श्रीकण्ठचरिते कैलासवर्णनम्
शशिशुभ्राः किरन्भासो हासो धनपतेर्दिशः ।
गिरिरस्तीह कैलासो निवासो वृषलक्ष्मणः ॥ १॥
बिम्बितैर्यो मृगैर्भाति सुटस्फाटिकसानुषु ।
कौतुकेन कृतो धात्रा राशिभिः शशिनामिव ॥ २॥
रश्मयोऽभ्रङ्कषा यस्य श्रयन्ते सरलश्रियः ।
मूले मृणालनालत्वं ब्रह्मासनसरोरुहः ॥ ३॥
यदंशुस्रोतसः सङ्गादुत्तमाङ्गेऽपि धूर्जटेः ।
नेन्दुः क्षीरोदकल्लोलनिवासप्रीतिमुज्झितः ॥ ४॥
सर्वतोऽपि प्रनृत्यद्भिर्यश्चकास्ति गभस्तिभिः ।
लिखन्मुसेषु ककुभां कर्पूरस्थासकानिव ॥ ५॥
पादैर्महद्भिराक्रान्तदिगन्तो यः सितद्युतिः ।
विमर्ति क्षममात्मानं भोक्तु नवसुधाभरम् ॥ ६॥
जहाति यस्य लिम्पद्भिः करैराचान्तकालिमा ।
जलदः प्रावृषेण्योऽपि न शारदपयोदताम् ॥ ७॥
सगुहां प्रकटाहीनकटकां दधदाकृतिम् ।
सदापिनाकमाक्रम्य स्थितः पादवलद्गणः ॥ ८॥
दधानोऽधिगतश्वेतसानुरहशरीरताम् ।
स्वसाम्यमिव यो नीतः सेवाप्रीतेन शम्भुना ॥ ९॥
आबद्धपरिवेषस्य रश्मिभिः स्फटिकाश्मनाम् ।
प्रदक्षिणमप्रवृत्तेव राजते यस्य जाह्नवी ॥ १०॥
धत्तेंऽशुभिः समालब्धां भर्गनेत्रहविभुर्जः ।
यो मूर्ति रोहणं जेतुं पद्मरागमयीमिव ॥ ११॥
यत्र स्फटिकतेजोभिर्भर्गस्य च गलत्विषा ।
रजन्यपि दिनंमन्या रात्रिंमन्यं भवत्यहः ॥ १२॥
दिक्षु द्युतिभिरेणाङ्कगभस्तिप्रतिवस्तुभिः ।
यशांसि वर्षता येन राजन्वन्तो महीभृतः ॥ १२॥
नृत्यद्भवपदक्षुण्णयत्क्षोणीरेणुविप्रुषः ।
भनिभेन नभो नूनं नक्तं नक्तमुपासते ॥ १४॥
शिववाहखुरोपज्ञजातरूपसमृद्धिभिः ।
क्षणान्मेरुसहस्रं यः सूते शैलप्रजापतिः ॥ १५॥
यत्र नेत्रानलः शम्भोः प्रतिबिम्बावलम्बनात् ।
कल्पतेऽनल्पदावाग्निशिल्पकृद्रत्नसानुषु ॥ १६॥
रुद्रोत्तंसविधूद्रेकद्रवच्चन्द्राश्मजन्मभिः ।
प्रवाहैरिव यः सख्यं कचिन्नोज्झति निर्झरैः ॥ १७॥
किंस्विद्गौरीहरेर्भीत्या विनीत्या किमु धूर्जटेः ।
दूराद्रथमृगं तयक्त्वा यं मृदुः सेवतेऽनिलः ॥ १८॥
दरीषु किंनरीलोकं धत्ते यः प्लोषविलप्लवे ।
न्यासीकृतमनङ्गेन भाण्डागारमिव स्वकम् ॥ १९॥
श्वेतास्मकुहरैर्मध्यसुप्तश्याभ्रमण्डलैः ।
व्यनक्ति यः शैलवृपा सहस्रमिव चक्षुषाम् ॥ २०॥
अवगूढो दृढं देव्या पौलस्त्येभुजनर्तिते ।
यत्र क्षणं विभुर्लभे दोलाकेलिरसज्ञताम् ॥ २१॥
अत्युन्नतस्य पादेषु क्षपासु लुठतेन्दुना ।
