काशीमाहात्म्ये ज्ञानवापीप्रशंसाकथनम्

काशीमाहात्म्ये ज्ञानवापीप्रशंसाकथनम्

- शिवपार्वतीसंवादे - श्रीपार्वत्युवाच - शिव कल्याणद श्रीमन् सर्वज्ञामितविक्रम । ज्ञानवापीति संज्ञेयमस्याः कथमभूद्वद ॥ १॥ श्रीशिव उवाच - त्रिशूलाग्रेण सुभगे सा वापि खनिता पुरा । आपातालं जलं तत्र तिष्ठत्यतिमनोहरम् ॥ २॥ काश्मीरमणिभिः शुभ्रैः पुष्परागैर्मनोहरैः । रत्नैरन्यैश्च विविधैर्बद्धा सा तदनन्तरम् ॥ ३॥ तत्राद्भुतं समभवद्धेमपद्मं वरानने । विचित्रगन्धसम्बद्धं शतयोजनमायतम् ॥ ४॥ सहस्रदलसंसक्तं केसरागरुरञ्जितम् । तत्सुगन्धेन निर्गन्धं सुगन्धमभवज्जलम् ॥ ५॥ तत्प्रान्तकल्पतरवस्तत्सुगन्धसमन्विताः । स्वतः सुगन्धा इव ते भान्ति नित्यं वरानने ॥ ६॥ तत्पद्ममकरन्देन संयुतं राजते जलम् । तत्तिरस्कृतपीयूषं सुराणामपि दुर्लभम् ॥ ७॥ सदा विकासमापन्नं सदा प्रेक्ष्यमनुत्तमम् । कदाचिदपि तन्मलानं न भवत्येव सर्वदा ॥ ८॥ कनत्कनकनालाढ्यं तद्धेमकमलं शुभम् । हेमच्छत्रमिवाभाति काश्याः कमललोचने ॥ ९॥ तत्कर्णिकामध्यदेशे सुन्दरे मृदुले सदा । कदाचिल्लीलया सम्यगुविश्य वसाम्यम् ॥ १०॥ संविष्टस्तत्र (ष्टं तन्त्र) मामेका कदाचिद्ववर्णिनी । स्तुत्वा तु बहुधा स्तोत्रैः सम्पूज्य विधिपूर्वकम् ॥ ११॥ कृताञ्जलिपुटा तस्थौ पीनवक्षोजभासुरा । विद्युल्लतेव विमला कमलामललोचना ॥ १२॥ ततो मयैव सा पृष्टा कासि त्वमसि (मिति) सा ततः । उवाच वचनं चारु सर्वलोकहितावहम् ॥ १३॥ शङ्कराहमिह स्वामिन्नेतत्तीर्थाधिदेवता । मत्प्रार्थितं वरं देहि वरदानविचक्षण ॥ १४॥ इदं जलं महादेव शैवो यः पातुमिच्छति । तस्य त्वचञ्चला भक्तिस्त्वयि तत्त्वमतिस्तथा ॥ १५॥ ज्ञानवापीति मन्नाम प्रसिद्धं भवतु प्रभो । सर्वपापक्षयकरं जलं भवतु सर्वदा ॥ १६॥ इति सम्प्रार्थ्यं (र्थितं) तत्सम्यक् तथा लेकेष्टसिद्धये । तद्याचितं वरं दत्वा तामाश्वास्य पुनः पुनः ॥ १७॥ मया तत्रैव सततं स्थीयते वरवर्णनि । रोचते वसतिस्तत्र कमले गन्धसंवृते ॥ १८॥ तादृशं तीर्थममलं सर्वलोकेषु दुर्लभम् । स्नानं कृत्वा प्रयत्नेन द्वादशीसोमवासरे ॥ १९॥ तत्र देवानृषीन्सम्यक् तर्पयित्वा पितॄनपि । तज्जलैः स्वादुभिः सम्यग्ज्ञानेशमभिषिच्य च ॥ २०॥ गन्धपुष्पक्षताद्यैश्च पूजयित्वा यथाविधि । प्रदक्षिणनमस्कारैराराध्य तदनुज्ञया ॥ २१॥ मुक्त्यर्थं त्रिः पिबेत्सम्यग्ज्ञानेशस्नापनोदकम् । तत्तोयपानमात्रेण शुद्धो भवति मानवः ॥ २२॥ ततस्तद्धृदये शुद्धे जायते लिङ्गमुत्तमम् । अत एव हि तत्तीर्थं तीर्थोत्तममिति श्रुतम् ॥ २३॥ तत्तीर्थराजरक्षार्थं दण्डपाणिर्बलोन्नतः । मया संस्थापितः शक्तस्तत्तीरे विमले शुभे ॥ २४॥ विना तदाज्ञया लोके येन केनापि वा शुभे । स्प्रष्टुं न शक्यते नूनं तत्तीर्थं मुक्तिसाधनम् ॥ २५॥ पुरा ब्रह्मादिभिः साकं विष्णुः काशीदिदृक्षया । समाययौ ततो दृष्ट्वा दूरात्काशीं मनोहराम् ॥ २६॥ प्रणम्य दण्डवद्भूमौ भूयोभूयः कृताञ्जलिः । अवाप परमानन्दं दृष्टा काशीति सादरम् ॥ २७॥ इदमक्षियुगं धन्यं पुण्डरीकनिभं शुभम् । येन (यतः) शिवस्वरूपेयं काशी दृटा मयाऽधुना ॥ २८॥ रत्नपङ्कजसङ्काशाविमो धन्यौ करौ मम । येन (याभ्यां) काशी मया पूज्या महेशस्यापरा तनूः ॥ २९॥ इदं धन्यं शरीरं मे येन काशी शिवात्मिका । आलिङ्गनीया यत्नेन सर्वपापापनोदिनी ॥ ३०॥ धन्योऽस्म्यहं पुनीतोऽस्मि (सुपूतोऽस्मि) भाग्यवानस्मि सर्वदा । यतः शिवस्वरूपेयं काशी सम्प्रापिता मया ॥ ३१॥ मदन्यो भाग्यवांल्लोके नास्ति नास्त्येव सर्वथा । यतो मोक्षप्रदा दिव्या काशी सम्प्रापिता मया ॥ ३२॥ कृतार्थोऽस्मि कृतार्थोऽस्मि कृतार्थोऽस्मि न संशयः । यतः साम्बमयी काशी प्राप्यते पुण्यसंश्रयात् ॥ ३३॥ महद्भाग्यं महद्भाग्यं महद्भाग्यं मया धुना । यतो मया शिवाकारा काशी सम्प्राप्यते शिवा ॥ ३४॥ सकृत्काशीति नामैव स्मृत्वा पातकिनः पुरा । शिवसारूप्यमापन्नाः सा काशी दृश्यते मया ॥ ३५॥ यस्यां सर्वेश्वरः शम्भुः साम्बः संसारमोचकः । वसन्ति (वसतिं) सर्वदा चक्रे सा काशी दृश्यते मया ॥ ३६॥ यस्यां वैश्वेश्वरं ज्योतिर्लिङ्गरूपं सनातनम् । निवसत्यनिशं श्रेष्ठं सा काशी दृश्यते मया ॥ ३७॥ यस्यामम्बासमेतः सन् दिव्यरूपधरः शिवः । करोति लीलामनिशं सा काशी दृश्यते मया ॥ ३८॥ यस्यां ज्ञानप्रदा नित्यं ज्ञानवापी मनोहरा । तिष्ठत्यमलकल्लोला सा काशी दृश्यते मया ॥ ३९॥ यस्यां पूर्णेन्दुवदना परमान्नप्रदायिनी । अन्नपूर्णा स्थितिं चक्रे सा काशी दृश्यते मया ॥ ४०॥ यस्यां तिष्ठति ढुण्ढीशः सर्वेष्टफलदायकः । सर्वविघ्नहरो नित्यं सा काशी दृश्यते मया ॥ ४१॥ यस्यां शिवरतो नित्यं दण्डपाणिः शिवप्रियः । तिष्ठत्यतीव सन्तुष्टः सा काशी दृश्यते मया ॥ ४२॥ यस्यां सर्वेश्वरः श्रीमान् करुणानिधिरव्ययः । चकार वसतिं नित्यं सा काशी दृश्यते मया ॥ ४३॥ यस्यां तिष्ठति वेदेड्यः सदा पशुपतीश्वरः । पशुपाशविमोक्षाय सा काशी दृश्यते मया ॥ ४४॥ यस्यां तिष्ठति सर्वेषां शास्ता श्रीकालभैरवः । भक्तकल्पतरुः श्रीमान् सा काशी दृश्यते मया ॥ ४५॥ यस्यामन्तर्गृहं नाम क्षेत्रं शिवमयं शिवम् । तिष्ठति श्रीकरावासं सा काशी दृश्यते मया ॥ ४६॥ यस्यामस्ति विशालाक्षी शिवस्यार्धाङ्गभागिनी । भक्ताभीष्टप्रदा नित्यं सा काशी दृश्यते मया ॥ ४७॥ यस्यां त्यक्ततनुर्मर्त्यः शैवः शिवपरायणः । शिवाकारमवाप्नोति सा काशी दृश्यते मया ॥ ४८॥ यस्यां मोक्षार्थिनः शैवाः निराहाराः शिवार्चकाः । निवसन्त्यनिशं शुद्धाः सा काशी दृश्यते मया ॥ ४९॥ यस्यां प्रात्यहिकं कर्म कृत्वा तिष्ठन्ति सादरम् । पापलेशविहीनाश्च सा काशी दृश्यते मया ॥ ५०॥ यस्याः प्रभावं वेदाश्च न जानन्त्येव सर्वथा । किमन्यानि पुराणानि सा काशी दृश्यते मया ॥ ५१॥ यया तुलयितुं वस्तु नास्ति ब्रह्माण्डगोलके । सर्वार्तिनाशिनी धन्या सा काशी दृश्यते मया ॥ ५२॥ एवं वदंस्तदा विष्णुः काशीनिकटमादरात् । ततश्चक्रे प्रणामानि (?) दण्डवत्स पुनः पुनः ॥ ५३॥ ततो नानाविधैः पुष्पैदिव्यरत्नैर्मनोहरैः । नानाविधोपचारैश्च काशीपूजां चकार सः ॥ ५४॥ ततो नानाविधान् क्रूरान्काशीसंरक्षणा (का)न् गणान् । सम्पूज्य तदनुज्ञातः काशीमाविशम(द)म्बिके ॥ ५५॥ ततः स शिवगङ्गायां यथाशास्त्रं यथाक्रमम् । स्नानं कृत्वा प्रयत्नेन चकारोद्धलनं ततः ॥ ५६॥ त्रिपुण्ड्रधारणं कृत्वा मन्त्रपूतेन भस्मना । रुद्राक्षधारणं चक्रे सर्वपातकनाशनम् ॥ ५७॥ आग्नीध्रेश्वरमासाद्य पूजाद्रव्येण सादरम् । सम्पूज्य नत्वा विविधैः स्तोत्रं स्तुत्वा सदाशिवम् ॥ ५८॥ ततस्तदाज्ञया विष्णुर्वक्रतुण्डमुपागतः । तत्र स्नात्वा विधानेन वक्रतुण्डं विनायकम् ॥ ५९॥ सम्यगाराध्य विधिवत्पुनःसादरपूर्वकम् । समभ्यर्च्यातियत्नेन कालभैरवमागतः ॥ ६०॥ कालकुण्डे यथाशात्रं स्नात्वा विष्णुस्ततः परम् । क्षीराज्यमधुभिः सम्यगभिषिच्य च भैरवम् ॥ ६१॥ दिव्यमन्दारपुष्पौघैरुपहारैश्च शोभनैः । प्रसाद्य भैरवं देवं प्रणम्य च तदाज्ञया ॥ ६२॥ तत्प्रान्तदिव्यलिङ्गानि पूजयामास सादरम् । पापभक्षेश्वरं चैव सम्पूज्य तदनन्तरम् ॥ ६३॥ ततः सन्तोषमाश्रित्य (मापन्नो) वीरेशं समुपागतः । तत्र वीरेशकुण्डेऽपि पुनः स्नात्वा विशेषतः ॥ ६४॥ ततो ददर्श वीरेशं भक्तवत्सलमव्ययम् । दृष्ट्वा प्रणम्य बहुधा पूजां चक्रे स सादरम् ॥ ६५॥ ततस्तदाज्ञां सम्प्राप्य ययौ पशुपतीश्वरम् । तत्र पाशुपतं कुण्डं विलोक्यातिमनोहरम् ॥ ६६॥ स्नानं चक्रे विधानेन नत्वा पशुपतीश्वरम् । चक्रे पूजां विधानेन पूजाद्रव्याणि(व्येण) सादरम् ॥ ६७॥ ततस्तदाज्ञया तुष्टो दण्डपाणिमुपागतः । दण्डपाणिं समभ्यर्च्य प्रसाद्य तदनुज्ञया ॥ ६८॥ ज्ञानवापीं प्रणम्याग्रं सम्पूज्य च यथोचितम् । स्नानं चक्रे ततः सम्यग्विधिपूर्वकमादरात् ॥ ६९॥ ततो ज्ञानेशमभ्यर्च्य नत्वा पञ्चविनायकान् । ढुण्ढिराजार्चनं चक्रे स विष्णुर्विधिपूर्वकम् ॥ ७०॥ ततः स तदनुज्ञातो मुक्तिमण्डपमाययौ । ततो नन्दीशमभ्यर्च्य द्वारपालानपि क्रमात् ॥ ७१॥ चकार मदनुज्ञातो ममाराधनमादरात् । आदौ पञ्चामृतैः सम्यगभिषिच्य यथाविधि ॥ ७२॥ कामधेनुप्रसादेन सम्प्राप्तैरमलैर्नरैः(र्घटैः) । तीर्थोदकं समाहृत्य स्वयमेव जनार्दनः ॥ ७३॥ अभिषेकं ततश्चक्रे रुद्रसूक्तेन सादरम् । ततः परिमलैत्द्रव्यैरभिपूज्य यथाविधि ॥ ७४॥ अनर्घ्यरत्नैरकरोत्पूजां तदनु सादरम् । नवैः स्वोपहृतैः शुद्धैर्बिल्वपत्रर्मनोहरैः ॥ ७५॥ मन्दारपुष्पैरमलैरन्यैश्च कुसुमैर्नवैः । विचित्ररत्नमालाभिः सुवर्णाभरणैरपि ॥ ७६॥ भक्त्या सम्पूजयामास विष्णुः श्रद्धासमन्वितः । ततो मनोहरैर्दिव्यैर्नैवेद्यैरतिशोभनैः ॥ ७७॥ धूपदीपादिभिश्चापि तोषयामास मां शुभम् । ततः प्रदक्षिणादीनि कृत्वा नत्वा यथाविधि ॥ ७८॥ स्तोत्रैश्च विविधैः स्तुत्वा चकारान्तर्गृहादिकम् । एवं वर्षायुतं विष्णुर्नित्यं यात्रापरायणः ॥ ७९॥ उपास्य काश्यां सन्तुष्टः श‍ृण्वन्शिवकथाः शुभाः । शिवैकशरणो नित्यं स्थिरलिङ्गार्चने रतः ॥ ८०॥ गन्तुकामस्ततो विष्णुः कदाचिदिदमब्रवीत् । ज्ञानवापीतटे रम्ये तपः कृत्वा यथाविधि ॥ ८१॥ गमिष्ये यत्र कुत्रापि शिवेन प्रेरितस्ततः । त्यक्तेदानीमियं काशी दुःखं दास्यत्यसंशयम् ॥ ८२॥ अनन्तजन्मतपसा सम्प्राप्ता शिवरूपिणी । इत्युक्त्वा तदनु प्रीत्या ज्ञानवापीतटे शुभे ॥ ८३॥ ॥ इति शिवरहस्यान्तर्गते ज्ञानवापीप्रशंसाकथनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः ६ । १-८३॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 6 . 1-83.. Notes: Śiva शिव describes to Pārvatī पार्वती about the visit paid by Viṣṇu विष्णु to Viśveśvara Jyotirliṅga विश्वेश्वर ज्योतिर्लिङ्ग, Jñānavāpī ज्ञानवापी and Kaśī काशी; where, He spends time in worshiping Śiva शिव at the Viśveśvara Jyotirliṅga विश्वेश्वर ज्योतिर्लिङ्ग and performing austerities at Jñānavāpī ज्ञानवापी. Kaśī काशी harbors several ŚivaTīrthaKṣetra शिवतीर्थक्षेत्र that are outlined in ŚivaRahasyam saptāṃśaḥ शिवरहस्यं सप्तांशः. Proofread by Ruma Dewan
% Text title            : Kashimahatmye Jnanavapiprashamsakathanam
% File name             : kAshImAhAtmyejnAnavApIprashaMsAkathanam.itx
% itxtitle              : jnAnavApIprashaMsAkathanam kAshImAhAtmye (shivarahasyAntargatam)
% engtitle              : kAshImAhAtmyejnAnavApIprashaMsAkathanam
% Category              : shiva, shivarahasya, tIrthakShetra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 6 | 1-83||
% Indexextra            : (Scan)
% Latest update         : March 8, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org