काशीस्थितान् शिवतीर्थक्षेत्रमाहात्म्यम् २

काशीस्थितान् शिवतीर्थक्षेत्रमाहात्म्यम् २

- शिवपार्वतीसंवादे - काश्य मन्यन्महत्स्थानं केदाराभिधमुत्तमम् । तत्रापि लिङ्गमस्त्येकं केदारेश्वरनामकम् ॥ १॥ कुण्डमस्न्येकममलं तत्रैव विमलोदकम् । सत्र स्नात्वा विधानेन केदारेशं प्रपूजयेत् ॥ २॥ तत्रापि मुनयो भक्त्या कृत्वा मल्लिङ्गपूजनम । तिष्ठन्ति कोटिशः शुद्धास्तपोध्यानपरायणाः ॥ ३॥ तत्कुण्डस्नानमनिशं कर्तव्यं प्रीतिपूर्वकम् । तिलैस्तु पितरो नित्यं तर्पणीयाः प्रयत्नतः ॥ ४॥ तत्कुण्डकुहरान्नित्यं सोत्साहं नागकन्यकाः । मत्प्रियार्थं समायान्ति नानाभरणभूषिताः ॥ ५॥ सहस्रजिह्वः शेषोऽपि प्रत्यहं भक्तिपूर्वकम् । सबन्धुस्तेन मार्गेण समायाति मदर्चकः ॥ ६॥ कार्कोटकोऽपि तेनैव मार्गेणायाति सादरम् । अन्येऽपि बहवो नागाः समायान्त्यनिशं मुदा ॥ ७॥ तत्कुण्डद्वारि सततं तीक्ष्णशूलासिपाणयः । साष्टकोटगणाधीशास्तिष्ठन्ति क्रूरविक्रमाः ॥ ८॥ तानग्रे पूर्जायत्वैव प्रसाद्य तदनन्तरम् । नागलोकात्समायान्ति सर्वे शेषादयः सदा ॥ ९॥ मामभ्यर्च्य यथाशास्त्रं कृत्वा चान्तर्गृहादिकम् । कुर्वन्ति कालनाथस्य पूजनं भक्तिपूर्वकम् ॥ १०॥ नृत्यन्ति नाट्यनिपुणास्सर्वास्ता नागकन्यकाः । कुर्वन्ति नागममलं नागशास्त्रानुरोधतः ॥ ११॥ नागचम्पकपुन्नागरत्नबिल्वादिमाधवैः । मामभ्यर्च्य पुनर्यान्ति पुनरायान्ति यान्ति च ॥ १२॥ तस्य केदारनाथस्य श्रावणे सोमवासरे । पूजा कार्या विशेषेण साधनैर्विविधैः शुभैः ॥ १३॥ सोमवारव्रतं कार्यं प्रयत्नेन यथाविधि । शक्तेनोपोषणं कार्यमन्यथा निशि भोजनम् ॥ १४॥ तस्य दक्षिणदिग्भागे तिष्ठत्यर्कविनायकः । तस्मिन्नेव दिने सोऽपि पूजनीयः प्रयत्नतः ॥ १५॥ सर्वविघ्ननिवृत्त्यर्थं पूर्वमर्केण सादरम् । तपस्तप्तं महद्घोरमेकपादेन सादरम् ॥ १६॥ अर्केणैव कृतं कुण्डमेकं तिष्ठति निर्मलम् । तत्तु रत्नौघखचितसोपानैस्तेन निर्मितम् ॥ १७॥ लोलार्केशाभिधं लिङ्गं तत्रास्ति सकलार्थदम् । तत्पूजा विधिवत्कार्या भानुषष्ठि (?) दिने शुभे ॥ १८॥ तत्प्रान्ते सन्ति लिङ्गानि सर्वाभीष्टप्रदानि च । तेषामपि यथायोग्यं पूजा कार्या प्रयत्नतः ॥ १९॥ सिद्धेश्वराभिषं लिङ्गं काश्यां तिष्ठति कामदम् । तत्र पूजा विधानेन कर्तव्या प्रत्यहं जनैः ॥ २०॥ तत्रैव पूज्याविमला तिष्ठत्यमललोचने । सर्वदुर्गहरा नित्यं स्वभक्ताभयदायिनी ॥ २१॥ अश्विनी शुक्लपक्ष(आश्वयुक्च्छुक्लपक्ष)प्रतिपत्प्रभृति प्रिये । नवमीदिनपर्यन्तं पूजा कार्या प्रयत्नतः ॥ २२॥ सा सर्वातिहरा देवि नित्यं काशीनिवासिनाम् । पूजिता भक्तवरदा भवत्येव न संशयः ॥ २३॥ अत्रैवामृतकुण्डाख्यं तीर्थमस्त्येकमुत्तमम् । तत्र स्नानेन दुःखानि न भविष्यन्ति सर्वथा ॥ २४॥ कामाक्षीस्थानमनघमेकमस्ति वरानने । तत्र कुण्डमभूद्दिव्यं तज्जलं चामृतोपमम् ॥ २५॥ तत्रापि श्रावणे मासे प्रत्यहं विधिवज्जनैः । पूजा कार्या विधानेन सर्वथा भौमवासरे ॥ २६॥ तत्रापि शिवलिङ्गानि सन्ति कोट्यवधि प्रिये । कुण्डान्यपि मनोज्ञानि निर्मलानि भवन्ति हि ॥ २७॥ तान्यपि श्रद्ध्या नित्यं पूजनीयानि यत्नतः । निर्मलेषु च कुण्डेषु स्नानं कार्यं यथाविधि ॥ २८॥ आदिढुण्ढीश्वरो नाम गणेशस्तिष्ठति प्रिये । सर्वविघ्नहरो नित्यं सर्वाभीष्टप्रदायकः ॥ २९॥ प्रतिशुक्लचतुर्थ्यां तु सदूर्वालड्डुकादिभिः । पूजनीयः प्रयत्नेन काशी वासेप्सुभिर्नरैः ॥ ३०॥ कालेश्वराभिधं लिङ्गमेकमस्ति वरानने । तत्पूजा सर्वथा कार्या प्रत्यहं विधिवज्जनैः ॥ ३१॥ गोकर्णाभिधमस्त्येकं लिङ्गं पापौघनाशनम् । तत्रापि कुण्डमस्त्येकं तत्र स्नानमघापहम् ॥ ३२॥ शिवरात्रिदिने तत्र स्नानं कार्यं प्रयत्नतः । तल्लिङ्गपूजनं चापि कर्तव्यं तद्दिने शुभे ॥ ३३॥ दिव्यलिङ्गान्यनन्तानि काश्यां तिष्ठन्ति सर्वथा । तेषां प्रभावः केनापि वक्तुमेव न शक्यते ॥ ३४॥ अग्रेऽपि मुनिभिर्दिव्यैर्भौंमैश्च कमलानने । स्थापनीयानि लिङ्गानि काश्यामन्यैरपि ध्रुवम् ॥ ३५॥ कुण्डान्यपि च कार्याणि तैरेव मुनिसत्तमैः । तपश्चर्यां करिष्यन्ति तथैवात्र सदा शुभे ॥ ३६॥ ॥ इति शिवरहस्यान्तर्गते काशीस्थितान् शिवतीर्थक्षेत्रमाहात्म्यं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः १२ । १-३६॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 12 . 1-36.. Notes: Śiva शिव describes to Pārvatī पार्वती, several ŚivaTīrthaKṣetra शिवतीर्थक्षेत्र located in Kaśī काशी and the key tithi-s तिथि with regards to the observations at these Kṣetra तीर्थक्षेत्र. These include - Kedāra ŚivaTīrthaKṣetra केदार शिवतीर्थक्षेत्र; that has Kedāreśvara Ṣivaliṅga केदारेश्वर शिवलिङ्ग and Kedārakuṇḍa केदारकुण्ड, where Pitṛtarpaṇa पितृतर्पण with Tila तिल can be performed. Several nāga-s नागाः (Śeṣa शेष, Kārkoṭaka कार्कोटक et al) worship Śiva शिव at this place, and the Kedārakuṇḍa केदारकुण्ड is especially guarded by the fierce Aṣṭakoṭa Gaṇādhīśa अष्टकोट गणाधीश. Worship is observed especially on Śrāvaṇa Somavāra श्रावण सोमवार. Lolārkeśa Śivaliṇga लोलार्केश शिवलिङ्ग is worshiped by Arkavināyaka अर्कविनायक, who also established the Arkakuṇḍa अर्ककुण्ड nearby. Worship can be conducted there especially on Bhānu Ṣaṣṭhī भानु षष्ठी. Siddheśvara Śivaliṇga सिद्धेश्वर शिवलिङ्ग here has an Amṛtakuṇḍa अमृतकुण्ड nearby, and the devotees here are blessed by the Devī देवी. Worship here is to be conducted especially from Āśvin Śukla Pratipadā आश्विन् शुक्ल प्रतिपदा to Navamī नवमी. Kāmākṣīsthāna कामाक्षीस्थान and associated Kuṇḍa कुण्ड have several Ṣivaliṅga शिवलिङ्ग and worship is to be conducted here during the entire Śrāvaṇa māsa श्रावण मास, Bhaumavāsara भौमवासरः (Tuesday). Ādiḍhuṇḍhīśvara Gaṇeśa आदिढुण्ढीश्वर गणेश there is worshipped on every Śukla Caturthī शुक्ल चतुर्थी. Kāleśvara Śivaliṇga कालेश्वर शिवलिङ्ग is worshipped daily. Gokarṇa ŚivaTīrthaKṣetra गोकर्ण शिवतीर्थक्षेत्र has a Kuṇḍa कुण्ड, where bathing and worship should be performed especially on Ṣivarātri शिवरात्रि. Kaśī काशी harbors several DivyaṢivaliṅga दिव्यशिवलिङ्ग and ŚivaTīrthaKṣetra शिवतीर्थक्षेत्र that are outlined in ŚivaRahasyam saptāṃśaḥ शिवरहस्यं सप्तांशः. Proofread by Ruma Dewan
% Text title            : Kashisthitan Shivatirthakshetramahatmyam 2
% File name             : kAshIsthitAnshivatIrthakShetramAhAtmyam2.itx
% itxtitle              : shivatIrthakShetramAhAtmyam 2 (kAshIsthitAn shivarahasyAntargatam)
% engtitle              : kAshIsthitAn shivatIrthakShetramAhAtmyam 2
% Category              : shiva, shivarahasya, tIrthakShetra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 12 | 1-36||
% Indexextra            : (Scan)
% Latest update         : March 8, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org