यस्य प्रभुरपि स्पर्धां नैति चन्द्रशिखामणिः ॥ २२॥
दिक्षु प्रसारितबृहत्प्रभापक्षतिसम्पुटः ।
यो मानसे जगल्लक्ष्मीकेलिहंस इव स्थितः ॥ २३॥
यो मध्यमध्यसङ्क्रान्तनवाभ्रकणशारितैः ।
लौहितीकतटैर्भाति स्वप्रशस्तिपटैरिव ॥ २४॥
स्फुलिङ्गभङ्गिभिर्मानोः प्रतिबिम्बैर्य ईक्ष्यते ।
राशिर्भूतेरिव त्र्यक्षप्लुष्टानां विश्वपाप्मनाम् ॥ २५॥
मानसास्कन्दनपटुः स्पृशन्नुत्कटकान्तताम् ।
दधानः सुखद रूं सिद्धसाध्यगणाश्रितः ॥ २६॥
सालकान्तस्थितिर्नीरुकण्ठाध्यासनपावनः ।
य इवाभाति यच्चित्रमहर्यक्षैस्तु सेव्यते ॥ २७॥
क्वचित्कवचितः सान्द्रनवाम्बुदकदम्बकैः ।
यो विमुद्रयति क्षोणीरञ्जद्रिमदद्रुहः ॥ २८॥
सीमन्तरेखा रोदस्योः क्षौमनीरङ्गिका दिशाम् ।
ककुप्कुञ्जरयूथस्य पुरोमुखपटच्छटा ॥ २९॥
द्वितीयभूतिर्भर्गस्य फेनश्रीर्मीनसाम्भसाम् ।
भूपन्नगस्रीनिर्मोको भाति यत्कान्तिसन्ततिः ॥ ३०॥
सङ्क्रान्तं यो वहत्यन्तर्वपुषि स्फाटिके जगत् ।
आचान्तमिव कल्पान्ते शिक्षया वृषलक्ष्मणः ॥ ३१॥
बिम्बितार्कधृतापाण्डुशरीरो यो विराजते ।
सान्द्रेरामञ्जरीपुष्पगुच्छोत्तंस इव क्षितौ ॥ ३२॥
स्फटिकाश्मसु यत्रास्ते बिम्बितो गुहबर्हिणः ।
दत्तयात्र इवाक्रष्टुमहीन्पाताल्वासिनः ॥ ३३॥
विश्वात्मने स्वनाथाय दिगस्बरदशाजुषे ।
वयतीवाम्बरं दिक्षु यस्ततैरंशुतन्तुभिः ॥ ३४॥
योऽश्रान्तशशभृत्सङ्गद्रवच्चन्द्राश्मशीकरैः ।
व्यनक्ति भगवत्पादपातानन्दाश्रुदुर्दिनम् ॥ ३५॥
यो बिभर्ति ज्वलत्तुङ्गपतङ्गाश्मगुहात्मना ।
दत्तां भगवता दृष्टिमह्नि वह्निमयीमिव ॥ ३६॥
ढौकितानन्तकुसुमप्रकरः पार्श्वपादपैः ।
कीर्णार्घो गिरिजासिंहकरजोन्मुक्तमौक्तिकैः ॥ ३७॥
धूपधूममभिव्यञ्जन्भरैर्नवपयोमुचाम् ।
दत्तदीपालिकः शृङ्गभज्वरत्तपनोपलैः ॥ ३८॥
स्नानानि यच्छन्नच्छिन्नमुच्छलद्भिरितस्ततः ।
नियनिःष्यन्दमानेन्दुदृषत्सूतिभिरम्बुभिः ॥ ३९॥
सधातुनिर्झरारब्धसमालभनविभ्रमः ।
स्तुवन्दरीमुखैर्वातलहरीमुखरीकृतैः ॥ ४०॥
शुभोपकल्पितबलिर्नानाविधफलर्द्धिभिः ।
तटभस्तुतसङ्गीतभङ्गीको दिव्यचारणैः ॥ ४१॥
यो भस्मस्मेरसर्वाङ्गो निभृतां स्थितिमश्नुते ।
नित्यसन्निहितं देवदेवमभ्यर्चयन्निव ॥ ४२॥
धातुपाटलमुत्क्षेपपरिभूत्यपराधिनि ।
योऽद्यापीव मुखं धत्ते सकोपं दशकन्धरे ॥ ४३॥
सूर्यग्रावाग्निना दुन्वन्सिञ्चन्निन्दूपलद्रवैः ।
