंसमानास्तां न त्यजन्ति दृढव्रताः ।
पतिव्रतेव भर्तारं विद्येव विमलाशयम ॥ ५९॥
काशीत्यागं मुक्तिकामो न करोत्येव पावनः ।
कःकाशीं यतते त्यक्त्वा मोक्षार्थी विगतस्पृहः ॥ ६०॥
मूर्खोऽपि ग्रासममलं न जहाति क्षुधातुरः ।
सिह्मासनं महाराजो न जहाति बलान्वितः ॥ ६१॥
न जहाति तथा काशीं मर्त्यः संसारदुःखितः ।
अनन्तोग्रतपोधर्मैर्लब्ध्वा काशीं शिवे स्थिताम् ॥ ६२॥
कः सञ्जहाति सुभगे सौभाग्यनिलयां शुभाम् ।
अनन्तजन्मभिर्घोरं तपःकृत्वातिदुर्लभम् ॥ ६३॥
तेनैव तपसा काशीं लब्ध्वा कः सञ्जहाति ताम् ।
दुर्लभा सर्वथा देवि लोके काश्यभिधा सुधा ॥ ६४॥
कः सञ्जहाति निपुणो वक्त्रगां शर्करामिव ।
अतिक्लेशाजितं वित्तं न मुञ्चन्ति यथा नराः ॥ ६५॥
तथा घोरतपोलब्धां काशीं कस्त्यक्तुमिच्छति ।
सर्वथा दुर्लभा काशी दुर्लभा दुर्लभा ध्रुवम् ॥ ६६॥
दुर्लभा दुर्लभा सत्यं दुर्लभा दुर्लभा शुभे ।
महानिधिरियं काशी पापदारिद्र्यनाशिनी ॥ ६७॥
मोक्षरूपेष्टफलदा ब्रह्मानन्दप्रवधिनी ।
इयं काशी कामधेनुर्मोक्षरूपेष्टकामदा ॥ ६८॥
विनश्येत् कामदा नेयं काशी नित्येष्टकामदा ।
काशी काशीति सततं यः काशीस्मरणे रतः ॥ ६९॥
स सद्यः सर्वपापेभ्यो मुच्यते देवि सर्वदा ।
देशान्तरेऽपि यःस्थित्वा काशी काशीति संवदेत् ॥ ७०॥
स पापिष्ठोऽपि सुभगे पातकेभ्यो विमुच्यते ।
विनात्युग्रेण तपसा काशीप्राप्तिः शुभानने ॥ ७१॥
न भवत्येव तत्सत्यं सत्यं सत्यं न संशयः ।
दुर्लभं मानुषं जन्म सम्प्राप्यापि नरो यदि ॥ ७२॥
काशीं प्राप्तुं न यतते स एव पुरुषाधमः ।
अन्यत्र दुस्सहं मर्त्यस्तपःकृत्वापि सर्वदा ॥ ७३॥
न पारलौकिकं सौख्यं प्राप्नोति विमलानने ।
प्रज्वलज्ज्वलनं त्यक्त्वा भस्मन्याज्यादिकं हविः ॥ ७४॥
हुतमप्यखिलं व्यर्थं तथान्यत्र कृतं तपः ।
धिक्तस्य जीवनं जन्तोधिक् धिक् तस्य पुनर्भवम् ॥ ७५॥
येन काशी नावलोकि येन काशी न पूजिता ।
धिक्कुलं तस्य धिक्सौख्यं धिग्धीर्धिधिक् परं यशः ॥ ७६॥
येन काशी शिवपुरी नानर्चि सकलार्थदा ।
धिगैश्वर्यं धिगैश्वर्यं धिक्तस्य नवयौवनम् ॥ ७७॥
येन काशी पुण्यराशिर्नाभ्यर्चि शुभसाधनैः ।
धिग्धिक्वाणी तस्य जन्तोर्येन काशी न वन्दिता ॥ ७८॥
धिग्धिक्षुभा(भं) मनस्तस्य येन काशी न चिन्तिता ।
धिग्धिग्धिक्च शिरस्तस्य येन काशी न वन्दिता ॥ ७९॥
धिग्धिग्धिङ्नयने तस्य येन काशी न वीक्षिता ।
धिग्धिग्धिक् श्रवणं तस्य येन काशी न च श्रुता ॥ ८०॥
धिग्धिग्धिक्च हि तत्पादौ काशीप्रक्रमवर्जितौ ।
धिक्पाणिस्तस्य विमलौ येन काशी न मार्जिता ॥ ८१॥
कीटः पतङ्गो मण्डूको मर्त्यो वा शिवसम्मतः ।
काशीं त्यक्त्वा तनुर्भूमौ नैवाप्नोति तनुं ध्रुवम् ॥ ८२॥
(काश्यां त्यक्त्वा तनुं भूमौ नैवाप्नोति तनुं ध्रुवम्) ॥ ८२॥
यस्य कस्यापि वा जन्तोर्मरणे समुपस्थिते ।
काश्यां शिव शिवेत्येतन्नामैवोपदिशाम्यहम् ॥ ८३॥
मद्भक्तान्विमलान् दृष्ट्वा मरणासन्नजीवनान् ।
