क्षमास्तोत्रम्
ॐ श्रीमहागणपतये नमः ।
शुभानामेकान्तं परमशि वपादाब्जयुगलं
गुरूणामाचार्यं शिरसि परिभाव्य स्मृतिशतैः ।
क्षमास्तोत्रं कर्तुं व्यवसितमतेः साहसमिदं
सहन्तां सन्तोऽमी भुवि सनकयोगीन्द्रसदृशाः ॥ १॥
शिव त्वं न प्रीतो यदि मदपराधैककुपित-
स्ततः किं वा स्वामिन् पशुरयमनाथः कलयति ।
अहो ज्ञातं दैवान्मम तु शरणं ते सहचरी
क्षमास्तीत्येतस्याश्चरणकमलं यामि शरणम् ॥ २॥
अहं जाने सत्यं सततमपराधैकनिलयं
मदात्मानं साक्षादपि परशिवोऽपि स्फुटतरम् ।
तथापि क्षान्ते त्वं कलयसि शिवप्रेमविषयं
मुहुर्मां तस्यास्ते किमहमधुना हन्त करवै ॥ ३॥
क्षमे त्वं माता त्वं शिवविभवसम्पत्तिलहरी
त्वमानन्दोन्मेषस्फुरणलहरी त्वं परङ्गतिः ।
त्वमात्मा त्वं विद्या मम तु सकलक्षेमपटली-
त्यहं मत्या धृत्या श्वसिमि कलुषी निर्भयमपि ॥ ४॥
सदाप्याज्ञोल्लङ्घीत्यहह मयि कोपेन भगवान्
न कर्तुं किं किं वा स्मरति तदयुक्तं न च मम ।
त्रायुक्तं मातः स्फुरति मयि वात्सल्यवशतः
क्षमे तादृश्यास्ते प्रकृतिरियमेवं विजयते ॥ ५॥
क्षमे दुष्टात्माहं शिव शिव शिवेन श्रुतिमुखा-
न्निषिद्धं यद्यद्वा विहितमुभयोरप्यमुकयोः ।
विपर्यासं कुर्वे सततमधुना मां स्वजनतो
निराकुर्याच्छम्भुर्घटय घटयाम्ब त्वमनिशम् ॥ ६॥
शिवक्षान्ते मां ते पदयुगलदासं पशुपते-
रयोग्यं योग्यं त्वं कलय दयया क्षेमकलया ।
इदानीं याहीति क्षणमितरचिन्तामुपगता
यदि स्याः कस्या वा जननि पुरतो रोदिमि वद ॥ ७॥
पुरारातिक्रोधप्रशमनविधे देवि पुरतो
विषीदन्तं भीत्या चरणपतितं पश्यसि न किम् ।
घिगेतज्जन्मेदं भवति दुरदृष्टं मयि यतः
स्वभावो मातस्ते प्रकृतिसुलभाया अपि मृषा ॥ ८॥
हरक्षान्ते किं ते मयि परमसूयास्ति महती
क्व गच्छेयं केयं नियतिरहहाम्भोधिपतितम् ।
मनो ज्वालामालाकुलमनलमद्यैव विशती -
त्यहं मन्ये मातर्जहिहि जहिहीमां करुणया ॥ ९॥
स्मरारिक्रोधाग्निप्रसरभरशान्ते करुणया
स्वतो मायावत्त्वात् क्रुधमसकृदादाय झटिति ।
ममाजस्रं त्रासीकरणचणदौर्भाग्यपटली-
जरत्तृण्याकक्षे क्षिपतु भवतीत्येव वृणवै ॥ १०॥
क्षमे घोरा मूर्तिर्ज्वलति बहुलज्वालजटिली-
कृतक्रोघाटोपस्फुरितनयनालोकविषमा ।
अहं कम्पे कम्पे भृशमसकृदागस्करतया
त्वमेवाद्य प्राणान् विभवमपि पातुं प्रभवसि ॥ ११॥
परं निर्विण्णोऽस्मि त्रिपुरहरकोपप्रशमन-
प्रवृत्त्यामत्यन्तं चपलमतिरालोलनयनः ।
भवत्याः पादाब्जाकलितमणिमञ्जीरकुहरे
निलीयैव क्षान्ते श्वसितुमहमिच्छामि सम्पदि ॥ १२॥
कथङ्कारं लोकाः सुरदनुजदैतेयमनुज-
प्रधाना वर्तन्ते कुशलमुदिताः सम्प्रति किल ।
इमे सर्वेऽप्यागांस्यपरिमितसङ्ख्यानि दधते
स्मृतं क्षान्ते त्वत्तो ननु भवति सौख्यं त्रिजगताम् ॥ १३॥
क्षमे साधारण्यादिममपि समुद्धर्तुमलमि-
