कैलासवर्णनम् ८

कैलासवर्णनम् ८

(कैलासशैले अष्टदिक्प्रतिष्ठितान् निषधहेमकूटादिनिवासवर्णनम् ८) स्कन्दः - तस्यान्तरे च प्राकारो नवरत्नविचित्रितः । अष्टाशीतिसहस्राणां योजनोच्छ्रयकल्पितः ॥ २८.१॥ चतुर्दशमहेशेन मनसैव प्रकल्पितः । ब्रह्माण्डोर्ध्वगमौली स प्रोद्यद्भानुसहस्रभाः ॥ २८.२॥ न देवा न च गन्धर्वा न यक्षोरगराक्षसाः । गणेन्द्रैरपि दुष्प्रेक्ष्यः प्राकारो रत्नकल्पितः ॥ २८.३॥ तत्र शैलाश्शिवेनैव चाष्टदिक्षु प्रतिष्ठिताः । निषधो हेमकूटश्च विन्ध्यो मलयदर्दुरौ ॥ २८.४॥ मन्दरो हिमवांश्चैव नीलोऽत्रैव प्रकाशितः । तेषां तपस्यया शम्भुस्सन्तुष्टो नितरां तदा ॥ ५॥ स्वावासेऽपि महाशैले महाकैलासपर्वते । तेषां नित्यं निवसतिं ददौ कारुण्यतश्शिवः ॥ ६॥ अन्यत्र ते शिलाशैलाः कैलासे रत्नसन्निभाः । तत्प्राकाराष्टकोणेषु विहिताश्शूलपाणिना ॥ ७॥ - - पूर्वतो निषधो भाति चाग्नेय्यां हेमकूटकः । विन्ध्योऽसौ दक्षिणे भाति मलयो नैरृते स्थितः ॥ ८॥ वारुण्यां दर्दुरो भाति वायव्यां भाति मन्दरः । हिमवानुत्तरे भाति चैशान्यां नीलपर्वतः ॥ ९॥ अष्टदिक्षु स्थिता एते महाकैलासपर्वते । स्वमौलिभिर्भासयन्ति दिशां स्तोमं नगोत्तमाः ॥ १०॥ तन्मौलिसौधशिखरैस्सूर्यचन्द्रातिकान्तिकैः । माणिक्यकान्तिर्नितषधश्चैन्द्र्यामिन्द्रधनुः प्रभः ॥ ११॥ भोगं पातङ्कर्मिणाञ्च पश्यन्हृष्यति चाम्बया । निषधेशालयं तत्र मणिकुम्भमनोहरम् ॥ २७॥ निषधो मूर्तिमांस्तत्र तलिङ्गं पूजयंस्तदा । भस्मरुद्राक्षसम्पन्नो दिव्यैः पञ्चामृतैस्तदा ॥ २८॥ गन्धैश्चैव च वासोभिर्बिल्वमन्दारचम्पकैः । धूपैर्दीपैश्च नैवेद्यैस्ताम्बूलैश्च नमंस्तदा ॥ २९॥ प्रदक्षिणाभिस्सततं निषधेशं स्तुवंस्थितः ॥ ३०॥ - - आग्नेयबहुलामोदवनगन्धैश्च सुन्दरम् । मारुतो वाति धूपानां प्रमोदामोदसुन्दरः ॥ ४२॥ तमालसुन्दरवनमग्निलोकविभूषणम् । अग्निदिक्सौधगं (आनलैस्सौधगैः) तत्र सेवितं सुमनोहरम् ॥ ४३॥ अग्नीश्वराभिधं लिङ्गं पूजयन्तो हि वह्नयः । आग्नेयगणपैश्चैव तत्र तल्लोकवासिभिः ॥ ४४॥ पुरा समर्च्य तल्लिङ्गं सर्वभक्षकृता दधत् । विमुक्तस्स तदा वह्निस्तं पश्यन् शङ्करोऽम्बया ॥ ४५॥ हेमकूटो महाशैलो मूर्तिमान्लिङ्गमैश्वरम् । हेमकूटेश्वरं नाम्ना प्रतिष्ठाण्यात भावनैः ॥ ४७॥ स्तौति देवं महादेवं हेमकूटश्शुभव्रतः ॥ ४८॥ (स्तौति देवं हेमकूटो भस्मरुद्राक्षधृङ्नगः) ॥ ४८॥ इत्थं सदा हेमकूटस्तत्र स्तौति महेश्वरम् ॥ ५०॥ - - महेशाश्रयजोन्मादमुदितो विन्ध्यभूधरः । तन्मौलिगोपुरोत्तुङ्गशिखरैर्वृषभैरपि ॥ ४॥ महानीलगणोद्यद्भानीलीकृतदिगन्तरः । तन्मौलितिलकोद्दामपुण्डरीकसहस्रकैः ॥ ५॥ नीलसारैश्च वृषभैर्मणिनेत्रैश्च शोभितः । स्फटिकेन्द्रमहानीलजालकाङ्कितकुट्टिमः ॥ ८॥ नीरनीलोत्पलकृतचारुमालाविभूषितः । गवाक्षित इवाभाति चाम्बरं तत्र सुन्दरम् ॥ ९॥ तस्मिन्त्सौधोत्तमे मञ्चे चेन्द्रनीलोरुपादके । तस्मिन्मञ्चोपरिलसन्नीललोहित ईश्वरः ॥ १०॥ देव्या सदास्ते नितरां गणवृन्दनिषेवितः । पश्यन् यामीन्दिशं शम्भुर्यमं संयमिनीश्वरम् ॥ ११॥ क्रीडत्यत्यन्तमुदितो देवो देव्या महेश्वरः । विन्ध्यमौलिमहासौधे नीलेन्द्रमणिकल्पिते ॥ १६॥ विन्ध्यो विन्ध्येश्वरं लिङ्गं तत्र सम्पूज्य भक्तितः । पञ्चामृतैः फलरसैश्चन्दनैर्धूपदीपकैः ॥ १७॥ बिल्वचम्पकमन्दारकरवीरसुपङ्कजैः । प्रदक्षिणानतीभिश्च मणिनीराजनैरपि ॥ १८॥ सम्पूज्य विन्ध्यस्संस्तौति भक्त्या विन्ध्येश्वरं शिवम् ॥ १९॥ इत्थं स्तौति सदा विन्ध्यो विन्ध्येशं तत्र शैलराट् । - - मलयो नैरृते भाति राजत्सुन्दरशेखरः ॥ २१॥ पुष्परागमणिप्रख्यो नानानिर्झरकन्दरः । रम्यश‍ृङ्गाग्रविलसद्गोपुरावलिभासुरः ॥ २२॥ रुद्रक्रीडादिसहितो ललामवृषभाञ्चितः । स्वप्रभाभासितोल्लासिसर्वलोकातिगो नगः ॥ २३॥ पुष्परागमणीकॢप्तसहस्रस्तम्भमण्डितः । सुरत्नकलशोपेतस्सहस्रतलमण्डितः ॥ २५॥ परार्ध्यरत्नखचितसिह्मासनवराश्रयः । रत्नगुच्छमहापुष्पसरालम्बितपीठभूः ॥ २६॥ तत्रस्थभूषणोपेतो देव्या क्रीडति शङ्करः । महामलयजोद्भूतचन्दनामोदिमारुतैः ॥ २७॥ चन्द्रचन्दनलिप्ताङ्गो महाकल्पकपुष्पधृक् । गुग्गुलूद्दामसुभगधूमामोदितदिक्तटः ॥ २८॥ तान्नैरृतीं दिशं शम्भुः पश्यन्निरृतिजान्गणान् । कृष्णान्करालान्विकटान्निस्त्रिंशवरधारिणः ॥ २९॥ सप्ताम्बुधीनां कोणानि तदन्तर्गतभूमपि । द्वीपांश्च सरितश्शैलान्वनानि च महेश्वरः ॥ ३०॥ मलयेन स्वनाम्ना वै लिङ्गन्तन्मलयेश्वरम् । मणिधाममयं तत्र पूजितं सर्वकामदम् ॥ ३१॥ पञ्चामृतैश्चन्दनैश्च बिल्वमन्दारचम्पकैः । धूपैर्दीपैश्च नैवेद्यैः प्रणामप्रक्रमादिभिः ॥ ३२॥ संस्तुवन्परया भक्त्या गिरिणा मलयेन च ॥ ३३॥ इत्थं स्तौति सदा देवं मलयश्शैलसत्तमः । - - दर्दुरः पश्चिमे भाति नानाश‍ृङ्गवराश्रयः ॥ ३५॥ वैडूर्यसारसुभगतत्सूत्रछविना ततः । तन्मौलिगोपुरापारशिखरैरतिभासुरः ॥ ३६॥ वैडूर्यसारगर्भाच्छसुन्दरान्तरकाञ्चितः । तत्र सिह्मासनं दिव्यं पञ्चयोजनकल्पितम् ॥ ४०॥ परार्ध्यास्तरणोपेतं तस्मिन्देव्या महेश्वरः । विहरत्यन्तरगणैर्वरुणो वारुणीं श्रितः ॥ ४१॥ दिशं पयोधिनाथेन पालितां यादसां तदा । वैडूर्यरत्नमकुटतटबद्धेन्दुशेखरः ॥ ४२॥ तद्वैडूर्यमहासूत्रधाराविद्योदितान्तरः । पश्यन्पश्चिमदिङ्नाथं वरुणं तद्गणानपि ॥ ४५॥ देवभागांश्च तत्रत्यान् क्षेत्राणि च महेश्वरः । विहरत्यम्बया सार्धं सौधे तस्मिन्पिनाकधृक् ॥ ४७॥ दर्दुरेशाभिधं तेन पूजीतं दिव्यधामगम् । पञ्चामृतासेचनैश्च गन्धैर्बिल्वैश्च चम्पकैः ॥ ४८॥ धूपैर्दीपैश्च नैवेद्यैर्नमनप्रक्रमस्तवैः । तुष्टाव दर्दुरो देवं दर्दुरेशं महेश्वरम् ॥ ४९॥ - - वायव्यां मन्दरस्तत्र मणिमुन्दरकन्दरः । महेशस्य प्रियो नित्यं सर्वमन्दारनन्दितः ॥ १॥ मन्दारतरुभिस्तस्य मौलिस्थैर्द्योतिता दिशः । हरिन्मणिप्रभाजालपरिष्कृतदिगन्तरः ॥ २॥ तत्रदेव्या हरित्कान्त्या वामभागस्थया शिवः । सेवितो हरितोद्दामपादमञ्चेऽधिसंस्थितः ॥ १२॥ देवलोकांस्तथादेवो देव्या लोकान्प्रतीक्षयन् । मन्दरेणार्चितं तत्र लिङ्गं सुन्दरमन्दिरे ॥ १४॥ नाम्नैव मन्दरेशानमिन्दुकुन्दसमप्रभम् । पञ्चामृतैस्तथा नीरैश्चन्दनैर्बिल्वपलवैः ॥ १५॥ अरविन्दमरन्दैश्च मन्दारतरुजैस्सुमैः । धूपैर्दीपैश्च नैवेद्यैर्नमनक्रमैस्तथा ॥ १६॥ आनन्दसुन्दरोदारस्तवैस्संस्तौति भक्तितः ॥ १७॥ इत्थं स्तौति सदा देवं मन्दरश्चारुकन्दरः । मम मातामहोद्दामशेखरैरर्दिता दिशः ॥ १९॥ - - हीरसारमयो भाति हिमवान् गगनातिगः । हिमसारमहाधाराशशिकान्तशिलामयः ॥ २०॥ तत्कान्तिकान्तिता लोका महागोपुरभासुरः । रुद्रावतारचरितैर्वृषस्तोमविराजितः ॥ २१॥ नियुतं योजनायामः कैलासोत्तरभागगः । सहस्रकेसरिसटातटभ्राजिसुपाण्डरः ॥ २२॥ सुधासागरमध्यस्थमणिद्वीपं शिवप्रियम् । नीपापारवनं तच्च रत्ननीपैस्समावृतम् ॥ ४०॥ हिमशैलामलाकारधारासौधे महेश्वरः । देव्या विहरति स्वैरं चलच्चामरवीजनैः ॥ ४१॥ रत्नचाम्पेयमालाभिर्भूषितस्तत्र शङ्करः । गणेन्द्रैरुद्यतलसत्त्रिशूलकरभासुरैः ॥ ४२॥ हिमाचलेश्वरं लिङ्गं चन्द्रस्फटिकधामगम् । अपारवरिवस्याभिर्हिमशैलेन चार्चितम् ॥ ४३॥ पञ्चामृतैः फलरसैस्सुगन्धैर्यक्षकर्दमैः । बिल्वारविन्दकह्लारैश्चम्पकैर्वकसम्भवैः ॥ ४४॥ धूपदीपोपहारैश्च प्रणामप्रक्रमादिभिः । अस्तौषीद्धिमशैलेशं हिमांश्च कृताञ्जलिः ॥ ४५॥ इत्थं हिमाचलस्स्तौति हिममौलिमहेश्वरम् । - - नीलो विभाति चैशान्यां कैलासामलपर्वते ॥ ४७॥ रम्यसानुशतोपेतस्सहस्रशिखरैर्वृतः । नीलोऽपि वामतश्शैलः प्रवालमणिभासुरः ॥ ४८॥ प्रवालवर्तुलात्यच्छमालागुच्छैकशोभितः । तत्रैव सुमनामोदमाद्यद्युङ्कृतषट्पदः ॥ ५५॥ तत्प्रवालमणिज्योत्स्नानिवारिततमस्त्रुटिः । तस्मिन्प्रवालपादाच्छमञ्चके स्तरणास्तृते ॥ ५६॥ देव्या विहरति प्रीत्या चन्द्रचूडो महेश्वरः । सप्ताधिवेष्टितापारभूमयोद्वीपकानपि ॥ ५७॥ वनानि सरितश्शैलान्क्षेत्राण्यपि महेश्वरः । ईशानलोकं तत्रैव नानारुद्रगणैर्वृतम् ॥ ५८॥ - - श‍ृणुष्व जैगीषव्यत्वं पापभङ्गाय केवलम् । निषधेशो हेमकेशो विन्ध्येशो मलयेश्वरः ॥ ६३॥ दर्दुरेशो मन्दरेशो हिमशैलेश्वरो हरः । नीलेश्वरोऽहि परितो महासौधवराश्रयाः ॥ ६४॥ रम्यगोपुरकोपेता नगास्तत्र वपुर्धराः । पूजयन्त्यत्र लिङ्गानि बिल्वपत्रैर्मनोहरैः ॥ ६५॥ नीलोऽपि तत्र नीलेशं पूज्यानेकैस्सुमैरपि । धूपैर्दीपैश्च नैवेद्यैस्स्तौति नीलेश्वरं शिवं । स्वमौलिमणिजापारधामगं प्राञ्जलिस्तदा ॥ ६६॥ इत्थं स्तुवन्ति ते शैला गिरीशां गिरिशं तदा ॥ ६८॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये कैलासशैले अष्टदिक्प्रतिष्ठितान् निषधहेमकूटादिनिवासवर्णनम् ॥ - ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः २८-२९-३०। वावृत्तश्लोकाः ॥ - .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 28-29-30. vAvRRittashlokAH .. Notes: Skanda स्कन्द describes to Jaigīṣavya जैगीषव्य; the eight mountains stationed in the eight directions - Aṣṭadiśāḥ अष्टदिशाः around Mount Kailāsa कैलास शैल (viz. in Niṣadha निषध in the East, Hemakūṭaka हेमकूटक in SouthEast, Vindhya विन्ध्य in the South, Malaya मलय in SouthWest, Dardura दर्दुर in the West, Mandara मन्दर in NorthWest, Himavān हिमवान् in the North and Nīla नील in NorthEast), as they worship the respective Śivaliṅga-s शिवलिङ्ग (viz. Niṣadheśvaram निषधेश्वरम्, Hemakūṭeśvaram हेमकूटेश्वरम्, Vindhyeśvara विन्ध्येश्वर, Malayeśvaram मलयेश्वरम्, Dardureśam दर्दुरेशम्, Mandareśam मन्दरेशम्, Himācaleśvaram हिमाचलेश्वरम्, Nīleśam नीलेशम् ) at their residences - central to which is the Residence of the ever compassionate Śiva शिव, who also sports with the Devī देवी in all the eight directions. Śivarahasyam Aṃśaḥ-1 (Māheśvarākhya) शिवरहस्यम् अंशः-१ (माहेश्वराख्य) has several descriptions about Mount Kailāsa कैलास शैल and Śiva शिव. Selected verses from some of the chapters are presented here. Encoded and proofread by Ruma Dewan
% Text title            : Kailasavarnanam 8
% File name             : kailAsavarNanam8.itx
% itxtitle              : kailAsavarNanam 8 kailAsashaile aShTadikpratiShThitAn niShadhahemakUTAdinivAsavarNanam 8 (shivarahasyAntargatA)
% engtitle              : kailAsavarNanam 8
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | mAheshvarAkhyaH prathamAMshaH | adhyAyaH 28-29-30| vAvRittashlokAH ||
% Indexextra            : (Scans 1, 2)
% Latest update         : December 17, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org