कैलासवर्णनम् ५
(कैलासशैले वृषगोपुरवर्णनम् ५)
स्कन्दः -
कैलासान्तरतः प्राच्यां पुष्परागविनिर्मितम् ।
पञ्चलक्षप्रमाणेन प्राकारवरगोपुरम् ॥ १॥
उद्यद्भानुशताधिक्यचाकचक्यमनोहरम् ।
पुष्परागमणिप्रोद्यद्वृषभैस्समधिष्ठितम् ॥ २॥
प्राकारं लक्षमानेन मनसा शूलिना कृतम् ।
रुद्रावतारचरितैर्वेदिकापट्टिकान्वितम् ॥ ३॥
राजद्वृषभकुम्भाग्रदोधूयितपताककम् ।
पुष्परागमणिज्योतितिरस्कृतशशिद्युति ॥ ४॥
तत्रैवान्तर्महारत्नगर्भमण्डपमुत्तमम् ।
स्तम्भैश्च दशसाहस्रैस्समुन्नतिमनोहरम् ॥ ५॥
शिखाभिर्मणिकॢप्ताभिर्वलिभिश्चुम्बिताम्बरम् ।
नानारत्नमहावेदिपीठविद्रुमपुत्रिकैः ॥ ६॥
शोभितं रत्नगुच्छाच्छ मालालम्बितपीठकम् ।
तत्र सिह्मासने दिव्ये नवरत्नगणैश्चिते ॥ ७॥
धूपदीपादिबहुले मुक्तामालापरिष्कृते ।
वितानद्योतिदिक्चक्रे नानारुद्रगणैर्युते ॥ ८॥
षष्टिसाहस्रसङ्ख्याकैरहिमन्युभिरुद्धते ।
त्रिपुण्ड्रविलसत्कालै रुद्राक्षवरभूषणैः ॥ ९॥
त्रिशूलोद्यत्करैश्शुभ्रैर्हेतिचापशरावृतैः ।
जटातटनिवद्धेन्दुशेखरैरिन्दुसमप्रभैः ॥ १०॥
समन्तात्सेवितो नित्यं वृषो धर्माकृतिर्महान् ।
धर्माधारमहापादो युगनाभोरुपादकः ॥ ११॥
सन्ध्यांशसुखुरोद्दामवर्णाश्रमकृताङ्घ्रिकः ।
मणिमञ्जीरनिनदनानाधर्मैकशब्दवान् ॥ १२॥
चतुर्वेदोपवेदोद्यद्वेदान्तिमतदन्तकः ।
पुराणन्यायमीमांसाद्वयतन्त्रोरुघण्टकः ॥ १३॥
पूर्वसिद्धान्तराद्धान्ततत्वशब्दघणाघणः ।
ग्रैवेयशोभितोदारघण्टाकलितकन्धरः ॥ १४॥
कैलासो जङ्गम इव शृङ्गद्वयविभूषितः ।
सुधामण्डलजोत्तुङ्गसुपाण्डरमहाछविः ॥ १५॥
संस्थितो देवदेवस्य सन्निधौ नन्दिकेश्वरः ।
पञ्चलक्षप्रमाणेन गणैः (गात्रैः) कर्पूरसन्निभैः ॥ १६॥
उद्यत्सुधांशुपूर्णाङ्गो लक्षयोजनपृष्टभूः ।
ककुदा दशसाहस्रयोजनोन्नतवृत्तया ॥ १७॥
मुखेन त्रिंशत्साहस्रं नेत्रयोर्द्विसहस्रकम् ।
कर्णयोः पञ्चसाहस्रं विषाणे च सहस्रकम् ॥ १८॥
नासाविवरमुक्ताच्छनासापञ्चसहस्रकम् ।
सहस्रयोजनायामलेलिहानाग्रजिह्वकम् ॥ १९॥
पश्यन्ननिमिषेणैव लोचनाभ्यां महेश्वरम् ।
स्वपृष्टास्तृतरत्नाच्छपल्यङ्कालम्बिमौक्तिकम् ॥ २०॥
स्वनासाविवरोत्थानवातोद्भूत महागिरिम् ।
तद्वातोद्धूतवेलाश्च चोद्यतोद्यत्तरङ्गकाः ॥ २१॥
समुद्रास्सरितश्चैव तच्चलत्खुरदारिता ।
भूर्भाति कम्पिता शैलैस्सागरैश्च विलोलिता ॥ २२॥
शृङ्गकोटिमणिभ्राजिमुकुटेन विराजितम् ।
कर्णालम्बिशशिज्योतिधवलालम्बिचामरम् ॥ २३॥
पञ्चाशल्लक्षमानेन पदैः खुरवरैर्युतम् ।
दशसाहस्रविस्तारैरिन्द्रनीलमणिप्रभैः ॥ २४॥
खुराघृष्टगिरिव्रातं नादमोदितकन्दरम् ।
सास्त्रया लम्बितास्वच्छपञ्चसाहस्त्रयोजनम् ॥ २५॥
हुंभारवमहाभीत त्रैलोक्यतलवासिनम् ।
कामधेनुगणैश्चैव कोटिभिः परितोवृतम् ॥ २६॥
शरच्चन्द्रप्रभाभास्वद्भिरिमौलिविदारणम् ।
लम्बिना वृषणेनापि शतयोजनकेन च ॥ २७॥
वालेन त्रिंशत्साहस्रयोजनेन विलम्बिना ।
चामराग्रमहाकेशपुच्छभारेण शोभितः ॥ २८॥
मुक्तामाणिक्यजालैश्च प्रोत्थितेन मणिप्रभः ।
तत्रास्ति गोपुरं शम्भोर्धामतत्र वृषेशितुः ॥ २९॥
प्राकारराजद्वृषभं तस्येष्टंलिङ्गमैश्वरम् ।
कामधेनूधसोद्भूतैः पयोभिरभिषिच्य च ॥ ३०॥
गन्धैर्बिल्यैश्च मन्दारैः पङ्कजैर्धूपदीपकैः ।
नैवेद्यैः पायसापूपताम्बूलछत्रचामरैः ॥ ३१॥
सम्पूज्यस्तौतिधर्मेशं भस्मरुद्राक्षभूषितः ।
मुक्तात्रिपुण्ड्रभालाङ्को शशिधृक्छृङ्गयोर्द्वयोः ॥ ३२॥
पश्यन्त्संस्तौति हृष्टात्मा नादकीलितदिक्तटः ॥ ३३॥
॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये कैलासशैले वृषगोपुरवर्णनम् ॥
- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः २५ - कैलासवर्णने वृष(कृत)स्तुतिः । १-३३॥
- .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 25 - kailAsavarNane vRRiSha(kRRita)stutiH . 1-33..
Notes:
Skanda स्कन्द describes about the residence of Vṛṣabha वृषभ (Dharma धर्म), towards the Eastern quarters of Mount Kailāsa कैलास शैल, that has predominace of Topaz - viz. Puṣparāga पुष्पराग; and mentions about the Śivaliṅga शिवलिङ्ग that He worships there.
Śivarahasyam Aṃśaḥ-1 (Māheśvarākhya) शिवरहस्यम् अंशः-१ (माहेश्वराख्य) has several descriptions about Mount Kailāsa कैलास शैल and Śiva शिव. Selected verses from some of the chapters are presented here.
Encoded and proofread by Ruma Dewan