त्यवैषि प्रायोऽहं शिव शिव महापापनिकरैः ।
समुद्भूतस्वात्मा ह्यधिकतरयत्नेन जननि
द्रुतं मध्यं बद्धाप्यनिमिषतया तिष्ठतु पुरः ॥ १४॥
यथा मामानन्दस्फुरदमलनेत्राब्जयुगली-
कटाक्षैराप्लाव्य स्मितमधुरवाचा स्मरहरः ।
अये वत्साजस्रं जगति न बिभीहीति निगदेत्
तथा कर्तुं क्षान्ते प्रभवसि दया चेत् तव मयि ॥ १५॥
निषिद्धानुष्ठानैर्जनितमपराधं शमयितुं
वृथा प्रायश्चित्ताद्यकरवमनेकैर्जनिशतैः ।
केयन्तो जायन्ते निमिषसमयेऽप्येतदधिका-
स्ततः शान्ति क्षान्ते कलय सकलानां त्वमधुना ॥ १६॥
यथैव क्षान्ते मे सततमपराधप्रणयिता
स्वभावस्तद्वत् ते परमशिवकोपप्रशमनम् ।
ततः का वा ग्लानिस्तव मम समुद्धारणविधौ
किमालोच्यं मातः सुलभहृदयेत्येव वृणवै ॥ १७॥
अये क्षान्ते मातः शिवमनसि कोपेन कलुषे
प्रविश्यैनं शीघ्रं स्वगुणनिकरैर्बन्धय दृढम् ।
प्रसीदेद् देवोऽयं सुलभकरुणत्वादिह पुन-
र्न सन्देहो लेशोऽप्यहमपि सुतीर्णार्तिजलधिः ॥ १८॥
कियन्मे प्रारब्धं प्रभवति कियत् सञ्चितमिदं
तृणायैतन्मन्ये स्मरणमपि नागामिनि मम ।
परं शम्भोरेतज्जनिरसकृदागस्करमभू-
दिति क्षान्ते तप्तं हृदयमिदमेकं तु शमय ॥ १९॥
त्वया स्वाधीनश्चेदखिलभुवनानामधिपतिः
क्व संसारो मातर्जननमरणाख्यः प्रभवति ।
न शङ्केऽतश्चेतस्तव तु नवनीताच्च सुलभं
द्रवीभूयात् क्षान्ते मम हृदयसन्तापविसरैः ॥ २०॥
अहं याचे मातस्तव पदसरोजातयुगली-
पुरः पातम्पातं पशुपतिरयं मामपि पशुम् ।
स्वकीयं मत्वैव व्यपनयतु पाशं करुणया
यथा वा क्षान्ते त्वं विरचय तथेत्येव वृणवै ॥ २१॥
कुतश्चिन्तामन्तःक्र् कलयसि हरक्रोधशमन-
क्षमे नाहं शक्तः क्षणमपि च सोढुं विमुखताम् ।
मदीयं सन्तापं न गणयसि किं वा बहुतरं
बतात्यन्तं बालः शिरसि हिमवन्तं वहति किम् ॥ २२॥
कदा वा क्षान्ते त्वं गिरिशहृदयारामपदवी-
मुपस्थातुं सङ्ख्या सह करुणया संज्ञपयसि ।
इति प्रेम्णा मातर्बत सपदि पश्याम्यनिमिषं
यथा कादम्बिन्याः स्फुरणमभितश्चातक शिशुः ॥ २३॥
कदा शम्भुक्षान्ते कुवलयदलश्यामलदया-
कटाक्षैः पश्येस्त्वं पुरभिदपि सन्तुष्टमनसा ।
स्वकीयं जानीयादिति बहुलचिन्तापरवशं
स्वसन्ध्याकर्मादीन्यपि बत विसस्मार हृदयम् ॥ २४॥
कुतो वा माहात्म्यं परशिवगुणानां प्रभवति
त्वया सर्वेऽप्येते परमियदुदात्तत्वमहिताः ।
अहं जाने क्षान्ते विशदमनुकम्पामपि सखीं
तथाप्येषा मातस्त्वयि निहितभारा विरमति ॥ २५॥
सखीमाहूय त्वं सपदि परिपृच्छाम्ब करुणां
तदा जानास्येतद् वितथमथवा स्यादवितथम् ।
ततः पश्चाद्वा मां पशुपतिपदाम्भोजशरणं
स्वयं कुर्याः क्षान्ते मयि कलितविश्वासलहरी ॥ २६॥
पुरा भर्गक्षान्ते भ्रमशतपरीपाकवशतः
पुराणैराम्नायैः शमदमपुरोगैर्बहुविधैः ।
मदागोऽब्धिं तर्तुं विहितबहुयत्नो बत जडः
परिश्रान्तो दैवात् तरणिमवलम्बेऽद्य भवतीम् ॥ २७॥
