कैलासवर्णनम् १

कैलासवर्णनम् १

(कैलासौपनयनम् १) स्कन्द उवाच- सर्वगस्यापि देवस्य महादेवस्य शूलिनः । महाकैलासमित्युक्तं शिवतत्वार्थवेदिभिः ॥ ४॥ ईशानगणमुख्यस्य कैलासं दक्षिणाश्रमम् । अयं मुनेऽमरेनद्राणां निवासो मेरुरुन्नतः ॥ ५॥ प्रविष्टष्षोडशाधस्ताद्द्वात्रिंशन्मूर्ध्नि विश्रुतः । वृषस्स्तम्भमयो भाति महाकैलाससन्निधौ ॥ ६॥ कैलासादपि पूर्वस्यां पञ्चाशच्च सहस्रकैः । योजनैः प्राक्स्थितो मेरुर्नानासुरगणाश्रयः ॥ ७॥ ज्वलज्ज्वलनसंकाशः कनकोत्तमपर्वतः । सहस्रयोजनोत्सेधं विद्धि मेरु सुरालयम् ॥ ८॥ षट्षष्टिः कथितो योगिन्नूर्ध्वायामैकमूलतः । लक्षयोजनमानेन कैलासो धरणीधरः ॥ ९॥ कुलाचलास्सप्तशतं प्राकारपरिघास्तथा । प्राकारस्यान्तरालस्य सप्तद्वीपास्ससागराः ॥ १०॥ सप्ताब्धयस्सुधाम्भोधिकल्लोलामलबीजितः । कोटियोजनमानेन कैलासो भूधरो महान् ॥ ११॥ राजतो राजतेऽत्यन्तं पञ्चाशल्लक्षमानतः । सप्तपातालमूलान्तस्सपतलोकान्त उच्छ्रयः ॥ १२॥ महाराजतभूभागश्चन्द्रकोटिसमप्रभः । नाग्निर्नविधुर्नोसूर्यस्तत्तेजस्सद्दशो भुवि ॥ १३॥ चतुर्दश महालोकानुच्छ्रायश्शिखरैस्स्वयम् । मध्ये सुधासागरस्य फेनमण्डोपमस्स्थितः ॥ १४॥ न हरो न हरिर्धाता महेन्द्राद्याश्च देवताः । न सुपर्णोरगा यक्षा न गन्धर्वा दितेस्सुताः ॥ १५॥ न वीक्षितुं शक्नुवन्ति किम्पुनर्गन्तुमञ्जसा । तत्प्रभाभिहतालोका हराजहरिणो द्विज ॥ १६॥ तत्तेजसा प्रतिहतास्सूर्येन्दुपवनानलाः । सुधासागरकल्लोलैः कैलासस्पर्शवायवः ॥ १७॥ पुनन्ति लोकानखिलान्विष्णुब्रह्महरामरान् । सुरासुराणां गमनं न तत्र मनसापि हि ॥ १८॥ न वेदवचनैश्शक्यो महाकैलासपर्वतः । तल्लेशलेशमहिमां कश्शक्तो वक्तुमप्यणु ॥ १९॥ सहस्रवदनश्शेषस्सहस्राक्षोऽपि नेक्षते । किं पुनर्मानवाः (किम्पुनर्नानतः) क्षुद्रा वराकास्ते सरासुराः ॥ २०॥ शतं कुलाचला मुख्याः प्राकारा इव संस्थिताः । महद्भिरुच्छ्रितैश्श‍ृङ्गैःकेचिद्गोपुरवत्स्थिताः ॥ २१॥ तदन्तरन्तरालेषु परिघाकृतयोऽब्धयः । ततोऽपि सप्तप्राकारं शम्भोरन्तर्गृहं परम् ॥ २२॥ प्राकारभूतास्ते शैलास्ताञ्छृणुष्व द्विजोत्तम । कुमुदः पारियात्रश्च मैनाकः पूर्वदिग्गताः ॥ २३॥ दर्दरो मलयो विन्ध्यः पश्चिमे योगिपुङ्गव । उदयास्ताचलौ मुञ्ज उत्तरस्यां दिशिस्थिताः ॥ २४॥ नीलोदक्षिणकैलासोहिमवान्दक्षिणेस्थितः । विगाह्यावहितास्सर्वेचाब्धिभिस्सर्वतोदिशम् ॥ २५॥ द्वीपाब्धयस्ते परिघास्सप्तसप्तैव पर्वताः । तदन्तरान्तरालेषु विहरन्ति दिवौकसः ॥ २६॥ गन्धर्वाप्सरसस्सिद्धानागयक्षास्सुपर्णकाः । किन्नराः पुरुषाःपुण्याविद्याधरसचारणाः ॥ २७॥ मुनयो गणसङ्घाश्च नानाभूमैकभूमयः । ततोऽपि विष्णुब्रह्माद्या ईशाना रुद्रमूर्तयः ॥ २८॥ विहरन्ति पतोम्भोधिप्राकारवरमाश्रिताः । स्वादूदकाब्धितीरे च ततोऽपि प्रमथाधिपाः ॥ २९॥ ततोऽपि रत्नप्राकारो दशसाहस्रयोजनः । तद्रत्नकान्तिधाराभिर्मण्डितं भुवनत्रयम् ॥ ३०॥ मत्तकोकिलनेत्राभस्तत्रास्तेरत्नपर्वतः । शतयोजनकोच्छ्रायः पद्मरागनगोत्तमः ॥ ३१॥ मयूखमालावितततन्मयूखतिरस्कृतः । चन्द्रकान्तमणिप्रोद्यत्प्राकारोऽस्ति तदन्तरा ॥ ३२॥ पञ्चाशतं सहस्रञ्च योजनायामतो द्विज । सोमाच्छशतपीयूषनिर्यद्धारासमन्वितः ॥ ३३॥ तत्कान्तिसारधाराभी रञ्जितास्तत्र भूमयः । हिमसारमहातारधाराव्यापिनगोत्तमः ॥ ३४॥ दशसाहस्रमानेन तत्रास्ते हीरको ह्यगः । इन्द्रनीलामलमणिप्राकारोऽस्ति तदन्तरे ॥ ३५॥ पञ्चाशत्सोऽपि मानेन नीलनीलोत्पल्द्युतिः । तन्नैल्यगर्भसौन्दर्यधाराधीरैकभूमयः ॥ ३६॥ तत्रास्ति पर्वतवरश्चेन्द्रनीलशिलोच्चयः । नीलनीरदसंश्लिष्टविद्युल्लेखान्वितछविः ईल् ३७॥ दशसाहस्रविस्तारः परिणाहेऽपि तादृशः । हरिन्मणीन्द्रप्रवरभाकारोऽस्ति तदन्तरा ॥ ३८॥ तन्मणीन्द्रप्रभाभासिहरिता एव भूमयः । प्रवालपर्वतस्तत्र विंशत्साहस्रमुन्नतः ॥ ३९॥ बिम्बामललसत्कान्तिकान्तो भूधरनायकः । तदन्तरेऽपि प्राकारो गोमेदमणिकल्पितः ॥ ४०॥ त्रिंशत्साहस्रमानेन मधुपिङ्गलसुन्दरः । तत्रोच्चः पर्वतो विप्र कुरुविन्दमणिप्रभः ॥ ४१॥ पक्षसंख्यासहस्राणां शिखररैश्चापि तादृशः । तस्यान्तरेऽपि प्राकारः पुष्परागशिलाञ्चितः ॥ ४२॥ चत्वारिंशत्सहस्राणां योजनोन्नतमानतः । तस्यामलछविगणैस्सदृशास्तत्र(शामल) भूमयः ॥ ४३॥ तत्रापि भूधरश्रेष्ठो मुक्तामणिशतैश्रितः । उन्मत्ताखुभुजोत्तुङ्गलोचनामलसछविः ॥ ४४॥ तदन्तरा त्विषाकारविंशत्साहस्रमानतः । तत्विषा चाभितस्सर्वपीतीभूतदिगन्तरः ॥ ४५॥ (तत्विषभि(प्रभाभि)स्ततः सर्वपीतीभूतदिगन्तरः) ॥ ४५॥ वैडूर्यानेकसूत्राच्छधारारसविजृम्भिताः । (वैडूर्यात्मकसत्वोथधारारसविजृम्भिताः ।) भूमयस्तत्र शोभन्ते विस्मयानां स्मयप्रदः ॥ ४६॥ तत्रास्ति पर्वतवरो नवरत्नयुतछविः । क्वचिन्मरकतस्वच्छलहरीहरिताकृतिः ॥ ४७॥ क्वचिद्विद्रुमसङ्काशस्सन्ध्याघननिभः क्वचित् । क्वचिद्धीरकजात्यच्छफलमूलसमछविः ॥ ४८॥ क्वचिद्वैडूर्यसूत्रोत्थभाभासितदिगन्तरः । उन्मत्तकोकिलाक्षाभकुरुविन्दनिभः क्वचित् ॥ ४९॥ पुष्परागसरागोद्यद्रागरक्तोऽरुणः क्वचित् । तृणग्राहिमहानीलनीलिम्ना च नभोपमः ॥ ५०॥ क्वचिद्गोमेदकापारमधुधारासमछविः । (क्वचिद्गोमेदकस्फारमधुधारासमच्छविः ।) मुक्ताकान्तितिरस्कारिश्लक्ष्णैर्मल्यभायुतः ॥ ५१॥ स्वच्छाच्छस्फटिकोपान्तबिम्बिताखिलदिक्तटः । नानारागमयूखौघश्चेन्द्रचापनिभः क्वचित् ॥ ५२॥ तत्रास्ति मण्डपवरं नानाचित्रविचित्रितम् । पद्मरागमणिस्तम्भस्तम्भपीठमनोहरम् ॥ ५३॥ सिह्मशार्दूलशरभगजहंसशुकाकृतिः । व्यालिशुण्डानलिन्यादिचित्रचित्रितविस्मयम् ॥ ५४॥ एकैकरत्नसङ्कॢप्तनीलोछ्रायैकभासुरम् । पङ्क्तिशस्स्तम्भसाहस्रैर्नवरत्नपरिष्कृतैः ॥ ५५॥ आपादपीठजश्लक्ष्णगोपानसिसुभित्तिकम् । स्वच्छादर्शतलप्रायभूमिभागैकरञ्जितम् ॥ ५६॥ तत्र स्तम्भप्रभाज्योत्स्नाप्रभाकरशतप्रभम् । नसूर्यचन्द्रौ भासेते वहिनक्षत्रविद्युतः ॥ ५७॥ तिरस्कृताः प्रभास्तत्र न रात्रिर्न दिवाक्वचित् । एवं लक्षस्तम्भयुक्तामण्डपास्तत्रकल्पितः ॥ ५८॥ पर्यन्तगोपुरोत्तुङ्गरत्नसौधायुतैर्वृतः । सहस्रलक्षफलकैस्स्तम्भकुम्भैर्युतो मुने ॥ ५९॥ गोपुराणां प्रमाणन्तु मनसापि न शक्यते । नानारुद्रावतारादिमणिकहिपितविग्रहः ॥ ६०॥ मूर्तयो देवदेवस्य देव्या वाहनसंयुताः । स्कन्दहेरम्बनन्दीनां सप्तलोकान्तमुच्छ्रिताः ॥ ६१॥ गोपुराणान्तलैर्दिव्यैर्विस्तारायामलक्षकम् । लिङ्गोद्भवस्ततः पार्श्वेवृषवाहस्ततः परम् ॥ ६२॥ सिन्धुरत्वक्परीवीतः क्वचित्साम्बस्सपुत्रकः । स्कन्दहेरम्बसहितः क्वचिद्गणगणैर्वृतः ॥ ६३॥ उमाधविग्रहश्चापि नृत्ताटोपयुतः क्वचित् । वामाङ्गदक्षिणाङ्गोद्यज्जनार्दनविधिः क्वचित् ॥ ६४॥ देवीपरिणयाकारः क्वचिद्भिक्षाटनाकृतिः । शूलासक्तकरश्चापि मृगपाणिः पुरादिहा ॥ ६५॥ अन्धकासुरसंहारो दक्षिणामूर्तिरूपधृक् । मुनीनां ज्ञानदस्सिद्धिचिन्मुद्रापरिचिन्हितः ॥ ६६॥ तत्पूरुष(र्ष)वामदेवाद्या ईशानाघोरसञ्ज्ञकाः । बालेन्दुमुकुटास्सर्वे कपर्दवरशोभिताः ॥ ६७॥ रत्नाभरणभूषाढ्या मूर्तयश्शङ्करस्य हि । दिक्पालपालिकाभिश्च तत्तद्रागमणिप्रभाः ॥ ६८॥ कल्पिताः परमेशेनशिवलीलाविचित्रिताः । पर्यन्तस्फटिकाभिश्च वृषा नीलविलोचनाः ॥ ६९॥ महाश‍ृङ्गैकमकुटघण्टामणिविभूषणाः । गोपुरोर्ध्वगतास्सर्वे महाहीरकश‍ृङ्गकाः ॥ ७०॥ प्राकारराजद्वृषभा महार्हमणिकल्पिताः । तलानां कोटिभिश्चापि गोपुराणां प्रकल्पनैः ॥ ७१॥ गोपुराग्रमहारत्नकलशैस्त्यक्ततारकैः । दोधूयमानोच्चलितसमीरणपताककाः ॥ ७२॥ तत्रगर्भग्रहं शम्भोर्नवरत्नान्वितोज्वलम् । तत्रास्ति मणिपीठोद्यच्चन्द्रस्फटिकसम्भवम् ॥ ७३॥ महालिङ्गम्महाकारं रत्ननागफणान्वितम् । महारत्नवने जातफुल्लमालाविभूषितम् ॥ ७४॥ सुवर्णखचितानेकबिल्वचम्पकपूजितम् । शम्भुना च महादेव्या लोकानुग्रहकाम्यया ॥ ७५॥ समर्चितं त्रिकालेषु प्रदोषेषु विशेषतः । तत्रस्थरत्ननिर्यातकान्तिभिर्दीपितन्तदा ॥ ७६॥ तत्रातोद्यानि कुर्वन्ति गणाश्शम्भोर्महात्मनः । काहलीमुरजापारमड्डुडिण्डिमजर्झराः ॥ ७७॥ शङ्खमद्दलभेर्यश्च निस्साणाः पटहानकाः । गोमुखास्स्वस्तिपातालावेणुवीणावि(नि)नादिताः ॥ ७८॥ रुद्रकन्यासहस्राणि नाट्यं कुर्वन्ति तत्र हि । हावभावमनोज्ञानि पेशलालापवन्ति ॥ ७९॥ यौवनोन्मदधाराणि रणिताङ्घ्रिजनूपुरैः । क्वणद्रत्नजटाटङ्ककपोलामलसच्छवि ॥ ८०॥ धूपामोदैकबहलगन्धगन्धायिता दिशः । नन्दिप्रोत्सारितगणास्तत्रास्ते शङ्करोऽम्बया ॥ ८१॥ पूजितन्तं महालिङ्गं पश्यन्रत्नैस्सुपूजितम् । रुद्रकन्याकराब्जोत्थनखक्वणनघट्टितम् ॥ ८२॥ तन्त्रीमुखोत्थगन्धर्वगानं श्रुण्वन्त्सदाम्बया ॥ शिव शिव शिव शम्भो चन्द्रमौलेऽमलात्मन् हर हर गुरुभारं शाम्भवान् दयस्व । (हर हर गुरुभारं साम्ब शम्भो मोदयस्व ।) वितर परमुक्तिं संसृतिर्मा कदाचिद्भवतु भवभवाब्धेतारकं त्वां प्रपन्नः ॥ ८३॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये कैलासवर्णनम् ॥ - ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः १२ - कैलासवर्णनम् । ४-८३॥ - .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 12 - kailAsavarNanam . 4-83.. Notes: Skanda स्कन्द; upon being inquired by Jaigīṣavya जैगीषव्य, give to him an overview of the Mount Kailāsa कैलास शैल - The Abode of Śiva शिव. Śivarahasyam Aṃśaḥ-1 (Māheśvarākhya) शिवरहस्यम् अंशः-१ (माहेश्वराख्य) has several descriptions about Mount Kailāsa कैलास शैल and Śiva शिव. Selected verses from some of the chapters are presented here. Encoded and proofread by Ruma Dewan
% Text title            : Kailasavarnanam 1
% File name             : kailAsavarNanam1.itx
% itxtitle              : kailAsavarNanam 1 kailAsaupanayanam 1 (shivarahasyAntargatA)
% engtitle              : kailAsavarNanam 1
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | mAheshvarAkhyaH prathamAMshaH | adhyAyaH 12 - kailAsavarNanam | 4-83||
% Indexextra            : (Scans 1, 2)
% Latest update         : December 17, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org