कुबेरकृतं सोमनाथस्तोत्रम्

कुबेरकृतं सोमनाथस्तोत्रम्

कुबेर इति धर्मात्मा श्रुतशीलसमन्वितः । लिङ्गं प्रतिष्ठयामास न्यङ्कुमत्याश्च पूर्वतः ॥ २१॥ कौबेरात्पश्चिमे भागे सोमनाथेति विश्रुतम् । सम्पूज्य च यथेशानं न्यङ्कुमत्यास्तटे शुभे । स्तोत्रेणानेन चास्तौषीद्भक्त्या तं सर्वकामदम् ॥ २२॥ मूर्तिः क्वापि महेश्वरस्य महती यज्ञस्य मूलोदया तुम्बी तुङ्गफलावती च शतशो ब्रह्माण्डकोटिस्तथा । यन्मानं न पितामहो न च हरिर्ब्रह्माण्डमध्यस्थितो जानात्यन्यसुरेषु का च गणना सा सन्ततं वोऽवतात् ॥ २३॥ नमाम्यहं देवमजं पुराणमुपेन्द्रमिन्द्रावरराजजुष्टम् । शशाङ्कसूर्याग्निसमाननेत्रं वृषेन्द्रचिह्नं प्रलयादिहेतुम् ॥ २४॥ सर्वेश्वरैकत्रिबलैकबन्धुं योगाधिगम्यं जगतोऽधिवासम् । तं विस्मयाधारमनन्तशक्तिं ज्ञानोद्भवं धैर्यगुणाधिकं च ॥ २५॥ पिनाकपाशाङ्कुशशूलहस्तं कपर्दिनं मेघसमानघोषम् । सकालकण्ठं स्फटिकावभासं नमामि शम्भुं भुवनैकनाथम् ॥ २६॥ कपालिनं मालिनमादिदेवं जटाधरं भीमभुजङ्गहारम् । प्रभासितारं च सहस्रमूर्तिं सहस्रशीर्षं पुरुषं विशिष्टम् ॥ २७॥ यदक्षरं निर्गुणमप्रमेयं सज्योतिरेकं प्रवदन्ति सन्तः । दूरङ्गमं वेद्यमनिन्द्यवन्द्यं सर्वेषु हृत्स्थं परमं पवित्रम् ॥ २८॥ तेजोनिभं बालमृगाङ्कमौलिं नमामि रुद्रं स्फुरदुग्रवक्त्रम् । कालेन्धनं कामदमस्तसङ्गं धर्मासनस्थं प्रकृतिद्वयस्थम् ॥ २९॥ अतीन्द्रियं विश्वभुजं जितारिं गुणत्रयातीतमजं निरीहम् । तमोमयं वेदमयं चिदंशं प्रजापतीशं पुरुहूतमिन्द्रम् । अनागतैकध्वनिरूपमाद्यं ध्यायन्ति यं योगविदो यतीन्द्राः ॥ १.२९०.३०॥ संसारपाशच्छिदुरं विमुक्तः पुनः पुनस्त्वां प्रणमामि देवम् ॥ ३१॥ निरूपमास्यं च बलप्रभावं न च स्वभावं परमस्य पुंसः । विज्ञायते विष्णुपितामहाद्यैस्तं वामदेवं प्रणमाम्यचिन्त्यम् ॥ ३२॥ शिवं समाराध्य तमुग्रमूर्त्तिं पपौ समुद्रं भगवानगस्त्यः । लेभे दिलीपोऽप्यखिलांश्च कामांस्तं विश्वयोनिं शरणं प्रपद्ये ॥ ३३॥ देवेन्द्रवन्द्योद्धर मामनाथं शम्भो कृपाकारुणिकः किल त्वम् । दुःखाऽर्णवे मग्नमुमेश दीनं समुद्धर त्वं भव शङ्करोऽसि ॥ ३४॥ सम्पूजयन्तो दिवि देवसङ्घा ब्रह्मेन्द्ररुद्रा विहरन्ति कामम् । तं स्तौमि नौमीह जपामि शर्वं वन्देऽभिवन्द्यं शरणं प्रपन्नः ॥ ३५॥ स्तुत्वैवमीशं विरराम यावत्तावत्स रुद्रोऽर्कसहस्रतेजाः । ददौ च तस्मै वरदोऽन्धकारिर्वरत्रयं वैश्रवणाय देवः । सख्यं च दिक्पालपदं चतुर्थं धनाधिपत्यं च दिवौकसां च ॥ ३६॥ इति श्रीस्कन्दपुराणे प्रभासखण्डे प्रभासक्षेत्रमाहात्म्ये नवत्यधिकद्विशततमाध्यायान्तर्गतं कहबेरकृतं सोमनाथस्तोत्रं समाप्तम् । स्कन्दपुराण । प्रभासखण्ड । अध्याय २९०/२३-३५॥ skandapurANa . prabhAsakhaNDa . adhyAya 290/23-35.. Proofread by PSA Easwaran
% Text title            : Kuberakritam Somanatha Stotram
% File name             : kuberakRRitaMsomanAthastotram.itx
% itxtitle              : somanAthastotram (kuberakRitaM skandapurANAntargatam)
% engtitle              : kuberakRRitaM somanAthastotram
% Category              : shiva, skandapurANa, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : skandapurANa | prabhAsakhaNDa | adhyAya 290/23-35||
% Indexextra            : (Scans 1, 2, 3, 4, 5, 6, 7, 8, English)
% Latest update         : September 6, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org