कैलासचतुर्द्वारस्थलिङ्गाभिधानम् ४
(कैलासोत्तरद्वारस्थलिङ्गाभिधानस्तोत्रम् ४)
ईश्वरः -
तदपि शृणु भक्त्या त्वं सुमनस्का सदाम्बिके ।
लिङ्गसङ्घं सुपुण्यानां मुकुटं पश्य पार्वति ॥ २॥
वामदेवेश्वरो देवि गिरिकेशस्सुकेश्वरः ।
बृहस्पतीश्वरचैव वर्धनेशः पिकेश्वरः ॥ ३॥
कोकिलेशः पिचण्डेशो वामकर्णेश्वरस्तथा ।
आनन्देशः कर्मरेशश्चामरेशः पतीश्वरः ॥ ४॥
वैराग्येशः कल्पकेशो हरिब्रह्मेश्वरस्तथा ।
गणेशस्त्रिगुणेशश्च ब्रह्माण्डेशश्शठेश्वरः ॥ ५॥
विलासेशस्सुकेशेशश्चामकेशः प्लवेश्वरः ।
अन्नकोशेश्वरश्चैव प्राणकोशेश्वरस्तथा ॥ ६॥
विज्ञानेशोऽघनाशेशश्चात्मेशोरक्षकेश्वरः ।
आहनन्येश्वरश्चैव मुग्धेशः कोटिकेश्वरः ॥ ७॥
निसर्पीशो नामनेशश्चाम्रेशः कमठेश्वरः ।
शनाशनेश्वरश्चैव चोरुगायेश्वरस्तथा ॥ ८॥
कपिञ्जलेश्वरश्चैव कर्केशष्षण्डकेश्वरः ।
असङ्गेशश्च सङ्गेशो ज्योतीशः कारणेश्वरः ॥ ९॥
हरिरुद्रेश्वरश्चैव कृपाणेशो निमीश्वरः ।
कनकावर्तकेशश्च हरीशो भारुणेश्वरः ॥ १०॥
आम्रेश्वरो (अभ्रेश्वरो) दभ्रकेशो दन्दशूकेश्वरस्तथा ।
उदारेशेन्दुमौलीशौ मखेशश्च सभेश्वरः ॥ ११॥
हरिकेशः किशोरेशः कुद्दालेशोऽर्भकेश्वरः ।
युवेश्वरश्च वृद्धेशो दर्दुरेशो ब्रसीश्वरः ॥ १२॥
मतीश्वरो वनस्थेशो ग्रहस्थेशोऽरिजेश्वरः ।
सहस्रेशश्शतेशश्च लक्षेशः कोटिकेश्वरः ॥ १३॥
चाषेश्वरो भानुकेशो दन्दिरावर्तिकेश्वरः ।
कस्तूरीशो मदन्तीशो मनस्वीशोऽर्बुदेश्वरः ॥ १४॥
ऐरावतेश्वरश्चैव तञ्जेशो लिन्दुकेश्वरः ।
अहङ्कारेश्वश्चैव भालनेत्रेश्वरस्तथा ॥ १५॥
तथैवैलबिलेशश्च कृकेशश्चरकेश्वरः (क्रकेशो) ।
पद्मासनेश्वरश्चैव वारेशस्तरगेश्वरः ॥ १६॥
वटमूलेश्वरश्चैव त्रसन्नेशो लुतीश्वरः ।
नकुलेशोऽथ वंशेशः पद्मनेत्रेश्वरस्तथा ॥ १७॥
उपशान्तेश्वरश्चैव दमेशो व्रतकेश्वरः ।
उलूकेशोऽथ रुण्डेशः कालेशः कमलेश्वरः ॥ १८॥
भगन्धरेश्वरश्चैव भद्रेशो भरणीश्वरः ।
अश्विनीशो रोहिणीशः पङ्कजेशोऽवटेश्वरः ॥ १९॥
निधनेशस्तथोर्ध्वेशो भस्मेशश्च समेश्वरः ।
भवेशश्चैव सर्वेशो वेदेशश्शाश्वतेश्वरः ॥ २०॥
ज्वालेश्वरस्सालकेशस्तमालेशः पुण्यकेश्वरः ।
उपध्येशोऽणिमाण्डेशस्सर्वरक्तेश्वरस्तथा ॥ २१॥
शुनःपर्णेश्वरश्चैव मादनेशः प्रथेश्वरः ।
