श्रीकण्ठकृतं ढुण्ढिस्तोत्रम्
श्रीकण्ठ उवाच ।
जय विघ्नकृतामाद्य भक्तनिर्विघ्नकारक ।
अविघ्नविघ्नशमन महाविघ्नैकविघ्नकृत् ॥ १७॥
जय सर्वगणाधीश जय सर्वगणाग्रणीः ।
गणप्रणतपादाब्ज गणनातीतसद्गुण ॥ १८॥
जय सर्वग सर्वेश सर्वबुद्ध्येकशेवधे ।
सर्वमायाप्रपञ्चज्ञ सर्वकर्माग्रपूजित ॥ १९॥
सर्वमङ्गलमाङ्गल्य जय त्वं सर्वमङ्गल ।
अमङ्गलोपशमन महामङ्गलहेतुक ॥ २.५७.२०॥
जय सृष्टिकृतां वन्द्य जय स्थितिकृतानत ।
जय संहृतिकृत्स्तुत्य जयसत्कर्मसिद्धिद ॥ २१॥
सिद्धवन्द्यपदाम्भोज जयसिद्धिविधायक ।
सर्वसिद्ध्येकनिलय महासिद्ध्यृद्धिसूचक ॥ २२॥
अशेषगुणनिर्माण गुणातीत गुणाग्रणी ।
परिपूर्णचरित्रार्थ जय त्वं गुणवर्णित ॥ २३॥
जय सर्वबलाधीश बलाराति बलप्रद ।
बलाकोज्ज्वलदन्ताग्र बालाबालपराकम ॥ २४॥
अनन्तमहिमाऽऽधार धराधरविदारण ।
दन्ताग्रप्रोतदिङ्नाग जय नागविभूषण ॥ २५॥
ये त्वां नमन्ति करुणामय दिव्यमूर्ते
सर्वैनसामपि भुवो भुवि मुक्तिभाजः ।
तेषां सदैव हरसीह महोपसर्गान्
स्वर्गापवर्गमपि सम्प्रददासि तेभ्यः ॥ २६॥
ये विघ्नराज भवता करुणाकटाक्षैः
सम्प्रेक्षिताः क्षितितले क्षणमात्रमत्र ।
तेषां क्षयन्ति सकलान्यपि किल्विषाणि
लक्ष्मीः कटाक्षयति तान्पुरुषोत्तमान्हि ॥ २७॥
ये त्वां स्तुवन्ति नतविघ्नविघातदक्ष
दाक्षायणीहृदयपङ्कजतिग्मरश्मे ।
श्रूयन्त एव त इह प्रथिता न चित्रं
चित्रं तदत्र गणपा यदहो त एव ॥ २८॥
ये शीलयन्ति सततं भवतोंऽघ्रियुग्मं
ते पुत्रपौत्रधनधान्यसमृद्धिभाजः ।
संशीलिताङ्घ्रिकमला बहुभृत्यवर्गै-
र्भूपालभोग्यकमलां विमलां लभन्ते ॥ २९॥
त्वं कारणं परमकारणकारणानां
वेद्योऽसि वेदविदुषां सततं त्वमेकः ।
त्वं मार्गणीयमसि किञ्चन मूलवाचां
वाचामगोचरचराचरदिव्यमूर्ते ॥ २.५७.३०॥
वेदा विदन्ति न यथार्थतया भवन्तं
ब्रह्मादयोऽपि न चराचरसूत्रधार ।
त्वं हंसि पासि विदधासि समस्तमेकः
कस्ते स्तुतिव्यतिकरो मनसाप्यगम्य ॥ ३१॥
त्वद्दुष्टदृष्टिविशिखैर्निहतान्निहन्मि
दैत्यान्पुरान्धकजलन्धरमुख्यकांश्च ।
कस्यास्ति शक्तिरिह यस्त्वदृतेऽपि तुच्छं
वाञ्छेद्विधातुमिह सिद्धिदकार्यजातम् ॥ ३२॥
अन्वेषणे ढुण्ढिरयं प्रथितोऽस्ति धातुः
सर्वार्थढुण्ढिततया तव ढुण्ढि नाम ।
काशीप्रवेशमपि को लभतेऽत्र देही
तोषं विना तव विनायक ढुण्ढिराज ॥ ३३॥
ढुण्ढे प्रणम्य पुरतस्तव पादपद्मं
यो मां नमस्यति पुमानिह काशिवासी ।
तत्कर्णमूलमधिगम्य पुरा दिशामि
तत्किञ्चिदत्र न पुनर्भवतास्ति येन ॥ ३४॥
स्नात्वा नरः प्रथमतो मणिकर्णिकाया-
मुद्धूलिताङ्घ्रियुगलस्तु सचैलमाशु ।
देवर्षिमानवपितॄनपि तर्पयित्वा
ज्ञानोदतीर्थमभिलभ्य भजेत्ततस्त्वाम् ॥ ३५॥
सामोदमोदकभरैर्वरधूपदीपै-
र्माल्यैः सुगन्धबहुलैरनुलेपनैश्च ।
सम्प्रीण्य काशिनगरीफलदानदक्षं
प्रोक्त्वाथ मां क इह सिध्यति नैव ढुण्ढे ॥ ३६॥
तीर्थान्तराणि च ततः क्रमवर्जितोऽपि
संसाधयन्निह भवत्करुणाकटाक्षैः ।
दूरीकृतस्वहितघात्युपसर्गवर्गो
ढुण्ढे लभेदविकलं फलमत्र काश्याम् ॥ ३७॥
