कैलासशैलप्राकारवर्णनम् १
(कैलासशैले अष्टदिग्गोपुरवर्णनम् १)
मुनिदेवगणा ऊचुः -
कुमारमारसङ्काश मारमाराङ्गसम्भव ।
उमारमणपादाब्जध्यानमारित पातक ॥ १॥
अमरारिमहाशूर तारकासुरसंहृते ।
त्वत्तशश्रुतमरेषेण कैलासेश्वरपूजनम् ॥ २॥
भवद्वक्त्रोत्थितशिवकथानन्दितमानसाः ।
निर्धूतपातका जाता धन्याः पावनपावनाः ॥ ३॥
पुनश्शिवकथासिन्धुतरङ्गोद्यतमानसान् ।
कुरुष्व त्रिपुरारातिवरपुत्रातुलमभ ॥ ४॥
सूत उवाच -
इत्थं देवैश्च मुनिभिर्गणेन्द्रैः प्रार्थितस्तदा ।
कुमारः प्राह तान्धन्याञ्जैगीषव्यं पुरस्स्थितम् ॥ ५॥
परिणतहिमधामकान्तवक्त्रो विकचसुतामरलोचनो नगारिः ।
नवचम्पकङुड्भलाभनासः कुरुविन्दाभरदो बभाण विप्रम् ॥ ६॥
स्कन्द उवाच -
पर्णादा मुनयस्सर्वे चापर्णापतिवैभवम् ।
तूर्णमभ्यर्णगास्सर्वे समाकर्णयताधुना ॥ ७॥
सुपर्णवाहनाद्याश्च यूयं कर्णरसायनम् ।
अर्णवान्तर्निवसतेश्चरितं वर्णयाम्यहम् ॥ ८॥
महाकैलासभूभागे पञ्चकोटिप्रमाणके ।
शैलप्राकारमद्धये तु गणानां वसतिः कृता ॥ ९॥
नवलक्षप्रमाणेन पूर्वद्वारादिगोपुरम् ।
नीलशैलजसारेण नानारुद्रगणान्वितम् ॥ १०॥
पट्टिकापिण्डिकाद्यैश्च देवकोट्या सुशोभितम् ।
महद्भिरुच्छ्रितैश्शृङ्गैरुल्लिखन्तमिवाम्बरम् ॥ ११॥
दशशसाहस्रफलकैर्गवाक्षितमिवस्थितम् ।
वृषभैश्च शिलाराजद्भद्ररूपैः परीवृतम् ॥ १२॥
नन्दीश्वराल्यं तत्र हेमरौप्यविराजितम् ।
नानासौधतलोपेत वनवाटीविराजितम् ॥ १३॥
सहस्रस्तम्भसंयुक्तं पताकोज्वलकुम्भकम् ।
कक्ष्यागवाक्षविततं सिंहासनवरान्वितम् ॥ १४॥
तत्रस्थनन्दिकेशानं स्वर्णवेत्रलसत्करम् ।
नवरत्नप्रभाभास्वत्किरीटकसुशोभितम् ॥ १५॥
सोमधामसमानास्यं राजद्बालेन्दुशेखरम् ।
चतुर्भुजमुदाराङ्गं त्रिपुण्ड्रोज्वलभालकम् ॥ १६॥
भस्माभ्यक्तं जटाशोभिमस्तकं रक्तकुण्डलम् ।
मुक्तान्तरितरुद्राक्षमालाशतविराजितम् ॥ १७॥
सुयशापतिमाशास्यध्यानपूतहृदन्तरम् ।
गणेन्द्रैश्च मुनीन्द्रैश्च सुरेन्द्रैर्न्नादादिभिः ॥ १८॥
गन्धर्वाप्सरसां सङ्घैः रुद्रैर्न्नगैश्च सिद्धकैः ।
उपासितं महात्मानमिन्द्रेण मरुतो यथा ॥ १९॥
सेवितं नन्दिकेशानं प्रमथैः परिवारितम् ।
तत्रालयं महेशस्य नवरत्नविचित्रितम् ॥ २०॥
हेमप्राकारसम्पन्नं नानावृषभशोभितम् ।
गर्भागारं तत्र शम्भोस्स्फटिकोपलनिर्मितम् ॥ २१॥
नन्दीश्वराभिधं लिङ्गं तत्रास्त्येकं मनोहरम् ।
दर्शनात्स्पर्शनाच्चापि पापसङ्घनिबर्हणम् ॥ २२॥
धूपैर्दीपोपहाराद्यर्भक्ष्यैर्भोज्यैश्च नित्यशः ।
कमलामलमालाभिर्नीलोत्पलसहस्नकैः ॥ २३॥
बिल्वचम्पकपुन्नागवकधुर्तूरपाटलैः ।
सहस्रबिल्वपत्रैश्च पञ्चामृतनिषेचनैः ॥ २४॥
साम्राण्यगरुधूपैश्च दीपैः कर्पूरखण्डजैः ।
पूजयन्तं महेशानं नन्दिकेशं शिलादजम् ॥ २५॥
स्तोत्रैस्स्तुवन्तमीशानं त्रिकालं सावधानतः ।
तत्स्तुतिं कथयाम्यद्य तन्मुने श्रुणु सादरम् ॥ २६॥
- -
नन्दिकेश्वर उवाच -
इन्दुखण्डललितामलमौले कुन्दकान्तिसदृशोत्तमदेह ।
इन्दिरारमणलोचनपूज्य मन्मनोगहनपङ्कजवास ॥ २७॥
- -
स्कन्द उवाच -
इत्य स्तुवन्तन्तलिङ्गं प्राकप्राकारस्य सौधगः ।
संस्थितस्सुयशानाथो गणकोटिपरीवृतः ॥ २८॥
निषधो हेमकूटश्च प्राकप्राकारस्य पर्वताः ।
पञ्चलक्षप्रमाणेन तत्रैवाग्नेयगोपुरम् ॥ २९॥
रुद्रावतारचरितैर्वृषभैश्शिखरैर्वृतम् ।
तत्रालयं महेशस्य गणेन्द्रस्य महात्मनः ॥ ३०॥
लिङ्गाकारं तत्र शम्भुस्सुकेशेश्वरसञ्ज्ञकः ।
