काश्यि पञ्चक्रोशीयात्रोपदेशम्
- शिवपार्वतीसंवादे -
दिनाष्टकेन विधिवत्पश्चक्रोशप्रदक्षिणम् ।
कर्तव्यमतियत्नेन भक्तिश्रद्धासमन्वितैः ॥ ३७७॥
मध्ये सर्वेषु तर्थेषु स्नात्वा सम्यग्यथा विधि ।
श्राद्धं कार्यं प्रयत्नेन स्वाद्वन्नैरतिशोभनैः ॥ ३७८॥
पूजनीयाः प्रयत्नेन पञ्चक्रोशस्य रक्षकाः ।
यात्राविघ्नहराः सर्वे वन्दनीयाः प्रयत्नतः ॥ ३७९॥
सहस्रकोटिलिङ्गानि दिव्यान्यत्यद्भुतानि च ।
पञ्चक्रोशमहामार्गे ईष्ठन्ति कमलानने ॥ ३८०॥
बिल्वपत्राक्षताद्यैस्तु तानि यत्नेन सर्वथा ।
पूजनीयानि लिङ्गानि यथालिङ्गं यथा क्रमम् ॥ ३८१॥
भैरवाणां गणेशानां दुर्गाणां च वरानने ।
सङ्ख्या न वर्तते तेषां दर्शनं चातिदुर्लभम् ॥ ३८२॥
निराहारेण कुर्वन्ति देवगन्धर्वदानवाः ।
केचिन्मुनीश्वरा दिव्याः पञ्चक्रोशप्रदक्षिणम् ॥ ३८३॥
पञ्चक्रोशस्य यात्रायां तिलमात्रमपि प्रिये ।
नातिक्रमेद्यथामार्गं गन्तव्यमपि यत्नतः ॥ ३८४॥
करसञ्चलनं त्यक्त्वा कृताञ्जलिपुटैः सदा ।
मौने नैव हि कर्तव्यं पञ्चक्रोश प्रदक्षिणम् ॥ ३८५॥
मामेव सर्वदा ध्यात्वा शिवमद्व्यमव्ययम् ।
मत्कथाश्रवणासक्तैस्तत्कर्तव्यं प्रयत्नतः ॥ ३८६॥
रात्रौ जगरणं कार्यमादिनाष्टकमादरात् ।
भोजनीयाः प्रयत्नेन शैवा ब्राह्मणपुङ्गवाः ॥ ३८७॥
ततो ममान्तिकं प्राप्य मामभ्यर्च्य सदाशिवम् ।
यात्रां निवेद्य शुभदां ततः स्वगृहमाविशेत् ॥ ३८८॥
प्रति पक्षेऽपिकर्तव्यं पञ्चक्रोशप्रदक्षिणम् ।
एवं तु स्थूलमार्गेण पञ्चक्रोश प्रदक्षिणम् ।
यथाकथञ्चित्कर्तव्यं मनुजैरल्प साधनैः ॥ ३८९॥
यथाशास्त्रं तु तत्कर्तुं देवैरपि न शक्यते ।
यथाशास्त्रं कृतं चेत्स्यान्मोक्षः स्यादेव तत्क्षणात् ॥ ३९०॥
ब्रह्मविष्ण्वादयो देवाः पञ्चक्रोश प्रदक्षिणम् ।
एकवारं यथाशास्त्रं कर्तव्यमिति निर्ययुः ॥ ३९१॥
साङ्गं प्रत्येकमेकैकं लिङ्गं सम्पूज्य सादरम् ।
भैरवान् गणपान्सम्यक्पूजयाम इति प्रियात् ॥ ३९२॥
पञ्चक्रोशस्य यात्रार्थं सङ्कल्प्य विधित्ततः ।
निर्ययुश्चामराः सर्वे ब्रह्मविष्णु पुरोगमाः ॥ ३९३॥
प्रत्येकं दिव्यलिङ्गानां कुर्वन्तः पूजनं मुदा ।
रविरक्ताक्षगन्धर्वाः प्रापुर्विंशतिवत्सरैः ॥ ३९४॥
ततो विश्रान्तचित्तास्ते प्रत्येकं विस्मयं गताः ।
यात्रेयं विधिवत्वर्तुं न शक्यत इति प्रिये ॥ ३९५॥
स्थितानि पश्चाल्लिङ्गनि स्वल्पान्येव पुरः सरम् ।
बहूनि सन्ति लिङ्गानि दिव्यान्यत्यद्भुतानि च ॥ ३९६॥
गणेश भैरवादीनां गणनैव न सर्वथा ।
प्रत्येकं पूजनात्कालो भूयानेव गमिष्यति ॥ ३९७॥
क्व तावदायुरस्माकं क्वतावत्पादयोर्बलम् ।
यावद्देशं यथाशास्त्रं पूजनं मोक्षसाधकम् ॥ ३९८॥
यथाशास्त्रं कृतं चेत्स्यात्पञ्चक्रोश प्रदक्षिणम् ।
मोक्षोभवति शीघ्रेण तत्तु कर्तुं न शक्यते ॥ ३९९॥
॥ इति शिवरहस्यान्तर्गते काश्यां पितृकर्मोपदेशं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः १२ । १९४-२२८॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 12 . 194-228..
Notes:
Śiva शिव details to Pārvatī पार्वती about the regulations and merits of performing the Pañcakrośī Yātrā पञ्चक्रोशी यात्रा.
Proofread by Ruma Dewan