कैलासशैलप्राकारवर्णनम् १

कैलासशैलप्राकारवर्णनम् १

(कैलासशैले अष्टदिग्गोपुरवर्णनम् १) मुनिदेवगणा ऊचुः - कुमारमारसङ्काश मारमाराङ्गसम्भव । उमारमणपादाब्जध्यानमारित पातक ॥ १॥ अमरारिमहाशूर तारकासुरसंहृते । त्वत्तशश्रुतमरेषेण कैलासेश्वरपूजनम् ॥ २॥ भवद्वक्त्रोत्थितशिवकथानन्दितमानसाः । निर्धूतपातका जाता धन्याः पावनपावनाः ॥ ३॥ पुनश्शिवकथासिन्धुतरङ्गोद्यतमानसान् । कुरुष्व त्रिपुरारातिवरपुत्रातुलमभ ॥ ४॥ सूत उवाच - इत्थं देवैश्च मुनिभिर्गणेन्द्रैः प्रार्थितस्तदा । कुमारः प्राह तान्धन्याञ्जैगीषव्यं पुरस्स्थितम् ॥ ५॥ परिणतहिमधामकान्तवक्त्रो विकचसुतामरलोचनो नगारिः । नवचम्पकङुड्भलाभनासः कुरुविन्दाभरदो बभाण विप्रम् ॥ ६॥ स्कन्द उवाच - पर्णादा मुनयस्सर्वे चापर्णापतिवैभवम् । तूर्णमभ्यर्णगास्सर्वे समाकर्णयताधुना ॥ ७॥ सुपर्णवाहनाद्याश्च यूयं कर्णरसायनम् । अर्णवान्तर्निवसतेश्चरितं वर्णयाम्यहम् ॥ ८॥ महाकैलासभूभागे पञ्चकोटिप्रमाणके । शैलप्राकारमद्धये तु गणानां वसतिः कृता ॥ ९॥ नवलक्षप्रमाणेन पूर्वद्वारादिगोपुरम् । नीलशैलजसारेण नानारुद्रगणान्वितम् ॥ १०॥ पट्टिकापिण्डिकाद्यैश्च देवकोट्या सुशोभितम् । महद्भिरुच्छ्रितैश्श‍ृङ्गैरुल्लिखन्तमिवाम्बरम् ॥ ११॥ दशशसाहस्रफलकैर्गवाक्षितमिवस्थितम् । वृषभैश्च शिलाराजद्भद्ररूपैः परीवृतम् ॥ १२॥ नन्दीश्वराल्यं तत्र हेमरौप्यविराजितम् । नानासौधतलोपेत वनवाटीविराजितम् ॥ १३॥ सहस्रस्तम्भसंयुक्तं पताकोज्वलकुम्भकम् । कक्ष्यागवाक्षविततं सिंहासनवरान्वितम् ॥ १४॥ तत्रस्थनन्दिकेशानं स्वर्णवेत्रलसत्करम् । नवरत्नप्रभाभास्वत्किरीटकसुशोभितम् ॥ १५॥ सोमधामसमानास्यं राजद्बालेन्दुशेखरम् । चतुर्भुजमुदाराङ्गं त्रिपुण्ड्रोज्वलभालकम् ॥ १६॥ भस्माभ्यक्तं जटाशोभिमस्तकं रक्तकुण्डलम् । मुक्तान्तरितरुद्राक्षमालाशतविराजितम् ॥ १७॥ सुयशापतिमाशास्यध्यानपूतहृदन्तरम् । गणेन्द्रैश्च मुनीन्द्रैश्च सुरेन्द्रैर्न्नादादिभिः ॥ १८॥ गन्धर्वाप्सरसां सङ्घैः रुद्रैर्न्नगैश्च सिद्धकैः । उपासितं महात्मानमिन्द्रेण मरुतो यथा ॥ १९॥ सेवितं नन्दिकेशानं प्रमथैः परिवारितम् । तत्रालयं महेशस्य नवरत्नविचित्रितम् ॥ २०॥ हेमप्राकारसम्पन्नं नानावृषभशोभितम् । गर्भागारं तत्र शम्भोस्स्फटिकोपलनिर्मितम् ॥ २१॥ नन्दीश्वराभिधं लिङ्गं तत्रास्त्येकं मनोहरम् । दर्शनात्स्पर्शनाच्चापि पापसङ्घनिबर्हणम् ॥ २२॥ धूपैर्दीपोपहाराद्यर्भक्ष्यैर्भोज्यैश्च नित्यशः । कमलामलमालाभिर्नीलोत्पलसहस्नकैः ॥ २३॥ बिल्वचम्पकपुन्नागवकधुर्तूरपाटलैः । सहस्रबिल्वपत्रैश्च पञ्चामृतनिषेचनैः ॥ २४॥ साम्राण्यगरुधूपैश्च दीपैः कर्पूरखण्डजैः । पूजयन्तं महेशानं नन्दिकेशं शिलादजम् ॥ २५॥ स्तोत्रैस्स्तुवन्तमीशानं त्रिकालं सावधानतः । तत्स्तुतिं कथयाम्यद्य तन्मुने श्रुणु सादरम् ॥ २६॥ - - नन्दिकेश्वर उवाच - इन्दुखण्डललितामलमौले कुन्दकान्तिसदृशोत्तमदेह । इन्दिरारमणलोचनपूज्य मन्मनोगहनपङ्कजवास ॥ २७॥ - - स्कन्द उवाच - इत्य स्तुवन्तन्तलिङ्गं प्राकप्राकारस्य सौधगः । संस्थितस्सुयशानाथो गणकोटिपरीवृतः ॥ २८॥ निषधो हेमकूटश्च प्राकप्राकारस्य पर्वताः । पञ्चलक्षप्रमाणेन तत्रैवाग्नेयगोपुरम् ॥ २९॥ रुद्रावतारचरितैर्वृषभैश्शिखरैर्वृतम् । तत्रालयं महेशस्य गणेन्द्रस्य महात्मनः ॥ ३०॥ लिङ्गाकारं तत्र शम्भुस्सुकेशेश्वरसञ्ज्ञकः । पूजितो गणपेन्द्रेण गणलक्षपरीवृतः ॥ ३१॥ सुकेशेन स्तुतं लिङ्गं सुकेशेश्वरसञ्ज्ञितम् । पूजितञ्च त्रिलोकेषु बिल्वपत्रैस्सुमैस्तथा ॥ ३२॥ - - सुकेशः - पञ्चकोशगगनातिग शम्भो व्योमकेश गुणसारसहंस । काशिकापुरनिवास महेश पाहि शङ्कर सुकेशमहेश ॥ ३३॥ - - नीलश्च मन्दरश्चैव प्राकारे दक्षिणे नगाः । तत्रापि गोपुरं शम्भोर्नानारुद्रगणावृतम् ॥ ३४॥ दशलक्षप्रमाणेन चोच्छ्रितं गगनातिगम् । उल्लिखन्तं देवमार्गं सहस्रतलसंयुतम् ॥ ३५॥ रुद्रावतारक्रीडाभिर्वृषस्तम्भैश्च शोभितम् । चण्डीश्वरालयं तत्र तप्तहेमविभूषितम् ॥ ३६॥ सहस्रस्तम्भसंयुक्तं मुक्तावितततोरणम् । नीलसन्मणिकॢप्तञ्च कक्ष्याशतविराजितम् ॥ ३७॥ सोपानै रत्नसञ्छन्नैरुपेतं वनभूषितम् । (सौधापारलसच्छृङ्गैरुपेतं वनभूषितम् ।) तत्र सिह्मासनासीनं विद्युत्पिङ्गजटाधरम् ॥ ३८॥ पर्वशर्वरिनाथार्धधरं भस्मविभूषितम् । त्रिपुण्ड्रविलसद्भालं रुद्राक्षाभरणान्वितम् ॥ ३९॥ महार्हवसनोपेतं नानारत्नपरिष्कृतम् । निमीलिताक्षं ध्यायन्तं दिव्यं शम्भोः पदाम्बुजम् ॥ ४०॥ किम्पूरुषैस्सिद्धसाध्यैर्मुनिबृन्दैर्यमेन च । गणेन्द्रैस्सेवितपदं रुद्रसङ्घैर्निषेवितम् ॥ ४१॥ तत्रेश्वरस्य सदनं मदनान्तकरस्य च । प्राकारगोपुरोपेतं नवरन्नप्रकल्पितम् ॥ ४२॥ चण्डिकेशेश्वरं लिङ्गञ्चण्डपापप्रणाशनम् । तल्लिङ्गज्योतिषा सर्वेद्ययोदितास्सूर्यसोमकाः ॥ ४३॥ तल्लिङ्गं पूजयत्येष चण्डिकेशस्रिकालतः । बिल्वैर्मन्दारकुसुमैर्मल्लिकाकरवीरकैः ॥ ४४॥ कर्णिकारैरपामार्गैर्मालतीभिश्च शङ्करम् । धूपदीपोपहाराद्यैर्नर्तनैः करतालकैः ॥ ४८॥ स्तोत्रैस्स्तौति महादेवं प्राञ्जलिश्चण्डिकेश्वरः ॥ ४६॥ - - चण्डिकेश्वरः - चण्डीश खण्डपरशो शशिखण्डचूड ब्रह्माण्डमौलिग धराधरकार्मुकेश । विध्युत्थमुण्डवरमालक कुण्डलीश चोच्चण्डताण्डव महेश्वर शूलदण्ड ॥ ४७॥ - - श्री स्कन्द उवाच - इत्थं विधाय स्तुतिमादरेण चण्डीश्वरस्रिजगतां पतिमिन्दुमौळिम् । नत्वा महेश्वरपदाम्बुरुहं सदैव ध्यायन्त्सदैव हृदयाब्जसुखं विधत्ते ॥ ४८॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये कैलासशैले अष्टदिग्गोपुरवर्णनम् १॥ - ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः १४ - कैलासप्राकारवर्णनम् ॥ - .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 14 - kailAsaprAkAravarNanam .. Notes: Skanda स्कन्द; being requested by Jaigīṣavya जैगीषव्य, describes in detail about regions of Mount Kailāsa कैलास शैल prAkAra amongst which is the abode of Maheśa महेश and several Rudragaṇa-s रुद्रगण. He describes the residences of (and the Śivaliṅga शिवलिङ्ग worshipped by) Nandikeśa नन्दिकेश (Nandikeśvaraliṅga नन्दिकेश्वरलिङ्ग), Caṇḍīśvara चण्डीश्वर (Caṇḍīśvaraliṅga चण्डीश्वरलिङ्ग), Sukeśa सुकेश (Sukeśvaraliṅga सुकेश्वरलिङ्ग) in respective directions of the eight - starting with East. The description would be continued in the subsequent adhyāya अध्याय. Śivarahasyam Aṃśaḥ-1 (Māheśvarākhya) शिवरहस्यम् अंशः-१ (माहेश्वराख्य) has several descriptions about Mount Kailāsa कैलास शैल and Śiva शिव. Selected verses from some of the chapters are presented here. Encoded and proofread by Ruma Dewan
% Text title            : Kailasashailaprakaravarnanam 1
% File name             : kailAsashailaprAkAravarNanam1.itx
% itxtitle              : kailAsashailaprAkAravarNanam 1 (shivarahasyAntargatA)
% engtitle              : kailAsashailaprAkAravarNanam 1
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | mAheshvarAkhyaH prathamAMshaH | adhyAyaH 14 - kailAsaprAkAravarNanam ||
% Indexextra            : (Scans 1, 2)
% Latest update         : December 17, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org