कैलासवर्णनम् १
(कैलासौपनयनम् १)
स्कन्द उवाच-
सर्वगस्यापि देवस्य महादेवस्य शूलिनः ।
महाकैलासमित्युक्तं शिवतत्वार्थवेदिभिः ॥ ४॥
ईशानगणमुख्यस्य कैलासं दक्षिणाश्रमम् ।
अयं मुनेऽमरेनद्राणां निवासो मेरुरुन्नतः ॥ ५॥
प्रविष्टष्षोडशाधस्ताद्द्वात्रिंशन्मूर्ध्नि विश्रुतः ।
वृषस्स्तम्भमयो भाति महाकैलाससन्निधौ ॥ ६॥
कैलासादपि पूर्वस्यां पञ्चाशच्च सहस्रकैः ।
योजनैः प्राक्स्थितो मेरुर्नानासुरगणाश्रयः ॥ ७॥
ज्वलज्ज्वलनसंकाशः कनकोत्तमपर्वतः ।
सहस्रयोजनोत्सेधं विद्धि मेरु सुरालयम् ॥ ८॥
षट्षष्टिः कथितो योगिन्नूर्ध्वायामैकमूलतः ।
लक्षयोजनमानेन कैलासो धरणीधरः ॥ ९॥
कुलाचलास्सप्तशतं प्राकारपरिघास्तथा ।
प्राकारस्यान्तरालस्य सप्तद्वीपास्ससागराः ॥ १०॥
सप्ताब्धयस्सुधाम्भोधिकल्लोलामलबीजितः ।
कोटियोजनमानेन कैलासो भूधरो महान् ॥ ११॥
राजतो राजतेऽत्यन्तं पञ्चाशल्लक्षमानतः ।
सप्तपातालमूलान्तस्सपतलोकान्त उच्छ्रयः ॥ १२॥
महाराजतभूभागश्चन्द्रकोटिसमप्रभः ।
नाग्निर्नविधुर्नोसूर्यस्तत्तेजस्सद्दशो भुवि ॥ १३॥
चतुर्दश महालोकानुच्छ्रायश्शिखरैस्स्वयम् ।
मध्ये सुधासागरस्य फेनमण्डोपमस्स्थितः ॥ १४॥
न हरो न हरिर्धाता महेन्द्राद्याश्च देवताः ।
न सुपर्णोरगा यक्षा न गन्धर्वा दितेस्सुताः ॥ १५॥
न वीक्षितुं शक्नुवन्ति किम्पुनर्गन्तुमञ्जसा ।
तत्प्रभाभिहतालोका हराजहरिणो द्विज ॥ १६॥
तत्तेजसा प्रतिहतास्सूर्येन्दुपवनानलाः ।
सुधासागरकल्लोलैः कैलासस्पर्शवायवः ॥ १७॥
पुनन्ति लोकानखिलान्विष्णुब्रह्महरामरान् ।
सुरासुराणां गमनं न तत्र मनसापि हि ॥ १८॥
न वेदवचनैश्शक्यो महाकैलासपर्वतः ।
तल्लेशलेशमहिमां कश्शक्तो वक्तुमप्यणु ॥ १९॥
सहस्रवदनश्शेषस्सहस्राक्षोऽपि नेक्षते ।
किं पुनर्मानवाः (किम्पुनर्नानतः) क्षुद्रा वराकास्ते सरासुराः ॥ २०॥
शतं कुलाचला मुख्याः प्राकारा इव संस्थिताः ।
महद्भिरुच्छ्रितैश्शृङ्गैःकेचिद्गोपुरवत्स्थिताः ॥ २१॥
तदन्तरन्तरालेषु परिघाकृतयोऽब्धयः ।
ततोऽपि सप्तप्राकारं शम्भोरन्तर्गृहं परम् ॥ २२॥
प्राकारभूतास्ते शैलास्ताञ्छृणुष्व द्विजोत्तम ।
कुमुदः पारियात्रश्च मैनाकः पूर्वदिग्गताः ॥ २३॥
दर्दरो मलयो विन्ध्यः पश्चिमे योगिपुङ्गव ।
उदयास्ताचलौ मुञ्ज उत्तरस्यां दिशिस्थिताः ॥ २४॥
नीलोदक्षिणकैलासोहिमवान्दक्षिणेस्थितः ।
विगाह्यावहितास्सर्वेचाब्धिभिस्सर्वतोदिशम् ॥ २५॥
