काशीस्थितं सोमेश्वरक्षेत्रमाहात्म्यम्

काशीस्थितं सोमेश्वरक्षेत्रमाहात्म्यम्

- शिवपार्वतीसंवादे - गण्डकी नाम विमला नदी यत्र मनोहरा ॥ ५१७॥ तत्र सोमेश्वरं नाम क्षेत्रमस्त्येकमुत्तमम् । तत्रैव शिवनामाख्याः शिलाः सन्ति शिवात्मिकाः ॥ ५१८॥ तत्पूजया महादेवः स साक्षात्पूजितो भवेत् । उन्मत्तमहिषाक्षाख्याः शिलाः सन्ति शिवात्मिकाः ॥ ५१९॥ तास्तु यत्नेन लब्धव्याः साक्षान्मोक्षप्रदायिकाः । तत्रैव शिवकुण्डाख्यमेकमस्ति शिवालयम् ॥ ५२०॥ तत्रैव शिवरूपास्ताः शिलाः सन्त्यमिताः शुभाः । कपिलं तच्छिलामूलं पार्श्वे श्यामैव सा शिला ॥ ५२१॥ उपर्युन्मत्तमहिषनेत्रसन्निभमुत्कटम् । शैवेषदरुणा भव्या (?) लिङ्गदेशे मनोहरे ॥ ५२२॥ तत्र शङ्करसान्निध्यं भवान्याश्च सदा ध्रुवम् । तादृशी यत्नतः साध्या शिला शङ्करसंश्रया ॥ ५२३॥ तत्रार्चितो महादेवः प्रीतो भवति सर्वथा । तत्राल्पापि कृता पूजा श्रद्धया तु शिवार्चकैः ॥ ५२४॥ सर्वपापहरा भव्या सैवाऽऽनन्त्याय कल्पते । शुद्धेन भस्मना नित्यं नवबिल्वदलैरपि ॥ ५२५॥ पूजा कार्या प्रयत्नेन तत्र शैवैः शिवार्चकैः । सा शिला शिवनामाख्या इति वेदैश्च गीयते ॥ ५२६॥ तदेव विमलं लिङ्गं मया सम्पूज्यते सदा । यस्त्वेतल्लिङ्गपूजायां प्रयतोऽत्र वसेन्नरः ॥ ५२७॥ न तस्य यातना घोरा भैरवी सा भविष्यति । काश्मीरलिङ्गप्रमुखान्यनेकान्यमलानि च ॥ ५२८॥ सन्ति तान्यपि पूज्यानि मुक्तिकामो यथोचितम् । ममत्वत्रैव सततं प्रीतिस्तिष्ठत्यनामया ॥ ५२९॥ मयैतदेव विमलं पूज्यते लिङ्गमुत्तमम् । ईदृशं दुर्लभं लोके लिङ्गं मोक्षप्रदायकम् ॥ ५३०॥ मयाप्येतत्प्रयत्नेन लब्धं लिङ्गमिदं पुरा । ईदृशं प्राप्यते लोके केनचितपसो बलात् ॥ ५३१॥ ईदृशानि तु लिङ्गानि दुर्लभान्येव सर्वथा । एतल्लिङ्गस्य पूजायामधिकारी जितेन्द्रियः ॥ ५३२॥ शिवैकशरणः शैवस्तदन्यो नैव सर्वथा । अत्राभिषेकः कर्तव्यो रुद्रसूक्तैरघापहैः ॥ ५३३॥ बिल्वपत्रैर्नवैः शुद्धैः पूजा कार्या प्रयत्नतः । धूपदीपादिकं सर्वं शक्त्या कार्यं प्रयत्नतः ॥ ५३४॥ पूजान्ते जपनीयोऽयं शैवः पञ्चाक्षरः सदा । ईदृशं लिङ्गमभ्यर्च्य यत्र तिष्ठति शाङ्करः ॥ ५३५॥ तत्र विश्वेश्वरो नित्यं नृत्यत्यम्बासमन्वितः । ॥ इति शिवरहस्यान्तर्गते विष्णुप्रोक्तं शिवमन्त्रमहिमावर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः ११ । ५१७.२-५३५.१॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 11 . 517.2-535.1.. Notes: Śiva शिव describes to Pārvatī पार्वती, about the Someśvara ŚivaTīrthaKṣetra सोमेश्वर शिवतीर्थक्षेत्र that has Someśvara kuṇḍa सोमेश्वर कुण्ड in Kaśī काशी. He explains about the merits of worshiping the several Śilā-s शिलाः including Śivaśilā शिवशिला, Unmattamahiṣaśilā उन्मत्तमहिषशिला etc. located there. Kaśī काशी harbors several ŚivaTīrthaKṣetra शिवतीर्थक्षेत्र that are outlined in ŚivaRahasyam saptāṃśaḥ शिवरहस्यं सप्तांशः. Proofread by Ruma Dewan
% Text title            : Kashisthitam Someshvarakshetramahatmyam
% File name             : kAshIsthitaMsomeshvarakShetramAhAtmyam.itx
% itxtitle              : someshvarakShetramAhAtmyam (kAshIsthitaM shivarahasyAntargatam)
% engtitle              : kAshIsthitaM someshvarakShetramAhAtmyam
% Category              : shiva, raksha, shivarahasya, tIrthakShetra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 11 | 517.2-535.1||
% Indexextra            : (Scan)
% Latest update         : March 8, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org