शिपिविष्टेश्वरश्चैव अंशेशोऽथ मृगेश्वरः ॥ २२॥
गजाननेश्वरश्चैव बाणेशो वीरकेश्वरः ।
चण्डेश्वरश्च मुण्डेशश्चक्रेशः फणिकेश्वरः ॥ २३॥
अनसूयेश्वरश्चैव गन्धमादेश ईश्वरः ।
भण्डेश्वरः प्रजङ्घेशः कालकण्ठेश्वरस्तथा ॥ २४॥
मृत्युञ्जयेशश्शैलेशस्सारसेशोऽगतीश्वरः ।
स्वप्नेशो जाग्रतीशश्च सुषुप्तीशोऽहनीश्वरः ॥ २५॥
शितिकण्ठेश्वरश्चैव सूर्येशः कान्तिकेश्वरः ।
स्फटिकेशश्च रुद्रेशो वरदेशोऽनृणीश्वरः ॥ २६॥
शार्दूलेशो रभस्येशः पुण्ड्रेशो नटनेश्वरः ।
रुद्राक्षेशः कवीन्द्रेशः कवचेशो मणीश्वरः ॥ २७॥
पिलिप्पिलेश्वरश्चैव आमर्देशो द्रुणेश्वरः ।
पितामहेश्वरश्चैव कुटिलेशो झषेश्वरः ॥ २८॥
भरतेशः केसरीशश्चक्षुश्श्रोत्रेश्वरस्तथा ।
दण्डकेशश्च लङ्केशो मणिभद्रेश्वरस्तथा ॥ २९॥
घटोत्कचेश्वरश्चैव पुरेशोऽथ नटेश्वरः ।
करमर्देश्वरश्चैव तथैवाम्रातकेश्वरः ॥ ३०॥
फणिभूषेश्वरश्चैव रत्नभूतेश्वरस्तथा ।
विडालकेश्वरश्चैव अणीशो महतीश्वरः ॥ ३१॥
पूरुषेशोपरम्भेशौ गिरीशो रमणीश्वरः ।
कवङ्गेशः करीन्द्रेशो माघेशो वाष्कलेश्वरः ॥ ३२॥
महानादेश्वरश्चैव मण्डपेशो बलीश्वरः ।
जरितेशः (रजतेशः) कूर्मकेशश्चतुर्भद्रेश्वरस्तथा ॥ ३३॥
पुष्परागेश्वरश्चैव गोमेदेशो लवेश्वरः ।
तृतीश्वरः क्षपेशश्च प्रसादेशः कुलेश्वरः ॥ ३४॥
वज्रेश्वरः क्षेत्रकेशः कर्णिकारेश्वरस्तथा ।
करवीरेश्वरश्चैव पुण्डरीकेश्वरस्तथा ॥ ३५॥
वीणापाणीश्वर श्चैव तन्त्रीशो नागकेश्वरः ।
हाहाहूह्वीश्वरश्चैव पयोदेशः क्रथेश्वरः ॥ ३६॥
गुडसारेश्वरश्चैव श्वेतदानप्रदेश्वरः ।
प्रदानेशश्शिलादेशः कन्देशः पददेश्वरः ॥ ३७॥
त्रिलोचनेशो भाङ्क्षेशस्स्थूलकर्णेश्वरस्तथा ।
प्रकटेशो धारकेशः कोशातीतेश्वरस्तथा ॥ ३८॥
यन्त्रेश्वरश्च मन्त्रेशस्तथा कनखलेश्वरः ।
गर्गरेशः प्रतापेश आतार्येशः कुणीश्वरः ॥ ३९॥
भगीरथेश्वरश्चैव दिलीपेशः कृतीश्वरः ।
अनादीशो मन्त्रविदेश्वरो गुणहरेश्वरः ॥ ४०॥
शङ्गेश्वरः पिशङ्गेशः पार्येशस्तारणेश्वरः ।
ककारेशो मातृकेशः कुष्टहारीश्वरस्तथा ॥ ४१॥
हारीतेशस्तथाक्षेशो बकदाल्भ्येश्वरस्तथा ।
लोपामुद्रेश्वरश्चैव सुराभाण्डेश्वरस्तथा (कुम्भजन्मेश्वरस्तथा) ॥ ४२॥
मणिहस्तीश्वरश्चैव तथा चित्रध्वजेश्वरः ।
रत्नध्वजेश्वरश्चैव कामेशो रुद्रणीश्वरः ॥ ४३॥
