श्रीकाशीक्षेत्रस्थप्रार्थना
(*)
विश्वेश्वर महादेव देवदेव दयानिधे ! ।
दैवाधीनं जडं दीनं पाहि मां शरणागतम् ॥ १॥
अन्नपूर्णे जगन्मातः कृपामृततरङ्गिणि! ।
दैवाधीनं जडं दीनं पाहि मां शरणागतम् ॥ २॥
बिन्दुमाधव विष्णो त्वं करुणावरुणालयः ।
दैवाधीनं जडं दीनं पाहि मां शरणागतम् ॥ ३॥
कालभैरव देव त्वं ममासि कुलदैवतं ।
दैवाधीनं जडं दीनं पाहि मां शरणागतम् ॥ ४॥
त्रिलोचन दयासिन्धो शरणागतवत्सल ! ।
दैवाधीनं जडं दीनं पाहि मां शरणागतम् ॥ ५॥
वीरेश्वर त्रिलोकेशा प्रणतानां सुरद्रुम ।
दैवाधीनं जडं दीनं पाहि मां शरणागतम् ॥ ६॥
श्रीगङ्गे करुणामूर्ते भागीरथि नमोस्तु ते ।
दैवाधीनं जडं दीनं पाहि मां शरणागतम् ॥ ७॥
काशीनिवासिनो देवा भवद्भव्योस्तु नमो नमः ।
कुरुध्वं करुणां दीने मयि स्वशरणागते ॥ ८॥
विश्वेश्वरप्रिये काशि राशिस्त्वं यशसा मुदां ।
दैवाधीनं जडं दीनं पाहि मां शरणागतम् ॥ ९॥
ये वेदशास्त्रतत्वज्ञा विप्राः काशीनिवासिनः ।
धन्याः संन्यासिनः शान्तास्तेभ्यो मेऽस्तु नमो नमः ॥ १०॥
कीर्तयन्ति हरिं प्रेम्णा हरं चाभेददर्शिनः ।
भक्ताः पुण्यकथासक्ता नमस्तेभ्योस्तु सर्वदा ॥ ११॥
भागीरथीस्नाननिष्ठा ये पुमांसः स्त्रियश्च याः ।
तभ्यस्ताभ्यश्च साधुभ्यः साध्वीभ्योस्तु नमो नमः ॥ १२॥
शिवप्रसादभाजस्ते जीवाः काशीनिवासिनः ।
पशवः पक्षिणः सर्वे तेभ्यो नित्यं नमो नमः ॥ १३॥
प्राणिनो ये वसन्त्यत्र अपि कीटाः पिपीलिकाः ।
नमोस्तु तेभ्यो यत्पात्रं महेशानुग्रहस्य ते ॥ १४॥
काश्यां ये जङ्गमाः सन्ति प्राणिनो येऽप्यजङ्गमाः ।
नमोस्तु तेभ्यो मुक्तेभ्यो महेशितुरनुग्रहात् ॥ १५॥
काश्यां वसन्ति ये केचित्पिशाचा ब्रह्मराक्षसाः ।
तेभ्यो नमोस्तु सर्वेभ्यः शवेभ्योऽपि नमो नमः ॥ १६॥
गङ्गायां यानि यादांसि बकाः काकाश्च ये तटे ।
नमोस्तेभ्योऽतिपुण्येभ्यो भेकेभ्योऽस्तु नमो नमः ॥ १७॥
अविमुक्तेश्वरस्वामिन्नहं त्वां शरणं गतः ।
देहि मे मरणं काश्यां वरमन्यं न कामये ॥ १८॥
वक्रतुण्ड गणेशान (१)प्रत्यूहप्रशमाभिध ।
पाहि मां प्रणतं दीनं ब्राह्मणं शरणागतम् ॥ १९॥
वरुणे पाहि मां मातस्त्वमसि प्रतिपालय ।
मन्दाकिनि नमस्तुभ्यं नमस्ते मणिकर्णिके ॥ २०॥
नमामि करुणासिन्धो तुभ्यं साक्षिविनायक ।
मां तारय भवाम्भोधौ प्रणतं शरणागतम् ॥ २१॥
इति श्रीरामनन्दनमयूरेश्वरकृता श्रीकाशीक्षेत्रस्थप्रार्थना समाप्ता ।
टिप्पणि
* अस्यां प्रार्थनायां काशीक्षेत्रस्थाभ्यः सर्वाभ्यो देवताभ्यः
प्रणामक्रियाव्याजेन तत्रस्था देवताः कविना क्रमेण वर्णिता
इत्यवगन्तव्यं सहृदयैः । १। प्रत्यूहाः विघ्नास्तेषां प्रशमः
अभिधा यस्य तत्सम्बुद्धौ । विघ्नहर्तः इत्यर्थः ।
Proofread by Rajesh Thyagarajan