यः प्रत्यहं नमति ढुण्ढिविनायकं त्वां
काश्यां प्रगे प्रतिहताखिलविघ्नसङ्घः ।
नो तस्य जातु जगतीतलवर्ति वस्तु
दुष्प्रापमत्र च परत्र च किञ्चनापि ॥ ३८॥
यो नाम ते जपति ढुण्ढिविनायकस्य
तं वै जपन्त्यनुदिनं हृदि सिद्धयोऽष्टौ ।
भोगान्विभुज्य विविधान्विबुधोपभोग्या-
न्निर्वाणया कमलया व्रियते स चान्ते ॥ ३९॥
दूरे स्थितोऽप्यहरहस्तव पादपीठं
यः संस्मरेत्सकलसिद्धिद ढुण्ढिराज ।
काशीस्थिते रविकलं सफलं लभेत
नैवान्यथा न वितथा मम वाक्कदाचित् ॥ २.५७.४०॥
जाने विघ्नानसङ्ख्यातान्विनिहन्तुमनेकधा ।
क्षेत्रस्यास्य महाभाग नानारूपैरिहस्थितः ॥ ४१॥
यानि यानि च रूपाणि यत्र यत्र च तेऽनघ ।
तानि तत्र प्रवक्ष्यामि शृण्वन्त्वेते दिवौकसः ॥ ४२॥
प्रथमं ढुण्ढिराजोऽसि मम दक्षिणतो मनाक् ।
आढुण्ढ्य सर्वभक्तेभ्यः सर्वार्थान्सम्प्रयच्छसि ॥ ४३॥
अङ्गारवासरवतीमिह यैश्चतुर्थीं
सम्प्राप्य मोदकभरैः परिमोदवद्भिः ।
पूजा व्यधायि विविधा तव गन्धमाल्यै-
स्तानत्र पुत्र विदधामि गणान्गणेश ॥ ४४॥
ये त्वामिह प्रतिचतुर्थि समर्चयन्ति
ढुण्ढे विगाढमतयः कृतिनस्त एव ।
सर्वापदां शिरसि वामपदं निधाय
सम्यग्गजानन गजाननतां लभन्ते ॥ ४५॥
माघशुक्लचतुर्थ्यां तु नक्तव्रतपरायणाः ।
ये त्वां ढुण्ढेऽर्चयिष्यन्ति तेऽर्च्याः स्युरसुरद्रुहाम् ॥ ४६॥
विधाय वार्षिकीं यात्रां चतुर्थीं प्राप्य तापसीम् ।
शुक्लां शुक्लतिलैर्बद्ध्वा प्राश्नीयाल्लड्डुकान्व्रती ॥ ४७॥
कार्या यात्रा प्रयत्नेन क्षेत्रसिद्धिमभीप्सुभिः ।
तस्यां चतुर्थ्यां त्वत्प्रीत्यै ढुण्ढे सर्वोपसर्गहृत् ॥ ४८॥
तां यात्रां नात्रयः कुर्यान्नैवेद्यतिललडुकैः ।
उपसर्गसहस्रैस्तु स हन्तव्यो ममाज्ञया ॥ ४९॥
होमं तिलाज्यद्रव्येण यः करिष्यति भक्तितः ।
तस्यां चतुर्थ्यां मन्त्रज्ञस्तस्य मन्त्रः प्रसेत्स्यति ॥ २.५७.५०॥
वैदिकोऽवैदिको वापि यो मन्त्रस्ते गजानन ।
जप्तस्त्वत्सन्निधौ ढुण्ढे सिद्धिं दास्यति वाञ्छिताम् ॥ ५१॥
ईश्वर उवाच ।
इमां स्तुतिं ममकृतिं यः पठिष्यति सन्मतिः ।
न जातु तं तु विघ्नौघाः पीडयिष्यन्ति निश्चितम् ॥ ५२॥
ढौण्ढीं स्तुतिमिमां पुण्यां यः पठेड्ढुण्ढिसन्निधौ ।
सान्निध्यं तस्य सततं भजेयुः सर्वसिद्धयः ॥ ५३॥
इमां स्तुतिं नरो जप्त्वा परं नियतमानसः ।
मानसैरपि पापैस्तैर्नाभिभूयेत कर्हिचित् ॥ ५४॥
पुत्रान्कलत्रं क्षेत्राणि वराश्वान्वरमन्दिरम् ।
प्राप्नुयाच्च धनं धान्यं ढुण्ढिस्तोत्रं जपन्नरः ॥ ५५॥
सर्वसम्पत्करं नाम स्तोत्रमेतन्मयेरितम् ।
प्रजप्तव्यं प्रयत्नेन मुक्तिकामेन सर्वदा ॥ ५६॥
जप्त्वा स्तोत्रमिदं पुण्यं क्वापि कार्ये गमिष्यतः ।
पुंसः पुरः समेष्यन्ति नियतं सर्वसिद्धयः ॥ ५७॥
इति श्रीस्कादपुराणे काशीखण्डे उत्तरार्द्धे सप्तपञ्चाशत्तमा- ध्यायान्तर्गतं
श्रीकण्ठप्रोक्तं ढुण्ढिस्तोत्रं समाप्तम् ।
स्कन्दपुराण । काशीखण्ड । उत्तरखण्ड । अध्याय ५७/१७-५१॥
skandapurANa . kAshIkhaNDa . uttarakhaNDa . adhyAya 57/17-51..
Proofread by PSA Easwaran