द्वीपाब्धयस्ते परिघास्सप्तसप्तैव पर्वताः ।
तदन्तरान्तरालेषु विहरन्ति दिवौकसः ॥ २६॥
गन्धर्वाप्सरसस्सिद्धानागयक्षास्सुपर्णकाः ।
किन्नराः पुरुषाःपुण्याविद्याधरसचारणाः ॥ २७॥
मुनयो गणसङ्घाश्च नानाभूमैकभूमयः ।
ततोऽपि विष्णुब्रह्माद्या ईशाना रुद्रमूर्तयः ॥ २८॥
विहरन्ति पतोम्भोधिप्राकारवरमाश्रिताः ।
स्वादूदकाब्धितीरे च ततोऽपि प्रमथाधिपाः ॥ २९॥
ततोऽपि रत्नप्राकारो दशसाहस्रयोजनः ।
तद्रत्नकान्तिधाराभिर्मण्डितं भुवनत्रयम् ॥ ३०॥
मत्तकोकिलनेत्राभस्तत्रास्तेरत्नपर्वतः ।
शतयोजनकोच्छ्रायः पद्मरागनगोत्तमः ॥ ३१॥
मयूखमालावितततन्मयूखतिरस्कृतः ।
चन्द्रकान्तमणिप्रोद्यत्प्राकारोऽस्ति तदन्तरा ॥ ३२॥
पञ्चाशतं सहस्रञ्च योजनायामतो द्विज ।
सोमाच्छशतपीयूषनिर्यद्धारासमन्वितः ॥ ३३॥
तत्कान्तिसारधाराभी रञ्जितास्तत्र भूमयः ।
हिमसारमहातारधाराव्यापिनगोत्तमः ॥ ३४॥
दशसाहस्रमानेन तत्रास्ते हीरको ह्यगः ।
इन्द्रनीलामलमणिप्राकारोऽस्ति तदन्तरे ॥ ३५॥
पञ्चाशत्सोऽपि मानेन नीलनीलोत्पल्द्युतिः ।
तन्नैल्यगर्भसौन्दर्यधाराधीरैकभूमयः ॥ ३६॥
तत्रास्ति पर्वतवरश्चेन्द्रनीलशिलोच्चयः ।
नीलनीरदसंश्लिष्टविद्युल्लेखान्वितछविः ईल् ३७॥
दशसाहस्रविस्तारः परिणाहेऽपि तादृशः ।
हरिन्मणीन्द्रप्रवरभाकारोऽस्ति तदन्तरा ॥ ३८॥
तन्मणीन्द्रप्रभाभासिहरिता एव भूमयः ।
प्रवालपर्वतस्तत्र विंशत्साहस्रमुन्नतः ॥ ३९॥
बिम्बामललसत्कान्तिकान्तो भूधरनायकः ।
तदन्तरेऽपि प्राकारो गोमेदमणिकल्पितः ॥ ४०॥
त्रिंशत्साहस्रमानेन मधुपिङ्गलसुन्दरः ।
तत्रोच्चः पर्वतो विप्र कुरुविन्दमणिप्रभः ॥ ४१॥
पक्षसंख्यासहस्राणां शिखररैश्चापि तादृशः ।
तस्यान्तरेऽपि प्राकारः पुष्परागशिलाञ्चितः ॥ ४२॥
चत्वारिंशत्सहस्राणां योजनोन्नतमानतः ।
तस्यामलछविगणैस्सदृशास्तत्र(शामल) भूमयः ॥ ४३॥
तत्रापि भूधरश्रेष्ठो मुक्तामणिशतैश्रितः ।
उन्मत्ताखुभुजोत्तुङ्गलोचनामलसछविः ॥ ४४॥
तदन्तरा त्विषाकारविंशत्साहस्रमानतः ।
तत्विषा चाभितस्सर्वपीतीभूतदिगन्तरः ॥ ४५॥
(तत्विषभि(प्रभाभि)स्ततः सर्वपीतीभूतदिगन्तरः) ॥ ४५॥
वैडूर्यानेकसूत्राच्छधारारसविजृम्भिताः ।
(वैडूर्यात्मकसत्वोथधारारसविजृम्भिताः ।)
भूमयस्तत्र शोभन्ते विस्मयानां स्मयप्रदः ॥ ४६॥
तत्रास्ति पर्वतवरो नवरत्नयुतछविः ।
क्वचिन्मरकतस्वच्छलहरीहरिताकृतिः ॥ ४७॥