कोपभसादसम्भेद इव योऽनाङ्गदाहिनः ॥ ४४॥
सोरगाश्लेषनिःशेषतापघ्नस्थाणुसङ्गतेः ।
श्रीखण्डंशैलं कुरुते यः साम्यानुग्रहातिथिम् ॥ ४५॥
दिवापि पतासु महेशशेखरप्रजागरूकेण कुरङ्गकेतुना ।
कदाचन प्रोषितभर्तृकाव्रतं शिखासु यस्यौषधिभिर्न शिक्षितम् ॥ ४६॥
शिखराध्वनि यस्य षट्पदद्युतिचौरा नवकेकिबन्धवः ।
ज्वलदोषधिदीप्तिसम्पदां दधते सम्भृतकज्जलश्रियम् ॥ ४७॥
तनुरनुपसरति श्रीसंस्तवं यस्य शृङ्गे-
ष्वनुरजनि सुधांशोमूर्तिभिर्बिम्बिताभिः ।
भरसहनभृतान्तस्तोषभर्गप्रसादी-
कृतनिजनृरकपालस्रक्सहस्राञ्चितेव ॥ ४८॥
स्फटिककटककुट्टिमेषु यस्य प्रतिमितयः खरतेजसो जुषन्ते ।
विचरणचणशर्ववाहपादप्रणयसमुद्गतजातरूपशोभाम् ॥ ४९॥
यस्याः सौरभकिङ्करीकृतमिलन्मत्तालिमालानिभा-
द्व्यज्यन्तेऽनवधिक्रुधो रतिपतेर्भ्रूभङ्गविच्छित्तयः ।
चित्रा चैत्ररथानिलस्य लहरी सा यत्र सञ्जायते
मानानध्ययनानाष्टमी शिशुतमीजीवातुभृत्सुभ्रुवः ॥ ५०॥
निह्नोतुं क्षणमीशते गणपतेर्येऽत्यूर्जितं गर्जितं
स्वैरं तारकवैरिवाहशिखिनो ये मौनमुद्राभिदः ।
ते यत्र स्तनितोर्मयो जलमुचां देवीहठालिङ्गन-
क्रीडासादरसौख्यदानपतितामायान्ति खट्वाङ्गिनः ॥ ५१॥
कालुष्यप्रागभावप्रणयिनि निबिडप्रावृडातङ्कनश्य-
द्धंसश्रेणीशरण्ये प्रकटतटलुठद्वीचिलेखाजटाले ।
यो मुख्ये मानसाख्ये परिसरसरसि प्राप्तसङ्क्रान्तिरन्त-
र्भूलोकालोकनेच्छोज्जिगमिषदुरगाधीशभङ्गीं बिभर्ति ॥ ५२॥
क्व यस्य नक्तन्दिनचन्द्रिका न द्युतिर्द्युवीथीमुपतिष्ठमाना ।
सन्नद्धतां कन्दलयत्यशेषवर्णान्तरापह्नविप्लवाय ॥ ५३॥
या काप्युदात्ततरदक्षकुलप्रसूति-
र्या सेवते हरिपदाक्रमणक्षमत्वम् ।
तां तारकान्तकरजन्मशुभानुभावां
गौरीं तनुं वहति यो दयितां हरस्य ॥ ५४॥
दन्ता नितम्बभुवि पादतलेऽलकाप्ति-
र्योग्या पयोधरविवृत्तिषु मेखला च ।
यस्यास्तरङ्गितवलीमुखपृष्ठता च
यस्तां समुद्वहति मूर्तिमपूर्वकान्ताम् ॥ ५५॥
उद्द्वेल्लत्फटमुण्डखण्डसचिवैरुतत्तंसिता मूर्धभिः
प्रेङ्खत्पत्त्रकराश्रितालिलहरीरुद्राक्षमालाभृतः ।
रोहद्दीर्घजटास्तटेषु तपसि स्थेम्नेव यस्य द्रुमा-
स्ते तिष्ठन्त्यनिरोध एव मरुतामन्तं नयन्तो रजः ॥ ५६॥
यस्मिञ्जातु न जायतेऽम्बुजवतीकौमारधर्मक्षति-
र्दृष्टो यत्र न वा कदाचिद्शनाभिज्ञश्चकोरीजनः ।
