कैलासोद्यानवर्णनम्

कैलासोद्यानवर्णनम्

(शिवरहस्यान्तर्गते ईशाख्ये) सुब्रह्मण्य उवाच । जैगीषव्य महाभव्य हव्यवाहसमप्रभ । दिव्यं कथानकं शम्भोर्नाकिभिर्मुनिभिर्गणैः ॥ १५॥ श‍ृण्वपर्णापतेस्तूर्णं पूर्णं कर्णरसायनम् । (श‍ृण्वपर्णापतेस्तूर्णं सन्तारणकरं शुभम् ।) भवार्णवनिमग्नानां सन्तीर्णतरिमद्भुताम् ॥ १६॥ पुरा कैलासतदने मदनान्तकरो हरः । रत्नप्रासादसम्बाधे सौधगोपुरमण्डिते ॥ १७॥ शिखण्डिताण्डवयुते डम्बराडम्बरैर्युते । उद्यद्भास्करसङ्काशविद्रुमस्तम्भमण्डपे ॥ १८॥ नानातरुगणापारफुल्लपुष्पविराजिते । तत्पुष्पसुन्दरतरपरागावृतमारुते ॥ १९॥ नानापक्षिरुतापारनन्दितानन्दकन्दरे । चन्दनानन्दसुभगगन्धमेदुरपूजिते ॥ २०॥ पर्वताखर्वसर्वस्वशर्वरीनाथसप्रभे । शिखरे विजहारेशो हरो गौर्या सदार्यया ॥ २१॥ मुदा हृदा तदा देवो दर्शयन् तद्वनस्थलीम् । नानापुष्पतरुच्छन्नामभ्रभ्रान्तिनिवारिणीम् ॥ २२॥ हरिणीगणसंयुक्तां पतत्पत्रवरैर्युताम् । नियुतायुतविस्तीर्णां सङ्कीर्णां मृगपक्षिभिः ॥ २३॥ भ्रमन्मातङ्गसारङ्गां रत्नगङ्गातटोज्ज्वलाम् । तुङ्गशाङ्गमहालिङ्गसङ्ग सौधोज्ज्वलत्प्रभाम् ॥ २४॥ भावितुं मनसा सर्वैरशक्यां तां वनस्थलीम् । उत्फुल्लहल्लकाक्रान्तां क्रौञ्चसारससेविताम् ॥ २५॥ पतङ्गांशुसमुत्फुल्लरक्ताब्जवरशोभिताम् । परागरागस्वच्छोदां तटप्रासादशोभिताम् ॥ २६॥ तत्प्रासादाग्रमध्यस्थसिह्मासनवराश्रितः । दिव्याङ्गसङ्गसुभगो भर्गो देव्या समन्वितः ॥ २७॥ चन्द्रापीडो मृडो गौर्या दर्शयामास तद्वनम् ॥ २८॥ स्वस्यास्यमादर्शतले ददर्श शर्वोऽथ गौर्याप्रतिबिम्बितं वनम् । सर्वैकनाथः स हि विश्वनाथो विश्वं यथा स्वात्मपथं करोति ॥ २९॥ मत्तद्विरेफकलहंसकुलाभिरामं पुंस्कोकिलाकलितकाकलिरागमुक्तम् । उत्पुच्छगुच्छसमरैश्चमरैरुपेतं त्र्यक्षो मुदैक्षत वनं शिवया समेतः ॥ ३०॥ शारदमुदिराभफुल्लमल्ली- सुमगन्धोद्यतमेदुरं वनान्तम् । स दिनान्तेऽथ वसन्तवासरे शिखरे शैलवरे ददर्श शर्वः ॥ ३१॥ भल्लालिङ्गितकुन्दवल्लिकलिके(कं)प्रोत्फुल्लमल्लीगणे(णं) तज्जातालदिव्यगन्धसुमहाबन्धान्धसन्मारुतं जिघ्रन् साम्बशिवस्तदास्त शिखरे कैलासभूभृद्वरे ॥ ३२॥ तमालतिलकालकं तिलकिताच्छसत्केतकं प्रफुल्लवनराजिकं शिवपदाब्जसंसेवकम् । ददर्श शिखरावृतं हरितपीतरीतीयुतं प्रफुल्लनगसंयुतं गिरिमथैक्षताम्बासुतः ॥ ३३॥ कदम्बजसुनिम्बजैः सफलबिम्बवल्लीवृतैः सदम्बुजसरोवरैर्वृतमपारजम्बूद्रुमैः । हृदम्बरमुदं व्यधात् वरदिशाम्बरोऽहस्कर- धनञ्जयनिशाकरप्रकटलोचनोस्ताम्बया ॥ ३४॥ (धनञ्जयनिशाकर प्रकट चक्षुरास्ताम्बया) ॥ ३४॥ सुनीपतरु संवृतं प्रथिततापपापापहं अपायशरणं वनं तगरधूपसम्मोदनम् । चिरन्तनतपोवनं शिवविहारतः पावनं ददर्श किलकाननं स शिवया स्वकीयाननम् ॥ ३५॥ प्रफुल्लनानाविधगुल्मशोभितं लतावितानादिमनोरमं वनम् । विरूढशष्पैः परितः प्रियङ्गुभिः सुपुष्पितं कण्टकितं च केतकैः ॥ ३६॥ तमालगुच्छैर्निचितं सुगन्धिभि- र्निकामपुष्पैर्वकुलैश्च सर्वशः । अशोकपुन्नागवनैः सुपुष्पितैः द्विरेफमालाकुलपुष्पसञ्चयैः ॥ ३७॥ क्वचित्प्रफुल्लाम्बुजरेणुरूषितं विहङ्गमैश्चारुकलप्रणादिभिः । विनादितं सारसहंसपङ्क्तिभिः प्रमत्तनत्यूहरुतैश्च शोभितम् ॥ ३८॥ क्वचिच्च चक्राह्वरुतैर्विनादितं क्वचिच्च कारण्डवनादमण्डितम् । क्वचिच्च मत्तालिकुलाकुलीकृतं मदाकुलाभिर्भ्रमराङ्गनादिभिः ॥ ३९॥ निषेवितं चारुसुगन्धिपुष्पं क्वचित्सपुष्पैः सहकारवृक्षैः । लतोपगूढैस्तिलकैस्तमालैः प्रगीतविद्याधरसिद्धचारणम् ॥ ४०॥ विवस्वत्प्रभापुञ्जगुञ्जाफलाढ्यं विराजत्सुधांशोःशशशोभिमध्यम् । गिरावद्रिवृन्दप्रभानीलवस्त्रं वियद्व्याधवेश्मेव विश्वं विभाति ॥ ४१॥ प्रवृत्तनृत्तानुगतोऽप्सरोगणं प्रहृष्टनानाविधपुष्टसन्मृगम् । प्रमत्तहारीतकुलोपपन्नं मृगेन्द्रनादाकुलसन्नशम्बरम् ॥ ४२॥ कूचिच्च रुद्रोरुकदम्बमृग्य- विलूनशष्पाङ्कुरवाप्यमण्डितम् । प्रफुल्लसद्धल्लकनीलकोत्पलैः सत्पुण्डरीकैः कमलैश्च शेभितम् ॥ ४३॥ विटपनिचयनीलं नीलकण्ठाभिरामं मदमुदितविहङ्गव्रातनादाभिरामम् । कुसुमिततरुशाखानीलमत्तद्विरेफं नवकिसलयशोभाशोभितप्रान्तशाखम् ॥ ४४॥ क्वचिच्च दन्तिक्षतचारुवीरुधं वेणुद्रुमैर्रुद्धमरीचिमार्गम् । क्वचिल्लताऽऽलिङ्गितफुल्लवृक्षं ऋक्षौघसन्दारितमूलभागम् ॥ ४५॥ क्वचिद्विलासालसगामिनीभि- र्निषेवितं रुद्रगणाङ्गनाभिः । पारावतध्वनिभिरूर्जित चारुश‍ृङ्ग- मभ्रङ्कषैःसितसितायितपर्वताग्रैः ॥ ४६॥ सङ्कीर्णपुष्पनिकरप्रविभक्तभासै- र्विभ्राजितैरभ्रसमैश्च श‍ृङ्गैः । प्रान्तोद्भवागरु दवोद्भवधूमरेखा- लेखामुखाघ्राणसुखैकसन्मुखम् ॥ ४७॥ वृक्षाग्रसङ्कलितपुष्पविचित्रपङ्क्ति- सम्बद्धगुल्मविहगैर्गहनं ददर्श ॥ ४८॥ तुङ्गाग्रैर्नीलपुष्पस्तबकभरनतप्रांशुशाखाशिखाभि- र्मालाप्रान्तान्तलीनश्रुतिसुखजननैः कूजितं पक्षिसङ्घैः । रात्रौ चन्द्रस्य भासा कुसुमिततिलकै (रेकतः श्यामकान्तं) छायासुप्तप्रबुद्धस्थितहरिणगणालुप्तदूर्वाङ्कुराग्रम् ॥ ४९॥ हंसानां पक्षवातप्रचलिचकमलस्वच्छसम्पूर्णतोयं तत्तीरप्रथितोरुचारुकदली(पाली)नृत्यन्मयूरम्पुरः । मायूरैः पक्षचन्द्रैः क्वचिदवपतितैरर्चितक्ष्माप्रदेशं देशोऽभासे विलीनप्रमुदितविगलत्सान्द्रकस्तूरिकैणम् ॥ ५०॥ सारङ्गैरुपशोभिसत्प्रदेशं प्रच्छन्नं कुसुमचयैः क्वचिद्विकीर्णम् । हृष्टाभिः क्वचिदपि रुद्रकाङ्गनाभि- र्वीणाभिः सुमधुरगीतरम्यषण्डम् ॥ ५१॥ आमूलात्फलनिचितैकचिद्विशालै- रुत्तुङ्गैः पनसमहीरुहैरुपेतम् । फुल्लाविमुक्तकलातागृहलीनबर्हि- केकारवाक्रमिततद्गरिमूलसानुम् ॥ ५२॥ रम्यप्रियङ्गु तरुमञ्जरिसक्तश‍ृङ्गं भृङ्गावली कज्जलिताम्रकदम्बपुष्पम् । पुष्पोत्तरानिलविधूतफणीन्द्रवक्त्र- सत्पारणं विदधतं च नमत्युदारम् ॥ ५३॥ गुल्मान्तरप्रसृतगीत . . . . . नेत्रान्तरागलदथाश्रुजशीतवारि । चण्डांशुजालकलशे तिलके मनोज्ञैः सिन्दूर कुङ्कुमकुसुम्भनिभैरशोकैः ॥ ५४॥ चामीकराभपरिफुल्लसुकर्णिकारै- र्मन्दारसुन्दरसुवृत्तकचारुशाखी । कीलालजातानिललोलमूल- मृणालमौलिस्थसुपद्मजालम् ॥ ५५॥ वाताहति प्रोद्धतपत्रघर्घरं विरावितालं सुतमालपिप्पलम् । त्यक्ताः शिवेनेति च केतकेन सङ्केतभाजोऽत्र वसन्ति केतकाः ॥ ५६॥ नागानुबन्धेन विरागमप्यहो शिवाङ्गमप्यातनुते परागैः । सद्वारणं वारणसङ्घमत्र मन्दारसन्दारितमेघमालम् ॥ ५७॥ वटं सटाभिर्जटिलप्रभं सदा वृतं च खेदारणकोविदारम् । कैलासमौलिकृतमालतमालजालं तक्कोलहिन्तालरसालजं फलम् ॥ ५८॥ अङ्कोलनारेलफलैर्विलोलं कृतालवालं वकुलं विभाति । पुन्नागनागसरलार्जुनचम्पकाढ्यं सत्पाटलीपटलगन्धसुगन्धिताशम् ॥ ५९॥ सच्छिंशुपाबदरशाल्मलिकिंशुकाढ्यं शोकापहारिभिरशोकपरम्पराढ्यम् । कपित्थतिन्त्रिणीबकूलकाश्वमारशेखरं सुलोध्रभद्रकाम्रकैः सुफुल्लदाडिमीफलम् ॥ ६०॥ सुमातुलिङ्गरङ्गकं विभाति तद्वनं परं सुरादनामलक्यपूगपूगजम्बुकं वनम् । कदल्ययूधिकावृतं समीक्ष्य चाम्बया वसन् ॥ ६१॥ हरित्प्रशस्ततरहस्तविशस्तशाखम् । वातावधूतसरधादिगलत्फलाढ्यम् ॥ ६२॥ गोलाङ्गूलसहस्रकप्रतिपतज्जम्बूफलानीयुतम् । भ्राजद्भूमितलं द्विरेफबहुलं संराजते तद्वनम् ॥ ६३॥ इरिणं खरकिरणैररुणं तत्प्रविभाति तलं च वै गिरीन्द्रे । सुदरिद्रे विषया यथाऽफला- स्तृणमात्रं नहि रोहते तत्र ॥ ६४॥ राजीवराजः इनराड्गिरीशं नीराजतीव प्रविभाति तद्गिरौ । कोलोरुदंष्ट्राभिविशस्तमुस्ता- मार्ष्टीव सङ्घैश्च शिलातलाभूः ॥ ६५॥ सकलभुवनकर्ता लोकनाथस्तदानीं तुहिनशिखरिपुत्र्या सार्धमिष्टैर्गणेन्द्रैः । विविधतरुविशालं मत्तहृष्टान्यपुष्टं उपवनमतिरम्यं दर्शयमास देव्यै ॥ ६६॥ (पुष्पैर्वन्यैः सुभक(सुरभि)कुसुमै) पुष्पैर्वन्यैः शुभक(विविध)कुसुमैर्गन्धितैस्तद्गिरीन्द्रे देवीं दिव्यामुपवनगतां भूषयामास सख्यः । सा चाप्येवं तुहिन गिरिजा शङ्करं देवदेवं वन्यैः पुष्पैः पशुवरपतिं भूषयामासहृष्टा ॥ ६७॥ ॥ इति शिवरहस्यान्तर्गते कैलासोद्यानवर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । ईशाख्यः द्वादशमांशः । १ कैलासोद्यानवर्णनम् । १५-६७ ॥ - .. shrIshivarahasyam . IshAkhyaH dvAdashamAMshaH . 1 kailAsodyAnavarNanam . 15-67 .. Notes: Subrahmaṇya सुब्रह्मण्य narrates (to Jaigīṣavya जैगीषव्य) about the Udyānam उद्यानम् at Kailāsa कैलास, where Śiva शिव and Gaurī गौरी spend their time together. Proofread by Ruma Dewan
% Text title            : Kailasodyanavarnanam
% File name             : kailAsodyAnavarNanam.itx
% itxtitle              : kailAsodyAnavarNanam (shivarahasyAntargatam)
% engtitle              : kailAsodyAnavarNanam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | IshAkhyaH dvAdashamAMshaH | 1 kailAsodyAnavarNanam | 15-67 ||
% Indexextra            : (Scan)
% Latest update         : December 28, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org