शिवलिङ्गक्षेत्राण्येवं कैलासदर्शनमहिमवर्णनम्

शिवलिङ्गक्षेत्राण्येवं कैलासदर्शनमहिमवर्णनम्

॥ हिमावन्प्रति ईश्वरप्रोक्तं शिवलिङ्गक्षेत्राण्येवं कैलासदर्शनमहिमवर्णनम् ॥ (शिवरहस्यान्तर्गते कैलासदर्शनम् - ५) ईश्वरः (उवाच) दृष्टः कैलासशैलो मे त्वया नगवरोत्तम । दृष्टानि शिवलिङ्गानि सर्वपापहराण्यग ॥ २५.३४॥ काट्यर्बुदानि लिङ्गानि गोपुराण्यत्र सत्तम । प्रासादवरसौधाश्च किं दृष्टा मण्टपावलिः ॥ २५.३५॥ सरांसि रत्नकमलभ्राजिष्ण्वन्ति नगोत्तम । रत्नानां गिरयोऽप्यद्रे तन्मौलिमणिमण्टपाः ॥ २५.३६॥ कैलासेश्वरलिङ्गं मे दृष्टं मुक्तिप्रदायकं अम्बिकेशं सदाम्बाया हृदयागारसंस्थितम् ॥ २५.३७॥ गणानां भवनान्यत्र किं दृष्टानि त्वयानग(द्रिप) । महावनानि पुष्पोद्यत्सुरभीणि समन्ततः ॥ २५.३८॥ सहस्रलिङ्गधामोद्यत्कलशाली सुपुण्यदा । क्रीडारत्नमहासौधपङ्क्ती दृष्टा (पङ्क्तिर्दृष्टा) त्वयानग ॥ २५.३९॥ रम्यं बिल्ववनं दृष्टं मणिलिङ्गोरुमूलकम् । पुण्याश्चात्र सभादृष्टास्सेयं मे नर्तनस्य हि (नर्तनस्थली) ॥ २५.४०॥ सहस्रायुतलक्षोद्यत्कोटिस्तम्भोरुमण्टपाः । त्वया दृष्टा नगश्रेष्ठ सागरा मेरुपर्वतः ॥ २५.४१॥ शैलप्राकारराजश्री गोपुरालिवृषावली । दृष्टं भुवनगोलं ते शिवक्षेत्राण्यपि क्रमात् ॥ २५.४२॥ धन्यस्त्वं नगमूर्धन्य धन्यः कैलासदर्शकः । कैलासदर्शनेनाद्य सफलं ते जनुर्नग ॥ २५.४३॥ विष्णुब्रह्मादयो देवास्तथान्ये मुनयो गणाः । कैलासदर्शनार्थाय तप्यन्त्यद्यापि ते तपः ॥ २५.४४॥ किं ममैवानुग्रहेणैव (ममैवानुग्रहेण) कैलासस्याय (मत्कैलासस्य) दर्शनम् । महादानैश्च विविधैष्षोडशैश्च नगोत्तम ॥ २५.४५॥ मम कैलासभवनदर्शनं नैव जायते । कोटियज्ञतोभिश्च व्रतोपोषणकृच्छ्रकैः ॥ २५.४६/- ॥ मम कैलासभवनदर्शनं नैव जायते । अष्टाङ्गयोगैर्विविधैर्यमादिनियमासनैः ॥ २५.४७/४६॥ (अष्टाङ्गयोगैर्विविधैर्नियमादियमासनैः) ॥ २५.४७/४६॥ मम कैलासभवनदर्शनं नैव जायते । गवां कोटिप्रदानेनाप्यश्वमातङ्गकोटिभिः ॥ २५.४८/४७॥ (गवां कोटिप्रदाने अश्वमातङ्गकोटिभिः) ॥ २५.४८/४७॥ मम कैलासभवनदर्शनं नैव जायते । धनधान्यमणीनाञ्च वस्त्राभरणदानतः ॥ २५.४९॥ मम कैलासभवनदर्शनं नैव जायते । तीर्थप्रक्रमकन्यान्नदानैश्च गृहदानतः ॥ २५.५०॥ मम कैलासभवनदर्शनं नैव जायते । पानीयधूपदीपादिदानेनापि तपस्विषु ॥ २५.५१॥ मम कैलासभवनदर्शनं नैव जायते । वेद वेदान्तवादैश्च वर्णाश्रमरतात्मनाम् ॥ २५.५२॥ मम कैलासभवनदर्शनं नैव जायते । किन्तु प्रसादेन मम भक्त्या चैवाप्यनन्यया ॥ २५.५३॥ लभ्यते दर्शनं शैल मम कैलासमौलिगम् । अनन्यभावस्सततं भस्मपुण्ड्रोज्ज्वलोऽनिशम् ॥ २५.५४॥ रुद्राक्षहारवलयः पञ्चाक्षरपरायणः । रुद्रलिङ्गार्चनपरो रुद्राध्यायजपादरः ॥ २५.५५॥ शिवक्षेत्रैकवसतिस्तेन लभ्योऽयमद्रिराट् । किमुक्तेनापि बहुना लभ्योऽयं मदनुग्रहात् ॥ २५.५६॥ न देवो नैव गन्धर्वा ब्रह्मविष्णुमहेश्वराः मनसा तैरचिन्त्योऽयं कैलासो मम भूधरः ॥ २५.५७॥ ॥ इति शिवरहस्यान्तर्गते भवाख्ये कैलासदर्शने हिमावन्प्रति ईश्वरप्रोक्तं शिवलिङ्गक्षेत्राण्येवं कैलासदर्शनमहिमवर्णनम् ॥ - ॥ श्रीशिवरहस्यम् । भवाख्यः द्वितीयांशः । अध्यायः २५ । ३४-५७ ॥ - .. shrIshivarahasyam . bhavAkhyaH dvitIyAMshaH . adhyAyaH 25 - shivavAkyam .. Notes Īshvara ईश्वर speaks to Himāvan हिमावन् about his preceding experience of Kailāsadarshana कैलासदर्शन, and continues further to describe the various Śivaliṇga-Kṣetra-s शिवलिङ्गक्षेत्र in the region. Īshvara ईश्वर then outlines the several merits that alone do not earn such a visit, and that these are outweighed by Devotion towards Him. Śloka numbering differs amongst the two referenced texts. Proofread by Ruma Dewan
% Text title            : Kailasa Darshanamahima VarNanam
% File name             : kailAsadarshanamahimavarNanam.itx
% itxtitle              : kailAsadarshanam 5 kailAsadarshanamahimavarNanam shivaliNgakShetrANyevam (shivarahasyAntargatam)
% engtitle              : kailAsadarshanamahimavarNanam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | bhavAkhyaH dvitIyAMshaH | adhyAyaH 25 | 34-57||
% Indexextra            : (Scans 1, 2, Manuscript)
% Latest update         : September 15, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org