क्वचिद्विद्रुमसङ्काशस्सन्ध्याघननिभः क्वचित् ।
क्वचिद्धीरकजात्यच्छफलमूलसमछविः ॥ ४८॥
क्वचिद्वैडूर्यसूत्रोत्थभाभासितदिगन्तरः ।
उन्मत्तकोकिलाक्षाभकुरुविन्दनिभः क्वचित् ॥ ४९॥
पुष्परागसरागोद्यद्रागरक्तोऽरुणः क्वचित् ।
तृणग्राहिमहानीलनीलिम्ना च नभोपमः ॥ ५०॥
क्वचिद्गोमेदकापारमधुधारासमछविः ।
(क्वचिद्गोमेदकस्फारमधुधारासमच्छविः ।)
मुक्ताकान्तितिरस्कारिश्लक्ष्णैर्मल्यभायुतः ॥ ५१॥
स्वच्छाच्छस्फटिकोपान्तबिम्बिताखिलदिक्तटः ।
नानारागमयूखौघश्चेन्द्रचापनिभः क्वचित् ॥ ५२॥
तत्रास्ति मण्डपवरं नानाचित्रविचित्रितम् ।
पद्मरागमणिस्तम्भस्तम्भपीठमनोहरम् ॥ ५३॥
सिह्मशार्दूलशरभगजहंसशुकाकृतिः ।
व्यालिशुण्डानलिन्यादिचित्रचित्रितविस्मयम् ॥ ५४॥
एकैकरत्नसङ्कॢप्तनीलोछ्रायैकभासुरम् ।
पङ्क्तिशस्स्तम्भसाहस्रैर्नवरत्नपरिष्कृतैः ॥ ५५॥
आपादपीठजश्लक्ष्णगोपानसिसुभित्तिकम् ।
स्वच्छादर्शतलप्रायभूमिभागैकरञ्जितम् ॥ ५६॥
तत्र स्तम्भप्रभाज्योत्स्नाप्रभाकरशतप्रभम् ।
नसूर्यचन्द्रौ भासेते वहिनक्षत्रविद्युतः ॥ ५७॥
तिरस्कृताः प्रभास्तत्र न रात्रिर्न दिवाक्वचित् ।
एवं लक्षस्तम्भयुक्तामण्डपास्तत्रकल्पितः ॥ ५८॥
पर्यन्तगोपुरोत्तुङ्गरत्नसौधायुतैर्वृतः ।
सहस्रलक्षफलकैस्स्तम्भकुम्भैर्युतो मुने ॥ ५९॥
गोपुराणां प्रमाणन्तु मनसापि न शक्यते ।
नानारुद्रावतारादिमणिकहिपितविग्रहः ॥ ६०॥
मूर्तयो देवदेवस्य देव्या वाहनसंयुताः ।
स्कन्दहेरम्बनन्दीनां सप्तलोकान्तमुच्छ्रिताः ॥ ६१॥
गोपुराणान्तलैर्दिव्यैर्विस्तारायामलक्षकम् ।
लिङ्गोद्भवस्ततः पार्श्वेवृषवाहस्ततः परम् ॥ ६२॥
सिन्धुरत्वक्परीवीतः क्वचित्साम्बस्सपुत्रकः ।
स्कन्दहेरम्बसहितः क्वचिद्गणगणैर्वृतः ॥ ६३॥
उमाधविग्रहश्चापि नृत्ताटोपयुतः क्वचित् ।
वामाङ्गदक्षिणाङ्गोद्यज्जनार्दनविधिः क्वचित् ॥ ६४॥
देवीपरिणयाकारः क्वचिद्भिक्षाटनाकृतिः ।
शूलासक्तकरश्चापि मृगपाणिः पुरादिहा ॥ ६५॥
अन्धकासुरसंहारो दक्षिणामूर्तिरूपधृक् ।
मुनीनां ज्ञानदस्सिद्धिचिन्मुद्रापरिचिन्हितः ॥ ६६॥
तत्पूरुष(र्ष)वामदेवाद्या ईशानाघोरसञ्ज्ञकाः ।
बालेन्दुमुकुटास्सर्वे कपर्दवरशोभिताः ॥ ६७॥
रत्नाभरणभूषाढ्या मूर्तयश्शङ्करस्य हि ।
दिक्पालपालिकाभिश्च तत्तद्रागमणिप्रभाः ॥ ६८॥
कल्पिताः परमेशेनशिवलीलाविचित्रिताः ।
पर्यन्तस्फटिकाभिश्च वृषा नीलविलोचनाः ॥ ६९॥