पूजितो गणपेन्द्रेण गणलक्षपरीवृतः ॥ ३१॥
सुकेशेन स्तुतं लिङ्गं सुकेशेश्वरसञ्ज्ञितम् ।
पूजितञ्च त्रिलोकेषु बिल्वपत्रैस्सुमैस्तथा ॥ ३२॥
- -
सुकेशः -
पञ्चकोशगगनातिग शम्भो व्योमकेश गुणसारसहंस ।
काशिकापुरनिवास महेश पाहि शङ्कर सुकेशमहेश ॥ ३३॥
- -
नीलश्च मन्दरश्चैव प्राकारे दक्षिणे नगाः ।
तत्रापि गोपुरं शम्भोर्नानारुद्रगणावृतम् ॥ ३४॥
दशलक्षप्रमाणेन चोच्छ्रितं गगनातिगम् ।
उल्लिखन्तं देवमार्गं सहस्रतलसंयुतम् ॥ ३५॥
रुद्रावतारक्रीडाभिर्वृषस्तम्भैश्च शोभितम् ।
चण्डीश्वरालयं तत्र तप्तहेमविभूषितम् ॥ ३६॥
सहस्रस्तम्भसंयुक्तं मुक्तावितततोरणम् ।
नीलसन्मणिकॢप्तञ्च कक्ष्याशतविराजितम् ॥ ३७॥
सोपानै रत्नसञ्छन्नैरुपेतं वनभूषितम् ।
(सौधापारलसच्छृङ्गैरुपेतं वनभूषितम् ।)
तत्र सिह्मासनासीनं विद्युत्पिङ्गजटाधरम् ॥ ३८॥
पर्वशर्वरिनाथार्धधरं भस्मविभूषितम् ।
त्रिपुण्ड्रविलसद्भालं रुद्राक्षाभरणान्वितम् ॥ ३९॥
महार्हवसनोपेतं नानारत्नपरिष्कृतम् ।
निमीलिताक्षं ध्यायन्तं दिव्यं शम्भोः पदाम्बुजम् ॥ ४०॥
किम्पूरुषैस्सिद्धसाध्यैर्मुनिबृन्दैर्यमेन च ।
गणेन्द्रैस्सेवितपदं रुद्रसङ्घैर्निषेवितम् ॥ ४१॥
तत्रेश्वरस्य सदनं मदनान्तकरस्य च ।
प्राकारगोपुरोपेतं नवरन्नप्रकल्पितम् ॥ ४२॥
चण्डिकेशेश्वरं लिङ्गञ्चण्डपापप्रणाशनम् ।
तल्लिङ्गज्योतिषा सर्वेद्ययोदितास्सूर्यसोमकाः ॥ ४३॥
तल्लिङ्गं पूजयत्येष चण्डिकेशस्रिकालतः ।
बिल्वैर्मन्दारकुसुमैर्मल्लिकाकरवीरकैः ॥ ४४॥
कर्णिकारैरपामार्गैर्मालतीभिश्च शङ्करम् ।
धूपदीपोपहाराद्यैर्नर्तनैः करतालकैः ॥ ४८॥
स्तोत्रैस्स्तौति महादेवं प्राञ्जलिश्चण्डिकेश्वरः ॥ ४६॥
- -
चण्डिकेश्वरः -
चण्डीश खण्डपरशो शशिखण्डचूड ब्रह्माण्डमौलिग धराधरकार्मुकेश ।
विध्युत्थमुण्डवरमालक कुण्डलीश चोच्चण्डताण्डव महेश्वर शूलदण्ड ॥ ४७॥
- -
श्री स्कन्द उवाच -
इत्थं विधाय स्तुतिमादरेण चण्डीश्वरस्रिजगतां पतिमिन्दुमौळिम् ।
नत्वा महेश्वरपदाम्बुरुहं सदैव ध्यायन्त्सदैव हृदयाब्जसुखं विधत्ते ॥ ४८॥
॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये कैलासशैले अष्टदिग्गोपुरवर्णनम् १॥
- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः १४ - कैलासप्राकारवर्णनम् ॥
- .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 14 - kailAsaprAkAravarNanam ..
Notes:
Skanda स्कन्द; being requested by Jaigīṣavya जैगीषव्य, describes in detail about regions of Mount Kailāsa कैलास शैल prAkAra amongst which is the abode of Maheśa महेश and several Rudragaṇa-s रुद्रगण. He describes the residences of (and the Śivaliṅga शिवलिङ्ग worshipped by) Nandikeśa नन्दिकेश (Nandikeśvaraliṅga नन्दिकेश्वरलिङ्ग), Caṇḍīśvara चण्डीश्वर (Caṇḍīśvaraliṅga चण्डीश्वरलिङ्ग), Sukeśa सुकेश (Sukeśvaraliṅga सुकेश्वरलिङ्ग) in respective directions of the eight - starting with East. The description would be continued in the subsequent adhyāya अध्याय.
Śivarahasyam Aṃśaḥ-1 (Māheśvarākhya) शिवरहस्यम् अंशः-१ (माहेश्वराख्य) has several descriptions about Mount Kailāsa कैलास शैल and Śiva शिव. Selected verses from some of the chapters are presented here.
Encoded and proofread by Ruma Dewan