कैलासचतुर्द्वारस्थलिङ्गाभिधानम् १
(कैलासप्राग्द्वारस्थलिङ्गाभिधानस्तोत्रम् १)
ईश्वरः -
श्रीकैलासेश्वरो देवि भूतेशश्चाम्बिकेश्वरः ।
सूतेश्वरो गणेशेशस्स्कन्देशस्तारकेश्वरः ॥ १॥
गङ्गेश्वरो नन्दिकेशो भृङ्गीशो बाणकेश्वरः ।
चण्डीश्वरो मुण्डि(ञ्जि)केशो रत्नेशो गन्धकेश्वरः ॥ २॥
गर्भेश्वरोऽथ वीरेशो ज्येष्ठेशः कुसुमेश्वरः ।
वीरभद्रेश्वरो देवि कन्दुकेशः फणीश्वरः ॥ ३॥
सुधेश्वरो गभस्तीशो रुद्रेशो भैरवेश्वरः ।
करवीरेश्वरश्चैव निषधेशो वटेश्वरः ॥ ४॥
कच्छपेशः काश्यपेशश्चावटेशो घृणीश्वरः ।
कलशेशो देविकेशः पद्मेशो मगधेश्वरः ॥ ५॥
तुण्डेशश्चैव हुण्डेशस्सौरेशो वरुणेश्वरः ।
नैरृतेशो वैद्युतेशो मोक्षेशो दण्डकेश्वरः ॥ ६॥
मण्डलीशः कुण्डलीशः खण्डेशो भाण्डलीश्वरः ।
गण्डेशो गरुडेशच चन्द्रेशो मारुतेश्वरः ॥ ७॥
विधीश्वरस्सुधीशश्च तुण्डकेशो मुनीश्वरः ।
उमेश्वरः कपर्दीशो भद्रकर्णेश्वरस्तथा ॥ ८॥
वेगेश्वरोऽथ विष्ण्वीशो वैराजेशोऽमरेश्वरः ।
अहिर्बुध्न्येश्वरश्चैव जमदग्नीश्वरस्तथा ॥ ९॥
विश्वामित्रेश्वरश्चैव रावणेशो बलीश्वरः ।
मनोन्मनीश्वरश्चैव सुधाधामेश्वरोऽद्रिजे ॥ १०॥
मार्ताण्डेशो ललन्तीशस्स्वर्लीनेशो ध्रुवेश्वरः ।
गन्धर्वेशोऽतिविश्वेशः पारिभद्रेश्वरस्तथा ॥ ११॥
गर्भेशो मरुधन्वीशस्तोरणेशो धृतीश्वरः ।
उत्पलेशो महेन्द्रेशस्स्थाण्वेशो भरितेश्वरः ॥ १२॥
अनन्तेशः कर्दमेशो मृडेशो बभ्रुकेश्वरः ।
वागुरीशो वर्मकेशः पटभद्रेश्वरस्तथा ॥ १३॥
श्रामरेशो मृगेन्द्रेशो हिरण्येशः पवीश्वरः ।
आग्नीध्रीशस्सन्नतीशो बृहतीशो रणेश्वरः ॥ १४॥
किरातेशो गर्जकेशो वेणुदारेश्वरस्तथा ।
जयन्तेशो मध्यमेशस्सङ्गमेशोऽगतीश्वरः ॥ १५॥
विद्युद्गर्भेश्वरो देवि त्रिपुरेशो हरीश्वरः ।
बलप्रमथनेशश्च सर्वभूतदमेश्वरः ॥ १६॥
उशीनरेश्वरश्चैव गर्गेशो मन्त्रकेश्वरः ।
तन्त्रेश्वरस्सामकेशो व्योमकेशो दिगीश्वरः ॥ १७॥
कपालमोचनेशानो मणिगर्भेश्वरस्तथा ।
जातुकर्णेश्वरश्चैव नृगेशः पाटलेश्वरः ॥ १८॥
कर्णिकेशश्छत्रकेशः पिङ्गलेशश्शिलेश्वरः ।
मध्वीश्वरो वामकेशो यौवनेशस्स्थिरेश्वरः ॥ १९॥
भ्रान्तीश्वरोजह्नुकेशोगोमेदेशोऽखिलेश्वरः ।
विशालेशस्सिह्मिकेशोघण्टाकर्णेश्वरोऽद्रिजे ॥ २०॥
व्याघ्रेशो जम्बुकेशश्च ललितेशो धृतीश्वरः ।
वेदेश्वरो दिण्डिकेशः कहोलेशो ध्वनीश्वरः ॥ २१॥
बिन्दुकेशो गण्डकीशो नर्मदेशोऽनिलेश्वरः ।
पिचण्डिलेश्वरोऽत्रीशः कनकेशोऽध्वरेश्वरः ॥ २२॥
सद्योजातेश्वरश्चैव कुलिशेशः प्लवेश्वरः ।
सोमेश्वरो वारुणेशश्शरभेशो जटेश्वरः ॥ २३॥
भागकारेश्वरो मुग्धकेशो रोगेश्वरस्तथा ।
भल्लूकेशो विरागेशः क्रथनेशो धनेश्वरः ॥ २४॥
