कैलासमौलिवर्णनम्
मणिद्वीपनीपान्प्रपश्याम्बिके त्वं तवापारमोदप्रदा सा च भूमिः ।
सुधासिन्धुकल्लोलशीतातिवातो महानन्दकन्दं विधत्ते महेशि ॥ १६॥
हरिन्मणिनिभेऽद्रिजे तव शरीरकान्त्याधिकं
समस्तकलधौतजोऽप्यगवरोऽयमप्युन्नतः ।
विभाति हरितप्रभस्समृगपक्षिवल्लीद्रुमः
प्रपश्य मुकुरेऽम्बिके तव सरूपभाग्याधिकः ॥ १७॥
मन्मौलिस्थितचन्द्रकान्तिनिकरैः कान्त्या स्वया शैलराट्
स्वाम्यापारशिखाभिनृत्तशिखिभिः पुंस्कोकिलानां रवैः ।
सारङ्गै रुरुकैर्बकैश्चमरिभिः प्रोद्भूतपुच्छेस्सदा
खड्गानां निवहैर्लुलायजकुलैः प्रोड्डीनदेणीकुलैः ॥ १८॥
हरितमणितृणाग्रं सञ्चरन्तश्चरन्ति कनकमयमृगास्ते मुक्तबिन्दूचिताङ्गाः ।
रजतनिभकपोता रत्नपादाः कणाशास्स्वकगलरणितैस्ते स्वप्रियापृष्ठलग्नाः ॥ १९॥
हंसानाञ्च कुलं स्ववक्त्रजमहामुक्ताफलैः पक्षति-
व्याधूनात्तदिगन्तकान्तिबहुलास्ते स्वच्छदेहामलाः ।
क्रीडन्ति प्रसभं प्रभूतपयसि प्रोत्फुल्लरक्ताब्जिनी-
मध्यस्था इव चक्रवाकजकुलं मौनं विधत्ते शिवे ॥ २०॥
सुखयति मृदुवातोऽप्यत्र भीत्या ममाद्य मृगमदसुमसंस्थैर्गन्धमाद्यत्परागैः ॥ २१॥
कस्तूरीमृगका अपि द्रुततरं धावन्ति गन्धाशया-
स्स्वस्याङ्गस्थितमप्युमे नहि तरां जानन्ति मूढा इव ।
देहेषु स्थितमप्युमे मुनिसुरा जानन्ति नो मां यथा
तद्वत्तेऽपि मृगा विमूढमतयः कैलासशैले मम ॥ २२॥
मृदुतरकेतकधूलीपालीपिञ्जरितशैलवरमानुः ।
कोनुसुस्वन्न भजेताप्यत्रस्था दिविषदो हसन्त्येव ॥ २३॥
हरिन्मणिनिभाश्शुका वदनरत्नगोमेदका-
स्सुरत्नमणिकल्पिताः कनकहीरनीलप्रभाः ।
वदन्ति नगमौलिगाश्शिव शिव प्रभो पाहिनः
प्रकृष्टदयया दृशा प्रमथनाथ कष्टं हर ॥ २४॥
सुशारिकसुकोकिला हर हरेश विश्वेश्वरा-
प्यनाथजनवत्सल पुरहर प्रपश्याद्यनः ।
इति ध्वनिकृतस्मदा शिखरिशीपजहता-
सुरत्नमणिसन्निभास्तरलकान्तरक्ताक्षकाः ॥ २५॥
पश्याद्रिजे किसलयं सुरसालजातं पुंस्कोकिलापलपनेन तुदन्ति भुक्तौ ।
कीरानने परिपतन्त्यलयः प्रकामं जम्बूफलभ्रमजितश्शुक एष मूढः ॥ २६॥
पलाशकलिका भ्रमन्मधुपरागसौख्यादसौ
यथाविषयिणोऽम्बिके सुकृततर्षदुःखाकुलाः ॥ २७॥
वृक्षालम्बितशृङ्खलासुचलिते वैडूर्यमञ्चे शिव-
स्तद्वत्पुष्पककान्तिरागविलसन्मञ्चस्थिता साम्बिका ।
डोलाडोलनकैर्वने विहरतस्स्वैरं शिवौ सुन्दरौ
देवीभिः कलितैस्सुचामरगणैस्सेव्यौ च वृत्तौ तदा ॥ २८॥
श्रीचन्दनप्रभवसारविलिप्तगात्रौ चिक्रीडतुर्नगसुमोद्धृतवायुगन्धैः ।
नखमुखविघटितदाडिमीफलोद्यन्मणिनिभबीजवरं ददाति देवी ॥ २९॥
स्वकराम्बुजसंस्थकीरवक्त्रच्छदनं वीक्ष्य महेशितुस्सहासम् ।
कीरोऽपि शङ्करमुखाब्जमवेक्ष्य देवीं नत्वा गिरा समभियाचत बालवाचा ॥ ३०॥
देहीश शङ्कर विभो शशिखण्डचूड माद्यद्रमालकदलीफलसारभङ्गम् ।
आज्ञापयेति तव नाम वदामि शम्भो विश्वेश चात्तुमिति तस्य गिरा सहासः ॥ ३१॥
इन्द्रनीलमणिकल्पितसौधे मञ्चसंस्रुतशशिद्युतिकान्ते ।
तल्पकेऽधिशयितस्य पुरारेः पादपङ्कजयुगं स्वकराब्जैः ॥ ३२॥
रङ्गमण्डलगता मुहुरम्बा वीणया वदति शङ्करनाम ॥
रत्नोत्थामलसौधभूमिषु पुरो देवस्य देव्याः पुरो
रुद्राण्यो नवयौवनावृतकुचाः क्रीडन्ति हल्लीसकैः ।
मल्लीगुच्छकचानताननकराः प्रोद्यज्झणन्नूपुराः
कैलासाचलमौलिगास्सुमधुरं गायन्ति नृत्यन्ति च ॥ ३३॥
॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये ईश्वरप्रोक्तं कैलासमौलीवर्णनम् ॥
- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः १८ - कैलासमौलीवर्णनम् । १६-३३॥
- .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 18 - kailAsamaulIvarNanam . 16-33..
Notes:
Description in this chapter is about the Mount Kailāsa peak कैलासमौली that is Abode of Śiva शिव and Devī देवी.
Śivarahasyam Aṃśaḥ-1 (Māheśvarākhya) शिवरहस्यम् अंशः-१ (माहेश्वराख्य) has several descriptions about Mount Kailāsa कैलास शैल and Śiva शिव. Selected verses from some of the chapters are presented here.
Encoded and proofread by Ruma Dewan