प्रसन्नत्वं शम्भोर्विलसति कया वेति भुवने
विचार्याहं क्षान्ते त्वयि निहितभारोऽस्मि सपदि ।
कुतो मातः कालं चकितमनसो यापयसि मे
मुहूर्तं किं सह्या मम हृदयसन्तापलहरी ॥ २८॥
क्षमे त्वं वैमुख्यं यदि मयि दधास्यम्ब निमिषं
पतेयं पातालेऽकटकट निमज्जेयमुदधौ ।
ततः का वा क्षान्ते मम गतिरिदं चिन्तय मना-
गलं पश्चाद्यन्मां नयसि तदिदं मेऽस्तु कुशलम् ॥ २९॥
यतो घोरां मूर्तिं शमयसि समाश्लिष्य मधुर-
स्मितज्योत्स्नाहृद्यं कलयसि मुखं शाङ्करमतः ।
शिवा मूर्तिः शम्भोर्भवसि जननीत्येव मनवै
ततस्त्वत्तो भिन्नो न भवति शिवः कापि विषये ॥ ३०॥
यदा कोपार्भट्याः प्रभवसमयः स्यात् तव तदा
प्रभावोन्मेषस्य प्रकटनमहोत्साहसमयः ।
तदन्यस्मिन् काले किमु महिमलेशोऽपि विदितो
भवेद् देवि क्षान्ते विलसति मया सोऽप्यवसरः ॥ ३१॥
क्षमाया वश्योऽयं निखिलजगतामीश्वर इति
प्रणम्रा देवाद्याः खलु शिवपदाम्भोजयुगले ।
अये मातः सेयं प्रणतिरभवत् ते ननु ततः
प्रपद्ये त्वामेव प्रकृतहरकोपाञ्चपलधीः ॥ ३२॥
प्रपद्येऽहं शम्भोः प्रकृतिसुगुणायुष्करकला-
क्षमामास्माकीनान् प्रसभमपराधान् शमयितुम् ।
क्षणं जाग्रत्वात्मन्यधिकमयभक्त्येन्द्रियगणा
भवन्तः पश्चाद्वो भवति सफलं वाञ्छितमपि ॥ ३३॥
इयानात्मन्यासः प्रभवतु शिवायैव सकल-
प्रपञ्चव्यापारे विषयविषयीभाववशतः ।
यदानन्दप्रायं यदपि परमानन्दमयमि-
त्युपात्तं क्षान्ते तज्जननि घटय त्वं पतिपशु ॥ ३४॥
इयान् वाञ्छापूरः शृणु जननि सर्वसहपदे
स्थितः शम्भुर्देव्या सह वृषभमारुह्य पुरतः ।
प्रसन्नोऽहं वत्स त्वमपि वरयाभीष्टमिति मां
कदा क्षान्ते ब्रूयादिति तदितरं नास्ति मनसि ॥ ३५॥
यजेऽहं बुध्येऽहं बहुतपसि तिष्ठाम्यहमिति
भ्रमादात्मप्राप्तिं ह्यभिदधति निश्रेयसममी ।
कथा का वा तस्य त्वमिह विमुखा चेदलमलं
महादेवक्षान्ते स्मरतु भवती तानिव न माम् ॥ ३६॥
तपस्यात्मद्रोहः सवनविषये जीवहननं
वृथा तिष्ठेयं चेदहह सुतरां कर्मविरहः ।
ततः सर्वत्रापि स्फुरितमपराधं गमयितुं
विना त्वां हे क्षान्ते कुशलमवलम्बं न मनवै ॥ ३७॥
विना चेत् त्वामेकां सकलमपि लोकप्रयतनं
भवेन्मातः सत्यं करकृतमकूपारतरणम् ।
अहं दैवात् त्वय्याकलितनिजभारोऽस्मि परतो
भवक्षान्ते चित्तं तव मम तु भाग्यं कथमिव ॥ ३८॥
प्रसादं वाञ्छन्ति प्रबलमपराधं तिरयितुं
न मन्यन्ते किं ते निपुणमतयः शास्त्रकुशलाः ।
इमं तं धीमन्तं जननि मनवै यस्तव पदे
प्रान्नः श्रीक्षान्ते सकृदपि भयाविष्टमनसा ॥ ३९॥
महादेवस्यैव श्रुतिमतमनुग्राहनिपुणं
शिवां मूर्तिं प्राहुः कतिचिदपरे हन्त करुणाम् ।
अहं मन्ये क्षान्ते त्वमिति सकलानामुपरि ते
प्रकाशो मन्तूनां सहनसमये जाग्रति मुहुः ॥ ४०॥
दयानाम्नी क्षान्ते तव निजसखी क्काप्यणुतरं
