कैलासशैललिङ्गमहिमा
ईश्वरः -
पश्य लिङ्गानि मे देवि मणिधामगतान्युमे ।
धाममौलिमहाकुम्भधाराव्याप्तानि शङ्करि ॥ १॥
चन्द्रचन्दनलिप्तानि त्रिपुण्ड्रोज्वलितानि च ।
मणिमुन्दरमन्दारपुष्पमौलीनि शङ्करि ॥ २॥
बिल्वोत्तमाङ्गसौन्दर्यसारगर्भाणि पार्वति ।
वरकाकोदरानद्धफणाभूषणकान्यपि ॥ ३॥
नन्दनानन्दमालाभिश्चन्दनालङ्कृतान्यपि ।
दावदग्धागरुरसैर्धूपितानि सदाम्बिके ॥ ४॥
दीपितानि मणिज्वालाजालकान्तीनि पश्य मे ।
यथा मे देवदेवेशि मनो लिङ्गप्रपूजने ॥ ५॥
न तथा जगतो जालनिर्माण मे मनोऽम्बिके ।
तत्पालने तद्धनने नान्यधर्मेषु मे मनः ॥ ६॥
नगोऽयं मम कैलासस्सर्वानन्दपयोनिधिः ।
एतस्य तपसा तुष्टः प्रायच्छं वरमुत्तमम् ॥ ७॥
तवमौलो निवत्स्यामि नानालिङ्गसमाश्रयः ।
प्रलयेनैव नाशोऽस्ति मत्सान्निध्यवलात्तव ॥ ८॥
इत्युक्तो गिरिराजोऽयं ममानन्दप्रदस्सदा ।
(इत्युक्तो गिरिराजोऽयं ममानन्दप्रदस्शिवः ।)
प्रलये सागरास्सर्वे कैलासस्य शतोत्तरे ॥ ९॥
पादमूले स्थितिं देवि यास्यन्ति च नगा अपि ।
महर्लोकावधि महावीचीकल्लोलसङ्कुलैः ॥ १०॥
सप्तभिः पवनैर्वापि चालितास्ते तदाद्रिजे ।
हिमाचले मन्दरेऽपि केदारेश्वरसञ्ज्ञकः ॥ ११॥
निवत्स्यामि शुभापाङ्गि सदा लिङ्गाश्रयो हि सः ।
मेरावयि महादेवि शिखरं मम सुन्दरं ॥ १२॥
तदुत्तरेऽपिकैलासे नानालिङ्गैकभासुरम् ।
शिखरं तत्र देवैश्च पूजितो निवसाम्यहम् ॥ १३॥
एक एवाहमद्वैतो नीरूपोऽहमिहाद्रिजे ।
त्वया कैलासशिखरे तुष्टो वासमरोचयम् ॥ १४॥
सर्वावासोऽप्यहं देवि कैलासे निवसाम्यहम् ।
अनन्तार्बुदलिङ्गानि मम कैलासपर्वते ॥ १५॥
तत्प्रासादमणीरागशिखराद्योदितप्रभाः ।
तिरस्कृतार्कचन्द्रेन्द्रा न तच्छक्यं हि वर्णितुम् ॥ १६॥
तत्रापि कोटिलिङ्गानां गणना किल सुन्दरि ।
उत्तमेषु महादेवि तत्रापारेषु पार्वति ॥ १७॥
तत्रापि लिङ्गसाहस्रं ममैव प्रीतिदायकम् ।
दर्शनात्संस्पर्शनाच्च पूजनान्मोक्षदायकम् ॥ १८॥
विना ज्ञानेन तपसा कर्मणा श्रद्धया शिवे ।
नयज्ञैर्न व्रताचारैर्योगैस्साङ्ख्यैर्महेश्वरि ॥ १९॥
सागतिर्नैव लभ्येत यथा तल्लिङ्गपूजया ।
कैलासाचलमौलिस्थलिङ्गानां दर्शनं शिवे ॥ २०॥
दुर्लभं सर्वदेवानां नृणां किमुत शङ्करि ।
कैलासेश्वरमुख्यानि लिङ्गान्यत्यद्भुतानिच ॥ २१॥
मणिगर्भगृहाधारसंस्थितान्यगजे सदा ।
प्रोद्यत्कुम्भपताकानि मया सम्पूजितान्यपि ॥ २२॥
प्रातस्सङ्गवसायाह्नप्रदोषेषु महेश्वरि ।
तेषु लिङ्गावलिं भद्रे शृणु वक्ष्यामि सादरम् ॥ २३॥
कीर्तनश्रवणेनापि पापभेदीनि शङ्करि ।
स्वर्गापवर्गदान्याशु नृभिस्तङ्कीर्तितान्यपि ॥ २४॥
पूर्वतो मम कैलासे नानालिङ्गकुलेष्वपि ।
तग्निरेर्दक्षिणे चापि पश्चादपि शुभानने ॥ २५॥
तदुत्तरेऽपि देवेशि नानाज्योतिर्मयानि च ।
न शक्यं वर्णितुं देवि देवैश्शेषेण भामिनि ॥ २६॥
आद्यं मङ्गलदं देवि कैलासेश्वरसञ्ज्ञितम् ।
यन्नवेदैरपिज्ञातं वेदान्तैरखिलैरपि ॥ ४२॥
अस्मिन्नेव लयं यान्ति ब्रह्मविष्णुमहेश्वराः ।
(अत्रैवान्तेलयं यान्ति ब्रह्मविष्णुमहेश्वराः) ।
लयनात्सर्वजगतां लिङ्गमित्युच्यते बुधैः ॥ ४३॥
ममैव निर्गुणं साक्षाद्रूपमेतन्महेश्वरि ।
अस्यैव भासा सर्वेऽपि भान्ति लोकाश्चतुर्दश ॥ ४४॥
अस्यैव चेतनात्सर्वजगच्चेतयति प्रिये ।
अस्यैवानन्दलेशेन सर्वानन्दमयं प्रिये ॥ ४५॥
लिङ्गमेतद्भूमधामसोमधामप्रभाधिकम् ।
एतद्ब्रह्मैव देवेशि ममैव परमं प्रियम् ॥ ४६॥
यस्मिन्त्सम्पूजितेज्ञातेध्यातेस्वात्मनिशैलजे ।
लिङ्गीलिङ्गातिगोभातितदिदंलिङ्गमुत्तमम् ॥ ५३॥
नामरूपातिगं भाति कैलासेश्वरसञ्ज्ञितम् ।
तन्नामानि शृणुष्वार्ये सादरं कमलानने ॥ ५४॥
॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये कैलासशैललिङ्गमहिमा ॥
- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ३९ - कैलासशैललिङ्गमहिमा । वावृत्तश्लोकाः ॥
- .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 39 - kailAsashailalingamahimA . vAvRRittashlokAH ..
Notes:
Īśvara ईश्वर describes to Devī देवी about His Residence and the several Śivaliṅga-s शिवलिङ्ग at Kailāsa कैलास, especially the Kailāseśvaraliṅga कैलासेश्वरलिङ्ग.
Śivarahasyam Aṃśaḥ-1 (Māheśvarākhya) शिवरहस्यम् अंशः-१ (माहेश्वराख्य) has several descriptions about Mount Kailāsa कैलास शैल and Śiva शिव. Selected verses from some of the chapters are presented here.
Encoded and proofread by Ruma Dewan