उरगेशः कठोरेशो दर्दुरेशोर्वरीश्वरौ ।
क्षिप्रेश्वरच दाल्भ्येशो विनतेशश्शशीश्वरः ॥ २५॥
ककुदेशो मुकुन्देशो भवानीशश्शनीश्वरः ।
वृषभेशो धेनुकेशस्संवर्तेशः कणेश्वरः ॥ २६॥
ऋक्षेश्वरच चन्द्रेशो मत्स्येशो भावनेश्वरः ।
तुरङ्गेशो मतङ्गेशः कणादेशो भगीश्वरः ॥ २७॥
जलन्धरेश्वरश्चैव श्वेताश्वेशः पिकेश्वरः ।
रैभ्येशो मुचुकुन्देशः कङ्कणेशः प्रथेश्वरः ॥ २८॥
विद्याधरेशो नीलेशः कक्षीबेशः प्रभेश्वरः ।
मरुतेशश्चकुर्तीशस्स्वर्गेशो मलयेश्वरः ॥ २९॥
मङ्कणेशो जागतीशो विबुधेशो गिरीश्वरः ।
चर्वणेशो निघूर्णेशो गोरक्षो वा गजेश्वरः ॥ ३०॥
कन्दर्पेशस्सूर्यकेशः पुष्टेशस्तुष्टकेश्वरः ।
विनायकेश्वरश्चैव मणिकण्ठेश्वरस्तथा ॥ ३१॥
रन्ध्रेशः पार्वतीशश्च विद्रुमेशो लतेश्वरः ।
विरिञ्चीशो भद्रकेशः प्रसन्नेशो विशेश्वरः ॥ ३२॥
भारभूतेश्वरश्चैव लोकेशः प्राणिकेश्वरः ।
अन्धकेशो मुक्तिकेशो हरिकेशो ऋषीश्वरः ॥ ३३॥
गारुडेशः पतङ्गेशः कन्येशो धवलेश्वरः ।
जातुकर्णेश्वरश्चैव गन्धभद्रेश्वरस्तथा ॥ ३४॥
चक्रेश्वरोऽरुणेशश्चाप्यदाल्भ्येशः खगेश्वरः ।
त्रियम्बकेश्वरश्चैव गौतमेशः खलेश्वरः ॥ ३५॥
वितण्डेशश्च कण्ठेशो वराहेशः कुलेश्वरः ।
केदारेशः फलेशश्च किन्नरेशोऽमृतेश्वरः ॥ ३६॥
कैलासशैलामलमौलिवर्ये प्राग्द्वारलिङ्गालयकल्पनं शिवे ।
ईशानकोणानलकोणसंस्थितं कैलास ईशाद्यमृतेश्वरान्तम् ॥ ३७॥
प्रोद्यत्पताकावलिमौलिकुम्भं मणीन्द्रधामस्थसुलिङ्गमण्डलम् ।
बिल्वोत्तमाङ्गं फणिभूषणाञ्चितं त्रिपुण्ड्रसंशोभितभालदेशम् ॥ ३८॥
पश्याद्रिजे लिङ्गकुलं ममेदं सन्दर्शनात्पापहरं सदैव ॥ ३९॥
॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये कैलासचतुर्द्वारस्थलिङ्गाभिधानम् -
१ - कैलासप्राग्द्वारस्थलिङ्गाभिधानस्तोत्रम् ॥
- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ४० - कैलासप्राग्द्वारस्थलिङ्गाभिधानम् । १-३९॥
- .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 40 - kailAsaprAgdvArasthalingAbhidhAnam . 1-39..
Notes:
Īśvara ईश्वर lists the names of the several Śivaliṅga-s शिवलिङ्ग around Kailāsa कैलास in the Four Cardinal direction - among which are the Śivaliṅga-s शिवलिङ्ग at the Eastern Gate spanning from īśanakoṇa ईशानकोण (North East) to the analakoṇa अनलकोण (South East). He mentions to Devī देवी; at the conclusion of the list of the Northen Gate, the merits of worshipping and reciting the names of all of the four groups of Śivaliṅga-s शिवलिङ्ग.
Encoded and proofread by Ruma Dewan