अवन्तीशः कर्पटीशो ध्वजेशश्छत्रकेश्वरः ।
देवकन्येश्वरचैव नागकन्येश्वरस्तथा ॥ ४४॥
सत्येश्वरस्सुनाथेशः कुबेरेशो वनेश्वरः ।
पवित्रेशो वलक्षेशो महोक्षेशो नगेश्वरः ॥ ४५॥
सुधेशो विबुधेशश्च फुल्लशौलालिकेश्वरः ।
शयनेशो धावतेशस्समासीनेश्वरस्तथा ॥ ४६॥
सर्वकामसमृद्धीशस्सच्चिदेशस्सुखेश्वरः ।
प्रणतार्तिहरेशश्च पञ्चगव्ये(गङ्गे)श्वरस्तथा ॥ ४७॥
पद्मनाभेश्वरश्चैव पञ्चवक्त्रेश्वरस्तथा ।
पञ्चाक्षरेशञ्चन्देशस्सुदेशः कौशिकेश्वरः ॥ ४८॥
आदर्शेशः कालकेशः कालावर्तेश्वरस्तथा ।
ताम्रध्वजेश्वरश्चैव तथा हंसध्वजेश्वरः ॥ ४९॥
वृषध्वजेश्वरश्चैव तथा सिह्मध्वजेश्वरः ।
पिच्छेश्वरः कुमारेशो निषङ्गेशः कुलीश्वरः ॥ ५०॥
ईशानेशो विकर्तेशस्सुरभीशोऽणुकेश्वरः ।
सारङ्गेशः खङ्गकेशो बन्धुरेशो गमेश्वरः ॥ ५१॥
शचीश्वरो साधुरेशस्तथा रुद्रगणेश्वरः ॥
- -
(फलम्)
ईश्वरः -
एतत्तेदिव्यलिङ्गानां नामानि कथितान्युमे ।
यैदं प्रातरुत्थाय पूजयेत पठेतवै ॥ ५२॥
सकैलासस्थलिङ्गानां पूजाफलमवाप्नुयात् ।
लिङ्गाध्यायमिमं पुण्यं पठन्रुद्रगणो भवेत् ॥ ५३॥
सहस्त्रं कथितं तेषु तेषूत्कृष्टतमं शिवे ।
अनन्तान्यपिलिङ्गानि कोटीशः कमलानने ॥ ५४॥
सारभूतानि लिङ्गानि कथितानि तवाम्बिके ।
सन्ति कैलासशिखरे मयातूक्तानि पार्वति ॥ ५५॥
॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये कैलासचतुर्द्वारस्थलिङ्गाभिधानम् -
४ - कैलासोत्तरद्वारस्थलिङ्गाभिधानस्तोत्रम् ॥
- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ४३ - कैलासोत्तरद्वारस्थलिङ्गाभिधानम् । २-५५॥
- .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 43 - kailAsottaradvArasthalingAbhidhAnam . 2-55..
Notes:
Īśvara ईश्वर lists the names of the several Śivaliṅga-s शिवलिङ्ग around Kailāsa कैलास in the Four Cardinal direction - among which are the Śivaliṅga-s शिवलिङ्ग at the Northern Gate. He mentions to Devī देवी; at the conclusion of the list of the Northen Gate, the merits of worshipping and reciting the names of all of the four groups of Śivaliṅga-s शिवलिङ्ग.
Encoded and proofread by Ruma Dewan