कुबेरकृतं सोमनाथस्तोत्रम्
कुबेर इति धर्मात्मा श्रुतशीलसमन्वितः ।
लिङ्गं प्रतिष्ठयामास न्यङ्कुमत्याश्च पूर्वतः ॥ २१॥
कौबेरात्पश्चिमे भागे सोमनाथेति विश्रुतम् ।
सम्पूज्य च यथेशानं न्यङ्कुमत्यास्तटे शुभे ।
स्तोत्रेणानेन चास्तौषीद्भक्त्या तं सर्वकामदम् ॥ २२॥
मूर्तिः क्वापि महेश्वरस्य महती यज्ञस्य मूलोदया
तुम्बी तुङ्गफलावती च शतशो ब्रह्माण्डकोटिस्तथा ।
यन्मानं न पितामहो न च हरिर्ब्रह्माण्डमध्यस्थितो
जानात्यन्यसुरेषु का च गणना सा सन्ततं वोऽवतात् ॥ २३॥
नमाम्यहं देवमजं पुराणमुपेन्द्रमिन्द्रावरराजजुष्टम् ।
शशाङ्कसूर्याग्निसमाननेत्रं वृषेन्द्रचिह्नं प्रलयादिहेतुम् ॥ २४॥
सर्वेश्वरैकत्रिबलैकबन्धुं योगाधिगम्यं जगतोऽधिवासम् ।
तं विस्मयाधारमनन्तशक्तिं ज्ञानोद्भवं धैर्यगुणाधिकं च ॥ २५॥
पिनाकपाशाङ्कुशशूलहस्तं कपर्दिनं मेघसमानघोषम् ।
सकालकण्ठं स्फटिकावभासं नमामि शम्भुं भुवनैकनाथम् ॥ २६॥
कपालिनं मालिनमादिदेवं जटाधरं भीमभुजङ्गहारम् ।
प्रभासितारं च सहस्रमूर्तिं सहस्रशीर्षं पुरुषं विशिष्टम् ॥ २७॥
यदक्षरं निर्गुणमप्रमेयं सज्योतिरेकं प्रवदन्ति सन्तः ।
दूरङ्गमं वेद्यमनिन्द्यवन्द्यं सर्वेषु हृत्स्थं परमं पवित्रम् ॥ २८॥
तेजोनिभं बालमृगाङ्कमौलिं नमामि रुद्रं स्फुरदुग्रवक्त्रम् ।
कालेन्धनं कामदमस्तसङ्गं धर्मासनस्थं प्रकृतिद्वयस्थम् ॥ २९॥
अतीन्द्रियं विश्वभुजं जितारिं गुणत्रयातीतमजं निरीहम् ।
तमोमयं वेदमयं चिदंशं प्रजापतीशं पुरुहूतमिन्द्रम् ।
अनागतैकध्वनिरूपमाद्यं ध्यायन्ति यं योगविदो यतीन्द्राः ॥ १.२९०.३०॥
संसारपाशच्छिदुरं विमुक्तः पुनः पुनस्त्वां प्रणमामि देवम् ॥ ३१॥
निरूपमास्यं च बलप्रभावं न च स्वभावं परमस्य पुंसः ।
विज्ञायते विष्णुपितामहाद्यैस्तं वामदेवं प्रणमाम्यचिन्त्यम् ॥ ३२॥
शिवं समाराध्य तमुग्रमूर्त्तिं पपौ समुद्रं भगवानगस्त्यः ।
लेभे दिलीपोऽप्यखिलांश्च कामांस्तं विश्वयोनिं शरणं प्रपद्ये ॥ ३३॥
देवेन्द्रवन्द्योद्धर मामनाथं शम्भो कृपाकारुणिकः किल त्वम् ।
दुःखाऽर्णवे मग्नमुमेश दीनं समुद्धर त्वं भव शङ्करोऽसि ॥ ३४॥
सम्पूजयन्तो दिवि देवसङ्घा ब्रह्मेन्द्ररुद्रा विहरन्ति कामम् ।
तं स्तौमि नौमीह जपामि शर्वं वन्देऽभिवन्द्यं शरणं प्रपन्नः ॥ ३५॥
स्तुत्वैवमीशं विरराम यावत्तावत्स रुद्रोऽर्कसहस्रतेजाः ।
ददौ च तस्मै वरदोऽन्धकारिर्वरत्रयं वैश्रवणाय देवः ।
सख्यं च दिक्पालपदं चतुर्थं धनाधिपत्यं च दिवौकसां च ॥ ३६॥
इति श्रीस्कन्दपुराणे प्रभासखण्डे प्रभासक्षेत्रमाहात्म्ये
नवत्यधिकद्विशततमाध्यायान्तर्गतं कहबेरकृतं
सोमनाथस्तोत्रं समाप्तम् ।
स्कन्दपुराण । प्रभासखण्ड । अध्याय २९०/२३-३५॥
skandapurANa . prabhAsakhaNDa . adhyAya 290/23-35..
Proofread by PSA Easwaran