लक्ष्मीप्रोक्तं प्रदोषकाले शिवोपासनोपदेशम्

लक्ष्मीप्रोक्तं प्रदोषकाले शिवोपासनोपदेशम्

- लक्ष्मीविष्णुसंवादे - श्रीलक्ष्मीरुवाच - सायङ्काले महादेवः पूजनीयोऽखिलैरपि ॥ ३२७॥ कुरु भस्मोद्धूलनादि सर्वपापविनाशकम् । बिल्वपत्रादि सम्पाद्य यज देवोत्तमं शिवम् ॥ ३२८॥ प्रणामानि(?) कुरु प्रीत्या शरणं व्रज शङ्करम् । सर्वेष्वपि प्रदोषेषु पूजनीयः सदा शिवः ॥ ३२९॥ इदानीं सप्तमीयोगो विशेषेणाद्य वर्तते । यः सप्तमीप्रदोषेषु शङ्करं पूजयिष्यति ॥ ३३०॥ न तस्य नरकावासो दारिद्र्यं च न सर्वथा । प्रदोषकाले भगवान् महादेवः सुराधिपः ॥ ३३१॥ करोति ताण्डवं देवीमुपवेश्य शुभासने । ताण्डवाभिरतं देवं ग्रहनक्षत्रमौलिनम् ॥ ३३२॥ हृदि ध्यात्वा महादेवं पूजयस्व(?) सुरोत्तम । अभिषिच्य महादेवं लिङ्गरूपिणमव्ययम् ॥ ३३३॥ क्षीरेणाज्येन शुद्धैश्च जलैर्नीहारसन्निभैः । गृहीत्वा चन्दनं रम्यं शिवलिङ्गं समर्चय ॥ ३३४॥ एतैर्नवैर्बिल्वपत्रैरभ्यर्चय महेश्वरम् । धूपदीपादिकं दत्वा नैवेद्यं च समर्पय ॥ ३३५॥ प्रणामानि (?) कुरु प्रीत्या शैवं पञ्चाक्षरं जप । कुरु नृत्यं महादेवप्रीत्यर्थं करताडनैः ॥ ३३६॥ प्रीणयस्व महादेवं शरणं याहि शङ्करम् । शिवपूजार्थमालस्यं यः करिष्यति मूढधीः ॥ ३३७॥ स विहाय क्षीरमन्नं विषं पिबति सर्वथा । यदि त्यक्ष्यसि सायाह्ने महादेवस्य पूजनम् ॥ ३३८॥ तदा त्वया मयाप्यद्य दुःखं प्राप्यं न संशयः । पत्रैर्जलैर्वा मन्त्रैर्वा पूजितः परमेश्वरः ॥ ३३९॥ तुष्टो भवति गौरीशस्तमेवार्चय शङ्करम् । धुत्तूरकुसुमेनापि पूजितः शङ्करः स्वयम् ॥ ३४०॥ ददाति परमं स्थानं योगिनामपि दुर्लभम् । तस्मादुत्थाय यत्नेन पूजयस्व सदाशिवम् ॥ ३४१॥ सम्पूज्य सायं विश्वेशं निष्पापो भव सत्वरम् । सायङ्काले महादेवं यो नार्चयति शङ्करम् ॥ ३४२॥ स एव सर्वपापानामाश्रयो भवति ध्रुवम् । सायं त्यक्त्वा शङ्करस्य देवदेवस्य पूजनम् ॥ ३४३॥ यस्तिष्ठत्यापदम्भोधिमग्नोऽसौ नात्र संशयः । ऐश्वर्यं तु मया प्राप्तं शङ्करस्यैव पूजया ॥ ३४४॥ तादृशेन कथं त्याज्यं त्वया शङ्करपूजनम् । यस्मादैश्वर्यकामेन मोक्षकामेन चानध ॥ ३४५॥ कर्तव्यमनियत्नेन शङ्करस्यैव पूजनम् । महापातकयुक्तो वा युक्तो वा सर्वपातकैः ॥ ३४६॥ मुच्यते पातकैः सर्वैः प्रदोषे शिवपूजया । हितमेव मयोक्तं ते नाहितं वच्मि सर्वथा ॥ ३४७॥ ॥ इति शिवरहस्यान्तर्गते कालभैरवस्तुतिः सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः ११ । ३२७.२-३४७॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 11 . 327.2-347.. Notes: Lakṣmī लक्ष्मी advises Viṣṇu विष्णु about worshiping Śiva शिव during the evening-dusk especially Pradoṣakāla प्रदोषकाल. Proofread by Ruma Dewan
% Text title            : Lakshmiproktam Pradoshakale Shivopasanopadesham
% File name             : lakShmIproktaMpradoShakAleshivopAsanopadesham.itx
% itxtitle              : shivopAsanopadesham pradoShakAle (lakShmIproktaM shivarahasyAntargatam)
% engtitle              : lakShmIproktaM pradoShakAleshivopAsanopadesham
% Category              : shiva, lakShmI, upadesha, advice, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% SubDeity              : lakShmI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 11 | 327.2-347||
% Indexextra            : (Scan)
% Latest update         : March 8, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org