कुम्भाटककृतं शिवस्तोत्रम्
तुष्टाव परमेशानं धर्मं धर्मभृतां वरः ।
कुम्भाटक उवाच ।
नमो नमस्ते लोकानामादिकर्त्रे महात्मने ॥ ५५॥
धर्माकाराय साराय श्रुतीनामात्मने नमः ।
त्वां भजन्तस्तथा भक्त्या स्तुवन्ति त्वां सुरासुराः ॥ ५६॥
ध्यायन्ति योगिनः स्वान्ते त्वामेव च परात्परम् ।
त्वत्कृपालोककणिकालाभमात्रेण जन्तवः ॥ ५७॥
जगत्क्षोभयितुं कर्तुं त्रातुं पटुतरो भवान् ।
त्वन्मुखान्निर्गता वेदा मर्यादां व्यक्तयन्ति ते ॥ ५८॥
तेषु तेषु च वर्तन्ते त्वदाज्ञागौरवाय ते ।
येषां त्वं विमुखो देव ते वै सीदन्ति सर्वदा ॥ ५९॥
त्वदालम्बनयोगेन सिद्धयोऽष्टौ न संशयः ।
ऐहिकामुष्मिकौ मार्गौ त्वत्सृष्टौ लोकहेतवे ॥ ६०॥
नमः पूर्वाय पूर्वाणां पुरुषाय महात्मने ।
वृषाय वृषरूपाय वेदरूपाय ते नमः ॥ ६१॥
त्वच्छक्त्या धार्यते सर्वं त्वल्लीलाकलनात्मकम् ।
त्वं विष्णुस्त्वं शिवो ब्रह्मा त्वं मित्रो वरुणो यमः ॥ ६२॥
त्वं गुणैस्त्रिगुणाभिख्यां बिभर्षि कलया स्वया ।
प्रसीद देवदेवेश प्रसीद परमेश्वर ॥ ६३॥
नमो नमः कारणकारणाय ते कलाविशेषैः कलिताखिलात्मने ॥ ६४॥
प्रसीद विश्वेश्वर विश्वमूर्ते प्रसीद देवेश दयासुधानिधे ।
इति स्तुत्वा स कुम्भाटो भक्त्या परवशो मुहुः ।
प्रणामममकरोत्तस्मै दण्डवत् पुरतो विभोः ॥ ६६॥
इति ताम्रपर्णीमाहात्म्ये ४८-अध्यायान्तर्गतं
कुम्भाटककृतं शिवस्तोत्रं सम्पूर्णम् ।
ताम्रपर्णीमाहात्म्य । अध्याय ४८/५५-६६॥
tAmraparNImAhAtmya . adhyAya 48/55-66..
Proofread by PSA Easwaran