महाशृङ्गैकमकुटघण्टामणिविभूषणाः ।
गोपुरोर्ध्वगतास्सर्वे महाहीरकशृङ्गकाः ॥ ७०॥
प्राकारराजद्वृषभा महार्हमणिकल्पिताः ।
तलानां कोटिभिश्चापि गोपुराणां प्रकल्पनैः ॥ ७१॥
गोपुराग्रमहारत्नकलशैस्त्यक्ततारकैः ।
दोधूयमानोच्चलितसमीरणपताककाः ॥ ७२॥
तत्रगर्भग्रहं शम्भोर्नवरत्नान्वितोज्वलम् ।
तत्रास्ति मणिपीठोद्यच्चन्द्रस्फटिकसम्भवम् ॥ ७३॥
महालिङ्गम्महाकारं रत्ननागफणान्वितम् ।
महारत्नवने जातफुल्लमालाविभूषितम् ॥ ७४॥
सुवर्णखचितानेकबिल्वचम्पकपूजितम् ।
शम्भुना च महादेव्या लोकानुग्रहकाम्यया ॥ ७५॥
समर्चितं त्रिकालेषु प्रदोषेषु विशेषतः ।
तत्रस्थरत्ननिर्यातकान्तिभिर्दीपितन्तदा ॥ ७६॥
तत्रातोद्यानि कुर्वन्ति गणाश्शम्भोर्महात्मनः ।
काहलीमुरजापारमड्डुडिण्डिमजर्झराः ॥ ७७॥
शङ्खमद्दलभेर्यश्च निस्साणाः पटहानकाः ।
गोमुखास्स्वस्तिपातालावेणुवीणावि(नि)नादिताः ॥ ७८॥
रुद्रकन्यासहस्राणि नाट्यं कुर्वन्ति तत्र हि ।
हावभावमनोज्ञानि पेशलालापवन्ति ॥ ७९॥
यौवनोन्मदधाराणि रणिताङ्घ्रिजनूपुरैः ।
क्वणद्रत्नजटाटङ्ककपोलामलसच्छवि ॥ ८०॥
धूपामोदैकबहलगन्धगन्धायिता दिशः ।
नन्दिप्रोत्सारितगणास्तत्रास्ते शङ्करोऽम्बया ॥ ८१॥
पूजितन्तं महालिङ्गं पश्यन्रत्नैस्सुपूजितम् ।
रुद्रकन्याकराब्जोत्थनखक्वणनघट्टितम् ॥ ८२॥
तन्त्रीमुखोत्थगन्धर्वगानं श्रुण्वन्त्सदाम्बया ॥
शिव शिव शिव शम्भो चन्द्रमौलेऽमलात्मन्
हर हर गुरुभारं शाम्भवान् दयस्व ।
(हर हर गुरुभारं साम्ब शम्भो मोदयस्व ।)
वितर परमुक्तिं संसृतिर्मा कदाचिद्भवतु
भवभवाब्धेतारकं त्वां प्रपन्नः ॥ ८३॥
॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये कैलासवर्णनम् ॥
- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः १२ - कैलासवर्णनम् । ४-८३॥
- .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 12 - kailAsavarNanam . 4-83..
Notes:
Skanda स्कन्द; upon being inquired by Jaigīṣavya जैगीषव्य, give to him an overview of the Mount Kailāsa कैलास शैल - The Abode of Śiva शिव.
Śivarahasyam Aṃśaḥ-1 (Māheśvarākhya) शिवरहस्यम् अंशः-१ (माहेश्वराख्य) has several descriptions about Mount Kailāsa कैलास शैल and Śiva शिव. Selected verses from some of the chapters are presented here.
Encoded and proofread by Ruma Dewan