न वैमुख्यं कर्त्रीं स्मरति हृदि पत्युर्विमुखताम् ।
न वैयात्यं तस्या ननु सकलकालेऽपि भवती-
मनुज्ञाप्यैवेयं रमयति शिवं वल्लभमपि ॥ ४१॥
तव स्वाधीनाया जननि करुणाया अपि भृशं
मदर्थं वक्तव्यं स्मरसि किमु सापत्न्यमसहम् ।
स्वभावो भज्येत त्रिणयनवशीकारकुहना-
महाविद्ये क्षान्ते तदलमनयेर्ष्याकुलतया ॥ ४२॥
मदीयानन्दश्रीमुखकमलसूर्योदयकला
हरक्रोधार्भट्या शिव शिव घृणा मूर्च्छितवती ।
त्वया सञ्जीविन्या सपदि सुखमुज्जीवतुतरा-
मिति क्षान्ते याचे व्यसनमयपाशेन चपलः ॥ ४३॥
मनःशल्यं क्षान्ते शृणु दिविषदाराध्यचरणो
मदर्थं सम्प्राप्तां दयितदयितां तामपि दयाम् ।
निराकृत्याप्यागःशतनियुतकोट्यादिगणने
प्रवृत्तो हा किं स्यात् त्वमसि परमम्बाम्ब शरणम् ॥ ४४॥
न मां त्वं जानासि स्मरहरदयामन्दिरशिला-
बहिर्द्वारप्रान्तस्थितशुनकदासोऽस्मि जननि ।
किमाब्रह्मस्तम्बान्तमपि समदृष्ट्या निजजनं
न पश्येर्हे क्षान्ते मयि विमुखतायां किमु फलम् ॥ ४५॥
सदा मातर्ब्रह्मादिभिरपि बहु स्तूयस इति
प्रसिद्धिर्व्याप्नोति त्रिजगदपि मन्तुं मम पुनः ।
स्वभावारिर्देव्या भुवनमपि जित्वा विजयते
क्षमे विज्ञाप्यत्वादिदमवदमालोच्यमपरम् ॥ ४६॥
कदाचिद् यो मन्तुं विरचयति तस्मै पशुपतिः
प्रसीदेत् कारुण्यादिति भवतु नाहं तदुपमः ।
यतोऽसङ्ख्यान्यागांस्ययि शिवमनस्तापशमन-
प्रभे नित्यं कुर्वे तदिदमवितुं त्वं प्रभवसि ॥ ४७॥
मृषा कोपत्रासाज्जननि तव पादाब्जपतितं
वितन्यत्वादेतद्व्यसनतरलामीक्षितुमपि ।
परीहासाद्यत्नो भवति न पुनः सत्यमिति मे
ततः क्षान्ते किञ्चिन्निगद् सुमुखः स्यात् तव पतिः ॥ ४८॥
अहं क्व ब्रह्माण्डप्रलयभयदाटोपनिटिल-
ज्वलन्नेत्रालोकः क्व नु स भगवानम्ब तदलम् ।
मनःपूर्वं कोपं मयि पशुपतिनैव कुरुते
क्षमे मां सौलभ्यादपि सपदि पातुं प्रभवसि ॥ ४९॥
यदण्डे विष्ण्वाद्यैः पशुविजयमत्तैः प्रमुदितं
तदण्डं यस्यैकक्षणविकचफालाक्षिनिहतम् ।
तदीयक्षान्तिस्त्वं किमिति वचनीयाम्ब पशुभि -
र्यथाशक्ति स्तोत्रं कृतमिदमुपाश्रुत्य दयताम् ॥ ५०॥
तनुर्घोरा कोपप्रकटनमयी सार्धमुदिता
शिवा मूर्तिः शान्तिप्रकटनमयी सार्धमुदिता ।
तदन्योन्यं साम्यादविरतसमाश्लेषसुभगः
शिवः साक्षादास्ते सपदि करुणे त्वं विजयतात् ॥ ५१॥
भवान्यापो ज्योतिः पशुपतिरियं शीतकिरणः
स सूर्यः सा शान्तिः क्रुदयमिति वेदान्तहृदयम् ।
तयोरैक्यं साक्षादुदयति सुषुम्नात्मकमह-
स्तदोमोमों क्षान्तिस्तुतिरिति मया पूर्णमुदितम् ॥ ५२॥
स्तोत्रं क्षमाविषयमात्मसुखैकहेतुं
साक्षाच्चकार परमेश्वरराजयोगी ।
क्षाम्यन्ति तस्य पठनादपराधकोट्यो
निःसंशयं भुवि भवन्ति च मङ्गलानि ॥ ५३॥
॥ इति परमेश्वरयोगिकृतं श्रीक्षमास्तोत्रं सम्पूर्णम् ॥
Proofread by Sivakumar Thyagarajan Iyer