क्षमास्तोत्रम्

क्षमास्तोत्रम्

ॐ श्रीमहागणपतये नमः । शुभानामेकान्तं परमशि वपादाब्जयुगलं गुरूणामाचार्यं शिरसि परिभाव्य स्मृतिशतैः । क्षमास्तोत्रं कर्तुं व्यवसितमतेः साहसमिदं सहन्तां सन्तोऽमी भुवि सनकयोगीन्द्रसदृशाः ॥ १॥ शिव त्वं न प्रीतो यदि मदपराधैककुपित- स्ततः किं वा स्वामिन् पशुरयमनाथः कलयति । अहो ज्ञातं दैवान्मम तु शरणं ते सहचरी क्षमास्तीत्येतस्याश्चरणकमलं यामि शरणम् ॥ २॥ अहं जाने सत्यं सततमपराधैकनिलयं मदात्मानं साक्षादपि परशिवोऽपि स्फुटतरम् । तथापि क्षान्ते त्वं कलयसि शिवप्रेमविषयं मुहुर्मां तस्यास्ते किमहमधुना हन्त करवै ॥ ३॥ क्षमे त्वं माता त्वं शिवविभवसम्पत्तिलहरी त्वमानन्दोन्मेषस्फुरणलहरी त्वं परङ्गतिः । त्वमात्मा त्वं विद्या मम तु सकलक्षेमपटली- त्यहं मत्या धृत्या श्वसिमि कलुषी निर्भयमपि ॥ ४॥ सदाप्याज्ञोल्लङ्घीत्यहह मयि कोपेन भगवान् न कर्तुं किं किं वा स्मरति तदयुक्तं न च मम । त्रायुक्तं मातः स्फुरति मयि वात्सल्यवशतः क्षमे तादृश्यास्ते प्रकृतिरियमेवं विजयते ॥ ५॥ क्षमे दुष्टात्माहं शिव शिव शिवेन श्रुतिमुखा- न्निषिद्धं यद्यद्वा विहितमुभयोरप्यमुकयोः । विपर्यासं कुर्वे सततमधुना मां स्वजनतो निराकुर्याच्छम्भुर्घटय घटयाम्ब त्वमनिशम् ॥ ६॥ शिवक्षान्ते मां ते पदयुगलदासं पशुपते- रयोग्यं योग्यं त्वं कलय दयया क्षेमकलया । इदानीं याहीति क्षणमितरचिन्तामुपगता यदि स्याः कस्या वा जननि पुरतो रोदिमि वद ॥ ७॥ पुरारातिक्रोधप्रशमनविधे देवि पुरतो विषीदन्तं भीत्या चरणपतितं पश्यसि न किम् । घिगेतज्जन्मेदं भवति दुरदृष्टं मयि यतः स्वभावो मातस्ते प्रकृतिसुलभाया अपि मृषा ॥ ८॥ हरक्षान्ते किं ते मयि परमसूयास्ति महती क्व गच्छेयं केयं नियतिरहहाम्भोधिपतितम् । मनो ज्वालामालाकुलमनलमद्यैव विशती - त्यहं मन्ये मातर्जहिहि जहिहीमां करुणया ॥ ९॥ स्मरारिक्रोधाग्निप्रसरभरशान्ते करुणया स्वतो मायावत्त्वात् क्रुधमसकृदादाय झटिति । ममाजस्रं त्रासीकरणचणदौर्भाग्यपटली- जरत्तृण्याकक्षे क्षिपतु भवतीत्येव वृणवै ॥ १०॥ क्षमे घोरा मूर्तिर्ज्वलति बहुलज्वालजटिली- कृतक्रोघाटोपस्फुरितनयनालोकविषमा । अहं कम्पे कम्पे भृशमसकृदागस्करतया त्वमेवाद्य प्राणान् विभवमपि पातुं प्रभवसि ॥ ११॥ परं निर्विण्णोऽस्मि त्रिपुरहरकोपप्रशमन- प्रवृत्त्यामत्यन्तं चपलमतिरालोलनयनः । भवत्याः पादाब्जाकलितमणिमञ्जीरकुहरे निलीयैव क्षान्ते श्वसितुमहमिच्छामि सम्पदि ॥ १२॥ कथङ्कारं लोकाः सुरदनुजदैतेयमनुज- प्रधाना वर्तन्ते कुशलमुदिताः सम्प्रति किल । इमे सर्वेऽप्यागांस्यपरिमितसङ्ख्यानि दधते स्मृतं क्षान्ते त्वत्तो ननु भवति सौख्यं त्रिजगताम् ॥ १३॥ क्षमे साधारण्यादिममपि समुद्धर्तुमलमि- त्यवैषि प्रायोऽहं शिव शिव महापापनिकरैः । समुद्भूतस्वात्मा ह्यधिकतरयत्नेन जननि द्रुतं मध्यं बद्धाप्यनिमिषतया तिष्ठतु पुरः ॥ १४॥ यथा मामानन्दस्फुरदमलनेत्राब्जयुगली- कटाक्षैराप्लाव्य स्मितमधुरवाचा स्मरहरः । अये वत्साजस्रं जगति न बिभीहीति निगदेत् तथा कर्तुं क्षान्ते प्रभवसि दया चेत् तव मयि ॥ १५॥ निषिद्धानुष्ठानैर्जनितमपराधं शमयितुं वृथा प्रायश्चित्ताद्यकरवमनेकैर्जनिशतैः । केयन्तो जायन्ते निमिषसमयेऽप्येतदधिका- स्ततः शान्ति क्षान्ते कलय सकलानां त्वमधुना ॥ १६॥ यथैव क्षान्ते मे सततमपराधप्रणयिता स्वभावस्तद्वत् ते परमशिवकोपप्रशमनम् । ततः का वा ग्लानिस्तव मम समुद्धारणविधौ किमालोच्यं मातः सुलभहृदयेत्येव वृणवै ॥ १७॥ अये क्षान्ते मातः शिवमनसि कोपेन कलुषे प्रविश्यैनं शीघ्रं स्वगुणनिकरैर्बन्धय दृढम् । प्रसीदेद् देवोऽयं सुलभकरुणत्वादिह पुन- र्न सन्देहो लेशोऽप्यहमपि सुतीर्णार्तिजलधिः ॥ १८॥ कियन्मे प्रारब्धं प्रभवति कियत् सञ्चितमिदं तृणायैतन्मन्ये स्मरणमपि नागामिनि मम । परं शम्भोरेतज्जनिरसकृदागस्करमभू- दिति क्षान्ते तप्तं हृदयमिदमेकं तु शमय ॥ १९॥ त्वया स्वाधीनश्चेदखिलभुवनानामधिपतिः क्व संसारो मातर्जननमरणाख्यः प्रभवति । न शङ्केऽतश्चेतस्तव तु नवनीताच्च सुलभं द्रवीभूयात् क्षान्ते मम हृदयसन्तापविसरैः ॥ २०॥ अहं याचे मातस्तव पदसरोजातयुगली- पुरः पातम्पातं पशुपतिरयं मामपि पशुम् । स्वकीयं मत्वैव व्यपनयतु पाशं करुणया यथा वा क्षान्ते त्वं विरचय तथेत्येव वृणवै ॥ २१॥ कुतश्चिन्तामन्तःक्र् कलयसि हरक्रोधशमन- क्षमे नाहं शक्तः क्षणमपि च सोढुं विमुखताम् । मदीयं सन्तापं न गणयसि किं वा बहुतरं बतात्यन्तं बालः शिरसि हिमवन्तं वहति किम् ॥ २२॥ कदा वा क्षान्ते त्वं गिरिशहृदयारामपदवी- मुपस्थातुं सङ्ख्या सह करुणया संज्ञपयसि । इति प्रेम्णा मातर्बत सपदि पश्याम्यनिमिषं यथा कादम्बिन्याः स्फुरणमभितश्चातक शिशुः ॥ २३॥ कदा शम्भुक्षान्ते कुवलयदलश्यामलदया- कटाक्षैः पश्येस्त्वं पुरभिदपि सन्तुष्टमनसा । स्वकीयं जानीयादिति बहुलचिन्तापरवशं स्वसन्ध्याकर्मादीन्यपि बत विसस्मार हृदयम् ॥ २४॥ कुतो वा माहात्म्यं परशिवगुणानां प्रभवति त्वया सर्वेऽप्येते परमियदुदात्तत्वमहिताः । अहं जाने क्षान्ते विशदमनुकम्पामपि सखीं तथाप्येषा मातस्त्वयि निहितभारा विरमति ॥ २५॥ सखीमाहूय त्वं सपदि परिपृच्छाम्ब करुणां तदा जानास्येतद् वितथमथवा स्यादवितथम् । ततः पश्चाद्वा मां पशुपतिपदाम्भोजशरणं स्वयं कुर्याः क्षान्ते मयि कलितविश्वासलहरी ॥ २६॥ पुरा भर्गक्षान्ते भ्रमशतपरीपाकवशतः पुराणैराम्नायैः शमदमपुरोगैर्बहुविधैः । मदागोऽब्धिं तर्तुं विहितबहुयत्नो बत जडः परिश्रान्तो दैवात् तरणिमवलम्बेऽद्य भवतीम् ॥ २७॥ प्रसन्नत्वं शम्भोर्विलसति कया वेति भुवने विचार्याहं क्षान्ते त्वयि निहितभारोऽस्मि सपदि । कुतो मातः कालं चकितमनसो यापयसि मे मुहूर्तं किं सह्या मम हृदयसन्तापलहरी ॥ २८॥ क्षमे त्वं वैमुख्यं यदि मयि दधास्यम्ब निमिषं पतेयं पातालेऽकटकट निमज्जेयमुदधौ । ततः का वा क्षान्ते मम गतिरिदं चिन्तय मना- गलं पश्चाद्यन्मां नयसि तदिदं मेऽस्तु कुशलम् ॥ २९॥ यतो घोरां मूर्तिं शमयसि समाश्लिष्य मधुर- स्मितज्योत्स्नाहृद्यं कलयसि मुखं शाङ्करमतः । शिवा मूर्तिः शम्भोर्भवसि जननीत्येव मनवै ततस्त्वत्तो भिन्नो न भवति शिवः कापि विषये ॥ ३०॥ यदा कोपार्भट्याः प्रभवसमयः स्यात् तव तदा प्रभावोन्मेषस्य प्रकटनमहोत्साहसमयः । तदन्यस्मिन् काले किमु महिमलेशोऽपि विदितो भवेद् देवि क्षान्ते विलसति मया सोऽप्यवसरः ॥ ३१॥ क्षमाया वश्योऽयं निखिलजगतामीश्वर इति प्रणम्रा देवाद्याः खलु शिवपदाम्भोजयुगले । अये मातः सेयं प्रणतिरभवत् ते ननु ततः प्रपद्ये त्वामेव प्रकृतहरकोपाञ्चपलधीः ॥ ३२॥ प्रपद्येऽहं शम्भोः प्रकृतिसुगुणायुष्करकला- क्षमामास्माकीनान् प्रसभमपराधान् शमयितुम् । क्षणं जाग्रत्वात्मन्यधिकमयभक्त्येन्द्रियगणा भवन्तः पश्चाद्वो भवति सफलं वाञ्छितमपि ॥ ३३॥ इयानात्मन्यासः प्रभवतु शिवायैव सकल- प्रपञ्चव्यापारे विषयविषयीभाववशतः । यदानन्दप्रायं यदपि परमानन्दमयमि- त्युपात्तं क्षान्ते तज्जननि घटय त्वं पतिपशु ॥ ३४॥ इयान् वाञ्छापूरः श‍ृणु जननि सर्वसहपदे स्थितः शम्भुर्देव्या सह वृषभमारुह्य पुरतः । प्रसन्नोऽहं वत्स त्वमपि वरयाभीष्टमिति मां कदा क्षान्ते ब्रूयादिति तदितरं नास्ति मनसि ॥ ३५॥ यजेऽहं बुध्येऽहं बहुतपसि तिष्ठाम्यहमिति भ्रमादात्मप्राप्तिं ह्यभिदधति निश्रेयसममी । कथा का वा तस्य त्वमिह विमुखा चेदलमलं महादेवक्षान्ते स्मरतु भवती तानिव न माम् ॥ ३६॥ तपस्यात्मद्रोहः सवनविषये जीवहननं वृथा तिष्ठेयं चेदहह सुतरां कर्मविरहः । ततः सर्वत्रापि स्फुरितमपराधं गमयितुं विना त्वां हे क्षान्ते कुशलमवलम्बं न मनवै ॥ ३७॥ विना चेत् त्वामेकां सकलमपि लोकप्रयतनं भवेन्मातः सत्यं करकृतमकूपारतरणम् । अहं दैवात् त्वय्याकलितनिजभारोऽस्मि परतो भवक्षान्ते चित्तं तव मम तु भाग्यं कथमिव ॥ ३८॥ प्रसादं वाञ्छन्ति प्रबलमपराधं तिरयितुं न मन्यन्ते किं ते निपुणमतयः शास्त्रकुशलाः । इमं तं धीमन्तं जननि मनवै यस्तव पदे प्रान्नः श्रीक्षान्ते सकृदपि भयाविष्टमनसा ॥ ३९॥ महादेवस्यैव श्रुतिमतमनुग्राहनिपुणं शिवां मूर्तिं प्राहुः कतिचिदपरे हन्त करुणाम् । अहं मन्ये क्षान्ते त्वमिति सकलानामुपरि ते प्रकाशो मन्तूनां सहनसमये जाग्रति मुहुः ॥ ४०॥ दयानाम्नी क्षान्ते तव निजसखी क्काप्यणुतरं न वैमुख्यं कर्त्रीं स्मरति हृदि पत्युर्विमुखताम् । न वैयात्यं तस्या ननु सकलकालेऽपि भवती- मनुज्ञाप्यैवेयं रमयति शिवं वल्लभमपि ॥ ४१॥ तव स्वाधीनाया जननि करुणाया अपि भृशं मदर्थं वक्तव्यं स्मरसि किमु सापत्न्यमसहम् । स्वभावो भज्येत त्रिणयनवशीकारकुहना- महाविद्ये क्षान्ते तदलमनयेर्ष्याकुलतया ॥ ४२॥ मदीयानन्दश्रीमुखकमलसूर्योदयकला हरक्रोधार्भट्या शिव शिव घृणा मूर्च्छितवती । त्वया सञ्जीविन्या सपदि सुखमुज्जीवतुतरा- मिति क्षान्ते याचे व्यसनमयपाशेन चपलः ॥ ४३॥ मनःशल्यं क्षान्ते श‍ृणु दिविषदाराध्यचरणो मदर्थं सम्प्राप्तां दयितदयितां तामपि दयाम् । निराकृत्याप्यागःशतनियुतकोट्यादिगणने प्रवृत्तो हा किं स्यात् त्वमसि परमम्बाम्ब शरणम् ॥ ४४॥ न मां त्वं जानासि स्मरहरदयामन्दिरशिला- बहिर्द्वारप्रान्तस्थितशुनकदासोऽस्मि जननि । किमाब्रह्मस्तम्बान्तमपि समदृष्ट्या निजजनं न पश्येर्हे क्षान्ते मयि विमुखतायां किमु फलम् ॥ ४५॥ सदा मातर्ब्रह्मादिभिरपि बहु स्तूयस इति प्रसिद्धिर्व्याप्नोति त्रिजगदपि मन्तुं मम पुनः । स्वभावारिर्देव्या भुवनमपि जित्वा विजयते क्षमे विज्ञाप्यत्वादिदमवदमालोच्यमपरम् ॥ ४६॥ कदाचिद् यो मन्तुं विरचयति तस्मै पशुपतिः प्रसीदेत् कारुण्यादिति भवतु नाहं तदुपमः । यतोऽसङ्ख्यान्यागांस्ययि शिवमनस्तापशमन- प्रभे नित्यं कुर्वे तदिदमवितुं त्वं प्रभवसि ॥ ४७॥ मृषा कोपत्रासाज्जननि तव पादाब्जपतितं वितन्यत्वादेतद्व्यसनतरलामीक्षितुमपि । परीहासाद्यत्नो भवति न पुनः सत्यमिति मे ततः क्षान्ते किञ्चिन्निगद् सुमुखः स्यात् तव पतिः ॥ ४८॥ अहं क्व ब्रह्माण्डप्रलयभयदाटोपनिटिल- ज्वलन्नेत्रालोकः क्व नु स भगवानम्ब तदलम् । मनःपूर्वं कोपं मयि पशुपतिनैव कुरुते क्षमे मां सौलभ्यादपि सपदि पातुं प्रभवसि ॥ ४९॥ यदण्डे विष्ण्वाद्यैः पशुविजयमत्तैः प्रमुदितं तदण्डं यस्यैकक्षणविकचफालाक्षिनिहतम् । तदीयक्षान्तिस्त्वं किमिति वचनीयाम्ब पशुभि - र्यथाशक्ति स्तोत्रं कृतमिदमुपाश्रुत्य दयताम् ॥ ५०॥ तनुर्घोरा कोपप्रकटनमयी सार्धमुदिता शिवा मूर्तिः शान्तिप्रकटनमयी सार्धमुदिता । तदन्योन्यं साम्यादविरतसमाश्लेषसुभगः शिवः साक्षादास्ते सपदि करुणे त्वं विजयतात् ॥ ५१॥ भवान्यापो ज्योतिः पशुपतिरियं शीतकिरणः स सूर्यः सा शान्तिः क्रुदयमिति वेदान्तहृदयम् । तयोरैक्यं साक्षादुदयति सुषुम्नात्मकमह- स्तदोमोमों क्षान्तिस्तुतिरिति मया पूर्णमुदितम् ॥ ५२॥ स्तोत्रं क्षमाविषयमात्मसुखैकहेतुं साक्षाच्चकार परमेश्वरराजयोगी । क्षाम्यन्ति तस्य पठनादपराधकोट्यो निःसंशयं भुवि भवन्ति च मङ्गलानि ॥ ५३॥ ॥ इति परमेश्वरयोगिकृतं श्रीक्षमास्तोत्रं सम्पूर्णम् ॥ Proofread by Sivakumar Thyagarajan Iyer
% Text title            : Kshama Stotram
% File name             : kShamAstotram.itx
% itxtitle              : kShamAstotram (parameshvarayogikRitam)
% engtitle              : kShamAstotram
% Category              : shiva, shataka
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : parameshvarayogi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sivakumar Thyagarajan Iyer
% Description/comments  : 28 in Stotrasamuchchaya 1, Edited by Pandit K. Parameshwara Aithal
% Indexextra            : (Scan)
% Latest update         : March 30, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org