कैलासशैलप्राकारवर्णनम् ३

कैलासशैलप्राकारवर्णनम् ३

(कैलासशैले पञ्चब्रह्मप्राकारवर्णनम् ३) स्कन्द उवाच- श्रुणुध्वं ब्रह्मविच्छ्रेष्ठा (ब्रह्मविष्णवाद्या) मुनयश्च गणोत्तमाः (तपोधनाः) । जैगीषव्य महाप्राज्ञ श‍ृणुध्वममलाः कथाः ॥ ७॥ शम्भोर्विचित्रविभवाश्श्रोत्रपावामलाः कथाः । क्षीरोदधिमहाखातप्राकारोऽस्तितदन्तरः ॥ ८॥ (तत्पुरुष) उद्भूतचन्द्रकिरणैस्तरङ्गचैव भासुरः । रजतोच्छ्रायश‍ृङ्गाग्रो महावृषभलाञ्छितः ॥ ९॥ नानागोपुररत्नौघप्रभाभासितदिङ्मुखः । स्फटिकैः कृतदेवेशवरसुन्दरविग्रहैः ॥ १०॥ शोभितो गोपुराणाञ्च समूहैः परिशोभितः । तत्पूर्वदेशे देवस्य तत्पूर्वस्य मनोहरम् ॥ ११॥ गोपुरं सौधसुभगं स्तम्भविद्रुमपुत्रिकम् । मणिकॢप्ताच्छवलभीनिर्यत्पारावतीगणम् ॥ १२॥ तत्र सिंहासनवरं नवरत्नविचित्रितम् । तत्र स्थितं गणैर्देवैश्शूलतेजोलसत्करैः ॥ १३॥ कपर्दधृतचन्द्रार्कैर्भसितामललोचनैः । त्रिपुण्ड्रविलसद्भालैर्विलसद्भाललोचनैः ॥ १४॥ रत्नान्तरितरुद्राक्षमालालळितकन्धरैः । नीरदोद्यत्प्रभाभास्वन्नीरजोपमकन्धरैः ॥ १५॥ वाताशनकृतोच्छ्वासचलद्धारमनोहरैः । महाडमरुनादेन भीषिताखिलदिक्तटैः ॥ १६॥ फणामणिकृतापारनूपुराङ्गदकङ्कणैः । रणन्मञ्जीरवलयैस्सिंहसंहननैर्गणैः ॥ १७॥ पुण्डरीकाजिनभवत्कृष्णरेखाकटीतटैः । महेभचर्मवसनैर्बालातपसमप्रभैः ॥ १८॥ गणेन्द्रैर्वारणेन्द्राभैः करिशुण्डोरुबाहुभिः । अहिमन्युभिरुत्कृष्टैः कोटिभिर्गणपैर्वृतः ॥ १९॥ पृषत्ककरनिस्तृंशवाणासनधरैर्वरैः । पूर्वतो भातितत्पूर्षश्चेन्दुकुन्दसमप्रभः ॥ २०॥ जटामुकुटसंशोभिराजराजकलाधरः । भस्माभ्यक्तस्त्रिपुण्ड्राङ्कचतुर्बाहुरुदारधीः ॥ २१॥ त्रिणेत्रो नीलकण्ठश्च बालसूर्यायुतप्रभः । तत्पूरुषं महालिङ्गं सम्पूज्य वरिवस्यया ॥ २२॥ समर्चयति विप्रेन्द्र बिल्वपत्त्रैश्शिवार्चकः । स्तुवते सावधानेन तल्लिङ्गं रत्नधामगम् ॥ २३॥ - - तत्पुरुषः - स्वच्छछत्राभिरामं छविजितरजतं छन्दसाङ्गीततुष्टम् स्वच्छन्दायां निरिच्छोदधिनिजमहिगोच्छन्नमच्छाच्छदेहम् । छद्मेभारिछदाच्छछदमजमजरं पिञ्छतापिञ्छगुच्छ- छायासछायवामाङ्गममदधिषणे सद्विपच्छेदनेच्छम् ॥ २४॥ आशीविषाङ्गद सदैव महेश काशीवासीकृतानन्दवन प्रसीद । संसारवाराशितरे पुरारे कीनाशनाश भयमाशु विनाशयाय ॥ २५॥ - - स्कन्दः - इत्थं स्तौति सदाकालं पुरुषः पुरुषेश्वरम् । (इत्थं स्तौति सदाकालं तत्पूरुषः परमेश्वरम्) । (अघोर) तत्रास्तेगणपाधीशःप्राचीन्ताम्पालयन्दिशम् ॥ २६॥ क्षारोदधिपरीवृत्तः कालायसविनिर्मितः । प्राकारो राजते वित्र दक्षिणे गोपुरैर्वृतः ॥ २७॥ लवणाम्भोधिकल्लोलघर्घरानिलघोषितः । तत्र नाना महाभोगफणारत्त्रालयो महान् ॥ २८॥ सौधान्तरस्थपीठस्थोभ्रुकुटी कुटिलाननः । उच्चण्डतरकोदण्डखण्डितारातिमण्डलः ॥ २९॥ जटामण्डलगोद्भासिसुधामण्डलशेखरः । विद्युल्लतेव घनवद्दंष्ट्राशोभितवक्त्रकः ॥ ३०॥ नीलामलतनूभास्वद्भासितालेपसुन्दरः । सजलोद्दमघनगगर्भान्तरविद्युता ॥ ३१॥ सदृशामलपुण्ड्राङ्कस्तिलकाकल्पभूषितः । धनुर्हेतिधरस्तादृग्गणपैरभितो वृतः ॥ ३२॥ प्रसन्नकरसङ्काशदोर्दण्डवरचण्डकैः । ब्रह्माण्डस्फोटनारावैः कोदण्डवरमण्डितैः ॥ ३३॥ अघोरो घोरवदनः पातितान्दक्षिणान्दिशम् । चण्डाज्ञानतमोच्चण्डखण्डनेमण्डितालकः ॥ ३४॥ अघोरेशं महालिङ्गं सम्पूज्य स्तौति भक्तितः ॥ - - अघोरः - सज्जन्निर्जरराजराजमकुटीनीराजनभ्राजिप- द्राजीवं जगदार्तिभञ्जनरतञ्जेतारमाजौ पुरा(र)म् । आसाम्राज्यमिहैव जीवितनये सायुज्यमेवेज्यया दातारं भज धूर्जटिं स्वहृदय मे जह्नुकन्याभुजङ्गम् ॥ ३५॥ अनिकटगमकपटगिरामहिकटकं नटनलम्पटं खपटम् । अघपटलपाटनपटुं हाटक गोधारिधारिणं वन्दे ॥ ३६॥ - - स्कन्दः - (सद्योजात) प्रतीच्यामपितत्रास्ति प्राकारः पुष्परागजः । पुष्परागमणिज्योतिर्विभासितदिगन्तरः ॥ ३७॥ तन्मणीन्द्रकृतानेकरुद्रक्रीडादिविग्रहैः । वृषभैस्तादृशैरेव गोपुराग्रप्रकल्पितैः ॥ ३८॥ गोपुरैर्भूधराकारैः राजत्कलशसुन्दरैः । तत्रास्ति भवनं पुण्यं नानामणिविराजितम् ॥ ३९॥ वेदिकापट्टिकोपेतं सिह्मासनवरैर्वृ(र्यु)तम् । सद्योजातं सुखासीनं क्षारसारविभूषितम् ॥ ४०॥ पूर्वजातनिशानाथभासुराङ्गमनोहरम् । राजत्पिङ्गामलजटाकृतापीडनिशाकरम् ॥ ४१॥ उडुनायकसंशोभिभालानलविलोचनम् । प्रचण्डतरमार्ताण्डमण्डलोत्तमभूषितम् ॥ ४२॥ नीलेन्दीवरसङ्काशग्रीवायलयसुन्दरम् । पुष्परागकृतानेकमालाकलितकन्धरम् ॥ ४३॥ वैयाघ्रचर्मविलसत्कटिरत्नसुकाञ्चिकम् । अहिमन्युवरानेकतादृशैर्गणपैर्युतम् ॥ ४४॥ पाशाङ्कुशाभयकरं पाशिना परिसेवितम् । दधिमण्डमहाम्भोधिमध्यसौधवराश्रयम् ॥ ४५॥ गणैश्चापिमहोद्दण्डडिम्भारावविभीषणैः । सेवितं पाशिभिस्तत्रपश्चिमाम्पातितान्दिशम् ॥ ४६॥ सद्योजातेश्वरं लिङ्गं स्तौति भक्त्या प्रपूजयन् ॥ ४७॥ - - सद्योजातः - पाटीरद्रुमकीटकेतनजटाकोटीरभागेरट- त्स्पाटोच्चैस्तटिनीस्यदार्भटतटज्जूटीकृताहिछट । घोटाकृत्रिमगोकटीतटपटीभूतेभचर्माम्बर क्षोणीरुण्णिकटाटखाटविटपिन्मच्चित्ततट्यामट ॥ ४८॥ वतंसितसुधाकरं वरगुणौघरत्नाकरं स्फुरन्निटिललोचनज्वलनदग्धमीनध्वजम् । कुलाचलकुमारिकाकुचतटीपटीराङ्कितम् भजामि भजतां सदाभयदमीश्वरं शङ्करम् ॥ ४९॥ - - स्कन्दः - इति स्तौति सदा लिङ्गं सद्योजातो महेश्वरम् । (वामदेव) तदुत्तरेऽपि प्राकारो गोमेधमणिकल्पितः ॥ ५०॥ घृतोदेनावृतस्तत्र तत्कल्लोलोत्थवायुभिः । परीवीतो गोपुरैश्च तन्मणीन्द्रकृतैश्शुभैः ॥ ५१॥ वररुद्रावतारोद्यद्विग्रहैर्वृषभैर्युतम् । शोभितं तत्प्रभाभिश्च तस्थानं च तस्य हि ॥ ५२॥ सौधैरपारशिखरैर्बहुस्तम्भविराजितैः । तत्र संस्थं महाबाहुं वामदेवं त्रिलोचनम् ॥ ५३॥ सिह्मासने सुखासीनं भस्मोद्धूलनपाण्डरम् । हरिन्मणिनिभाकारं विद्युन्निभजटाधरम् ॥ ५४॥ तिपुण्ड्राङ्कितसद्भालं खङ्गखेटघरं शुभम् । प्रसन्नास्यनीलकण्ठं राजदिन्दुकलाधरम् ॥ ५५॥ हरितैर्गणपैश्चैव वायुभिः परिसेवितम् । उद्यन्मरतकीगर्भसुन्दरैर्वायुवेगितैः ॥ ५६॥ तिपुण्ड्रचन्द्रार्धधरैर्जटामण्डलमस्तकैः । बाणबाणासनधरैर्हल्लकाभूषभूषितैः ॥ ५७॥ वल्लकीमुरजोत्तुङ्गमृदङ्गवरवादकैः । सेवितं परितो वीरैश्शूलामललसत्करैः ॥ ५८॥ वामदेवं सामजाताजिनबद्धकटीतटम् । कण्ठे भुजङ्गसंयुक्तं मृगेन्द्रामललोचनम् ॥ ५९॥ कुबेरेणोत्तरां पाति दिशं यक्षेश्वरावृताम् । वामदेवेश्वरं लिङ्गं सम्पूज्यास्तुवदीश्वरम् ॥ ६०॥ - - वामदेवः - तिष्ठन्ते स्तुतिपाठने तव विभो निष्ठ्यूतनिष्ठीवव- च्छाठ्यं निष्ठुरतां विधूय मनसा ब्रह्मैकनिष्ठाः कति । वैकुण्ठार्चित रत्नपीठनिलय श्रीकण्ठ कण्ठोल्लस- न्नील ज्येष्ठ कनिष्ठ कुष्ठहनन श्रेष्ठान्तरातिष्ठ मे ॥ ६१॥ सुरकुवलयसोमं वामदेवाख्यसामस्तुतमखिलगुणानां सीमधामानमीशम् । जगदवनविनाशं शाम्भवोद्यत्सुकामं निजनयनकटाक्षैर्दग्धकामं भजेऽहम् ॥ ६२॥ - - स्कन्दः - एवं स्तौति महादेवं वामदेवः प्रसन्नधीः । (ईशान) तदन्तरा गिरेर्मूर्ध्नि संस्थो हीरकसौधकः ॥ ६३॥ रुद्रावतारप्रभवैर्विग्रहैर्वृषभैरपि । उरगेन्द्रमहाहारो मद्ध्यन्दिनरविप्रभः ॥ ६४॥ शर्वरीशानमकुटीभूतिभूषितविग्रहः । गजेन्द्रचर्मवसनो हीरमालाकृताङ्गकः ॥ ६५॥ अन्तरिक्षै रुद्रगणैः पाति व्योम मनोहरम् । निषङ्गिभिः कवचिभिश्छुरिकाहेतिधारिभिः ॥ ६६॥ व्योमकेशप्रसादेन चेशानश्चोशिता सताम् । ईशानेशं महालिङ्गं सम्पूज्य स्तौति भक्तितः ॥ ६७॥ - - ईशानः - रथन्तररवप्रियं रथरथाङ्गपाणीशरं मनोरथपथातिगं सुरथनाथसत्कङ्कणं । भगीरथपथानुगाविहितजह्नुकन्याजटं भजामि सुरगो रथप्रिरियमपारपापापहम् ॥ ६८॥ चषके निजवाजिहेषितैश्चरणे वायुसुभोजिशिञ्जितैः । कटिसीम्नि सुभूरिबृह्मितैर्मुखरं दैवतमाविरस्तु चित्ते ॥ ६९॥ अश्वीकृतस्वीकृतवेदराशिनाङ्गीकृताङ्गीकृतशम्बरारिः । अस्त्रीकृतस्त्रीकृतदानवारिर्देवस्सदा मे हृदये चकास्तु ॥ ७०॥ - - स्कन्दः - महाकैलासभवने मणिकल्पितमुत्तमम् । रत्नप्राकारमेतद्धिपञ्चब्रह्मप्रकल्पितम् ॥ ७२॥ महेशेन तदा विप्र श्रवणादघनाशनम् ॥ ७३॥ विचित्रं शिवनिर्माणं विचित्रं शिवचेष्टितम् । विचित्रा शिवमाया सा महामायस्य शूलिनः ॥ ७४॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये कैलासशैले पञ्चब्रह्मप्राकारवर्णनम् ॥ - ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः १६ - पञ्चब्रह्मप्राकारवर्णनम् ॥ - .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 16 - pa~nchabrahmaprAkAravarNanam .. Notes: Skanda स्कन्द continues to describe in detail to Jaigīṣavya जैगीषव्य, about the abodes at Mount Kailāsa कैलास शैलप्राकार of the five aspects of Śiva शिव - the Panchabrahma पञ्चब्रह्म that include Tatpuruṣa तत्पुरुष in East, Aghora अघोर in South, Sadyojāta सद्योजात in West, Vāmadeva वामदेव in North, and Īśāna ईशान towards Zenith. He outlines about the worship of the respective Liṇga लिङ्ग while describing these five forms/aspects of Śiva शिव. Śivarahasyam Aṃśaḥ-1 (Māheśvarākhya) शिवरहस्यम् अंशः-१ (माहेश्वराख्य) has several descriptions about Mount Kailāsa कैलास शैल and Śiva शिव. Selected verses from some of the chapters are presented here. Encoded and proofread by Ruma Dewan
% Text title            : Kailasashailaprakaravarnanam 3
% File name             : kailAsashailaprAkAravarNanam3.itx
% itxtitle              : kailAsashailaprAkAravarNanam 3 (shivarahasyAntargatA)
% engtitle              : kailAsashailaprAkAravarNanam 3
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | mAheshvarAkhyaH prathamAMshaH | adhyAyaH 16 - panchabrahmaprAkAravarNanam ||
% Indexextra            : (Scans 1, 2)
% Latest update         : January 6, 2024
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org