ममैवाङ्के सन्निवेश्य शिवेत्युपदिशाम्यहम् ॥ ८४॥
शिवनामानुसन्धानात् पुरा पूततनुर्नरः ।
पुनर्मन्नाम तत्काश्यामन्ते प्राप्नोति मानवः ॥ ८५॥
शिवेति नामदावाग्निः पापतूलादिनाशकः ।
तस्माच्छिव शिवेत्येव नाम जप्यं सदा जनैः ॥ ८६॥
सदाशिव शिवेत्येव मन्नामोच्चारणे परैः ।
काश्यामन्ते शिवेत्येतन्नाम सम्प्राप्यते ध्रुवम् ॥ ८७॥
ततः शिव शिवेत्येतन्नाम मुक्तिप्रदायकम् ।
तन्मयाप्युपदिष्टं चेत्काश्यां किं पुनरम्बिके ॥ ८८॥
काश्यन्यपुण्यक्षेत्रेषु मद्भक्तः स्ववपुर्यदि ।
त्यजत्यन्ते स भूयोऽपि मद्भक्तो भुवि जायते ॥ ८९॥
ततः काशीमवाप्याथ मद्भक्तो मत्प्रसादतः ।
अन्ते शिवशिवेत्येतन्मन्त्रं प्राप्नोति मुक्तये ॥ ९०॥
स्वर्गभोगकरे पुण्ये नष्टे देवाः पुनर्नराः ।
भवन्ति तेऽपि मद्भक्ताः काश्यां तिष्ठन्त्यहर्निशम् ॥ ९१॥
ततः काश्यामन्तकाले ममैवानुग्रहे सति ।
सदाशिव शिवेत्येतन्नाम सम्प्राप्नुवन्ति ते ॥ ९२॥
काश्यां मुक्ततनुर्मर्त्यो न पुनस्स्तन्यभाक् शुभे ।
किन्तु मद्रूपतां याति मद्भक्तो मत्परायणः ॥ ९३॥
यथा भूयो न यात्येव प्रज्ज्वलद्वह्निगं हविः ।
तथा त्यक्त्वा तनुः काश्यां शैवैर्नैवाप्यते पुनः ॥ ९४॥
काशी शैवशरीराणि गृहीत्वा याचितापि सा ।
न ददाति हवींषीव पावकः पुनरुज्ज्वलः ॥ ९५॥
अन्यत्र मुक्तिकामैस्तु न स्थातव्यं कदाचन ।
त्यक्त्वा काशीं शुभां सत्यमुद्धृत्य भुजमुच्यते ॥ ९६॥
मद्भक्त एवाधिकारी मोक्षे (लोके) काश्येव मुक्तिदा ।
मन्नामस्मृतिरेव स्यान्मोक्षसाधनमुत्तमम् ॥ ९७॥
शिवे शिवशिवेत्येतन्नामस्मरणमेव हि ।
कारणं मोक्षरूपस्य फलस्येति मतिर्मम ॥ ९८॥
मत्प्रसादेन सम्प्राप्य काशीं मुक्तिप्रदायिनीम् ।
मद्भक्तो मत्परो नित्यं को वा मुञ्चति चञ्चुरः ॥ ९९॥
पुण्यपुष्पसमाक्रान्तं मोक्षरूपफलावृतम् ।
कः काशीं समुपाश्रित्य पुनरन्यत्र गच्छति ॥ १००॥
यां न भासयितुं दक्षा भानुचन्द्रानलाः शुभे ।
तामिष्टफलदां काशी कस्त्यक्तुं तनुते मतिम् ॥ १०१॥
अमरैरप्यलभ्यां तामनायासेन मुक्तिदाम ।
कःसञ्जहाति विमलः काशीमीशाननायिकाम् ॥ १०२॥
क्षुधितः करगं ग्रासं यथा नैव विमुञ्चति ।
तथा न मुञ्चति प्राज्ञः काशीं मुक्तिप्रदायिनीम ॥ १०३॥
मल्लिङ्गार्चततत्परा हृदि सदा मामेव काश्यां मुदा
ध्यायन्तो मम नाम शङ्कर महादेवाखिलेश प्रभो ।
गौरीनाथ शिवेश्वरेति विमलं भक्त्या जपन्तः परं
सत्यं सत्यमपास्तभोगविषयाः शैवाग्रगण्याः शिवे ॥ १०४॥
॥ इति शिवरहस्यान्तर्गते शिवगौरीसंवादे काशीक्षेत्रमहिमाख्यानं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २ । ६.२-१०४॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 2 . 6.2-104..
Notes:
Śiva शिव describes to Devī देवी the splendor and layout of Kaśī काशी.
Kaśī काशी harbors several ŚivaTīrthaKṣetra शिवतीर्थक्षेत्र that are outlined in ŚivaRahasyam saptāṃśaḥ शिवरहस्यं सप्तांशः.
Proofread by Ruma Dewan