काशीयात्राविध्युपदेशम्

काशीयात्राविध्युपदेशम्

- शिवपार्वतीसंवादे - काशी यात्राविधिं वक्ष्ये श‍ृणुसादरमम्बिके । नियमा बहवः सन्ति काशीयात्रारतात्मनाम् ॥ ९९॥ ततस्त्वयं समुच्चार्यो मन्त्रः सर्वार्थसाधकः । पूजयित्वा विशेषेण लिङ्गरूपिणमीश्वरम् ॥ १०९॥ शिव गौरीपते श्रीमन् भक्तवत्सल शङ्कर । काशीयात्रां करिष्येऽहं निर्विघ्नं कुरु सर्वदा ॥ ११०॥ अथ गणेश मन्त्रः विघ्नेश भक्तवरद विघ्नराज गणाधिप । काशीयात्रां करिष्येऽहं निर्विघ्नं कुरुसर्वदा ॥ १११॥ अथ भैरव मन्त्रः कालभैरव सर्वात्मन् कालनाशकर प्रभो । काशीयात्रां करिष्येऽहं निर्विघ्नं कुरु सर्वदा ॥ ११२॥ अथ दुर्गा मन्त्रः जय दुर्गे जगद्वन्द्ये जय दुर्गे शिवप्रिये । काशीयात्रां करिष्येऽयं निर्विघ्नं कुरु सर्वदा ॥ ११३॥ ततो मां वृषभारूढं दिव्यमङ्गलविग्रहम् । मुक्तादामपरीताङ्गं मङ्गलप्रदमुत्तमम् ॥ ११४॥ गौरीभूषितवामाङ्गमभयप्रदसत्तमम् । ध्यात्वा सम्यक्ततो गच्छेदन्यग्रामं शुभे दिने ॥ ११५॥ निराहारेण निर्गच्छेन्मौनव्रतपरायणः । अगृहीत्वोपानह्रादीन्कीटानस्पृश्य भूगतान् ॥ ११६॥ शिव गौरीपते श्रीमन् विश्वनाथ सदाशिव । कल्याणदेति सततं स्मरन् मन्त्रमिमं जपन् ॥ ११७॥ रुद्राध्यायस्यचावृत्तिः कर्तव्या विधिपूर्वकम् । ततो रुद्राक्षभस्मादि धृत्वा गच्छेद्यथाविधि ॥ १३६॥ एवं प्रयत्नतो नित्यं गन्तव्यं विधिपूर्वकम् । यात्राफलेप्सुभिर्मर्त्यैः शैवः शिवपरायणः ॥ १३७॥ कालत्रयेऽपि कर्तव्यं शिवलिङ्गस्य पूजनम् । मध्याह्ने शिवतुष्ट्यर्थं भोजनीयाः शिवार्चकाः ॥ १३८॥ ततः शिवकथाः श्राव्याः श्रोतव्याः पापनाशिकाः । आसायमतियत्नेन ततः सन्ध्याशिवार्चनम् ॥ १३९॥ एवं यात्रारतैः शैवैर्मद्भक्तैस्तु पदे पदे । अश्वमेधफलं पूर्णं प्राप्यते नात्र संशयः ॥ १४०॥ यथा यात्रापरं शैवं दृष्ट्वा तत्पितरः प्रिये । अत्यन्तं मोदमानास्ते नृत्यं कुर्वन्ति यत्नतः ॥ १४१॥ नरके पतितानस्मानुद्धरिष्य त्ययं सुतः । काश्यां श्राद्धं विशेषेण करिष्यति न संशयः ॥ १४२॥ ज्ञानवापीजलं रम्यं धृवकृतामृतमुत्तमम् । दास्यत्यस्मभ्यममलमयं नास्त्यत्र संशयः ॥ १४३॥ ज्ञानवापीतटे रम्ये सोऽयमस्मभ्यमोदरात् । श्राद्धं कृत्वा विधानेन पिण्डदानं करिष्यति ॥ १४४॥ स्नात्वाऽयं शिवगङ्गायां वंशोद्धारकरः सुतः । श्राद्धं कृत्वा विधानेन पिण्डदानं करिष्यति ॥ १४५॥ अयं कार्कोटके कुण्डे विषदुःखविनाशके । स्नात्वा श्राद्धं पिण्डदानं करिष्यति न संशयः ॥ १४६॥ श्रीमदोङ्करकुण्डेऽपि स्नात्वा श्राद्धं करिष्यति । पिण्डदानमयं कृष्णतिलैः सार्धं करिष्यति ॥ १४७॥ केदारकुण्डे विमले पिण्डदानं करिष्यति । जलं कृष्णतिलैः सार्धं बहुदास्यत्यसंशयम् ॥ १४८॥ पद्भ्यां वा यज्जलं स्पृष्ट्वा काशीस्थमघनाशनम् । दास्यत्यक्षय्यममलं दुःखं त्याज्यं ततः परम् ॥ १४९॥ ॥ इति शिवरहस्यान्तर्गते काशीयात्राविध्युपदेशं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः १२ । वावृत्तश्लोकाः ॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 12 . vAvRRittashlokAH .. Notes: Śiva शिव details to Pārvatī पार्वती about the do's and don't's of Kaśīyātrā काशीयात्रा. Some Śloka-s are collated here for this webpage. Kaśī काशी harbors several TīrthaKṣetra तीर्थक्षेत्र that are outlined in ŚivaRahasyam saptāṃśaḥ शिवरहस्यं सप्तांशः. Proofread by Ruma Dewan
% Text title            : Kashiyatravidhyupadesham
% File name             : kAshIyAtrAvidhyupadesham.itx
% itxtitle              : kAshIyAtrAvidhyupadesham (shivarahasyAntargatam)
% engtitle              : kAshIyAtrAvidhyupadesham
% Category              : shiva, upadesha, advice, shivarahasya, tIrthakShetra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 12 | vAvRittashlokAH ||
% Indexextra            : (Scan)
% Latest update         : March 8, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org