तस्मिन्नप्यहिचक्रवर्तिनगरोद्देशोपकण्ठे क्षणं
यन्मूलस्फटिकाश्मरश्मिपटलैः कोऽपि प्रकाशोदयः ॥ ५७॥
नैर्मल्यतस्तुलितसाधुजनाशयो यः
सङ्क्रान्तकोमलतमालतरुप्रकाण्डः ।
ज्योत्स्नासपत्नरुचिपीततमस्तरङ्ग्-
सन्दर्भगर्भमिव कुक्षिमभिव्यनक्ति ॥ ५८॥
यो लम्बोदरकुम्भसम्भवमदस्रोतःसिरासीकर-
क्षुण्णः स्वःसरिदङ्कपङ्कजरजःसौगन्ध्यबन्धुश्च यः ।
वप्रेषु प्रसरः स यत्र मरुतामोजायते जायते
यत्सेवाप्रवणो गणे मधुलिहां मन्दारमन्दादरः ॥ ५९॥
यमदूरतस्त्रिजगदेककौतुकव्यवहारसर्गविधिनव्यवेधसम् ।
अलका विमुद्रबहुसौधसीहृदादनिमेषलोचनचयेव वीक्षते ॥ ६०॥
यस्याश्चकास्ति कटकेषु सहेलखेल-
द्विद्याधरीचरणयावकपङ्कमुद्रा ।
श्रीकण्ठनेत्रपथजानपदार्कसोम-
सेवाकृते सततसन्निहितेव सन्ध्या ॥ ६१॥
व्योमोलङ्घनजाङ्घिकेन वपुषा निःशेषकाष्ठाहठ-
क्रीडाश्लेषविटस्य कल्पितवतो ब्रह्माण्डमुत्कर्परम् ।
पातालाधिशयालुमूलमहसः शङ्के न यस्य प्रति-
स्पर्धावर्धनसाहसे बलभिदः शैलोऽपि सन्नह्यति ॥ ६२॥
दिवि क्षीरोदन्वान्हिमगिरिरजय्योऽर्कमहसा-
मजाताधःपातस्रिदशसरिदोघः कचति यः ।
वमञ्ज्त्योत्स्नाजालं दिशि दिशि सपत्नं शशिरुचां
चकोरीजिह्वभिर्विरचितवृथालेहनविधिः ॥ ६३॥
द्विर्भावश्चन्द्रभासां तरुणकुमुदिनीनाथचूडाट्टहासा-
नुप्रासः शैलपुत्रीनवहसितसुधाविप्रुषां पौनरुक्त्यम् ।
स्वर्गङ्गावीचिवीप्सा रुचिरुपचिनुते चातुरीं यस्य तस्य
क्षोणीर्भर्तुर्गुणेषु प्रतिपदपठनं को विनिर्मातुमीष्टे ॥ ६४॥
इति श्रीमङ्खकस्य कृतौ श्रीकण्ठचरिते महाकाव्ये कैलासवर्णनम् ।
॥ श्रीमङ्खककविकृतं श्रीकण्ठचरितम् । चतुर्थः सर्गः - कैलासवर्णनम् ॥
.. shrImankhakakavikRitaM shrIkaNThacharitam . chaturthaH sargaH - kailAsavarNanam ..
Notes:
Śrīkaṇṭhacaritam श्रीकण्ठचरितम् is a Saṃskṛta Mahākāvya संस्कृत महाकाव्य composed by Mahākavi Maṅkhaka महाकवि मङ्खक - a 12th century poet from Kashmir. The 25 sections of the Mahākāvya महाकाव्य describe the incidence of Tripuradāha त्रिपुरदाह and the annihilation of Tripurāsura त्रिपुरासुर by Śrīkaṇṭha श्रीकण्ठ (Śiva शिव).
Sarga 4 सर्ग ४ describes Mount Kailāsa कैलास, the Abode of Śrīkaṇṭha श्रीकण्ठ (Śiva शिव).
Encoded and proofread by Ruma Dewan