माघमासकृते शिवशताष्टनामस्तोत्रम् मास ११
(शिवरहस्यान्तर्गते महादेवाख्ये)
- शिवगौरीसंवादे -
नमस्कार्याय विश्वाय विष्णवे ब्रह्मरूपिणे ॥ २९॥
हिरण्यबाहवे साक्षाद्धिरण्यपतये नमः ।
शर्वाय शर्वरूपाय पुरुषाय नमो नमः ॥ ३०॥
रुद्राय नीलरुद्राय कद्रुद्राय प्रचेतसे ।
कालाय कालरूपाय तथा कालाङ्गहारिणे ॥ ३१॥
मीढुष्टमाय देवाय शिपिविष्टाय ते नमः ।
शम्भवे धातवे चैव मन्यवे रुद्रमूर्तये ॥ ३२॥
नमः कपर्दिने तुभ्यं नीलकण्ठाय ते नमः ।
श्रीकण्ठाय महेशाय बलाय च नमोनमः ॥ ३३॥
नमस्त्रिशूलहस्ताय उग्राय च नमो नमः ।
भीमाय च मृगेन्द्राय भीमरूपाय बन्धवे ॥ ३४॥
भस्मदिग्धशरीराय डिण्डिमुण्डीश्वराय च ।
नमो ह्रस्वाय दीर्घाय वामनायोरुमेधसे ॥ ३५॥
अग्रेवधाय देवाय नमो दूरेवधाय च ।
धन्विने शूलिने तुभ्यं गदिने हलिने नमः ॥ ३६॥
चक्रिणे चर्मिणे तुभ्यं दैत्यदानवभेदिने ।
सद्याय हृद्यरूपाय पर्णशद्याय ते नमः ॥ ३७॥
सद्योजाताय वामाय अघोराय नमो नमः ।
पुरुषाय परेशाय पुरुषार्थप्रदाय च ॥ ३८॥
गह्वरेष्ठाय शिष्टाय विशिष्टाय नमो नमः ।
परमेष्ठि विरूपाय विश्वरूपाय ते नमः ॥ ३९॥
महाग्रासाय धाराय त्रिशुक्लाय सुवैद्युते ।
ईशानाय नमस्तुभ्यमीश्वराय सुराय च ॥ ४०॥
ब्रह्मण्याय नमस्तेऽस्तु ब्रह्मण्येशाय ते नमः ।
ब्रह्मणे ब्रह्मरूपाय ब्रह्मण्यार्च्यपदाय च ॥ ४१॥
विश्वाधिकाय सूक्ष्माय पद्ममालाधराय च ।
श्वेताय हरिकेशाय नीलग्रीवाय हेतवे ॥ ४२॥
निषङ्गवरपृष्ठाय शरहेतिधराय च ।
महादंष्ट्राकरालाय श्मश्रवे जटिलाय च ॥ ४३॥
तानाय लयमध्याय महाडमरुवादिने ।
गरुडध्वजपूज्याय इज्याध्यक्षाय भाविने ॥ ४४॥
विष्णुरक्तप्रपानाय तस्मिन्मासि महेश्वरि ।
स्तुत्वानेन स्तवेनेशि रुद्रसारूप्यमाप्नुयात् ॥ ४५॥
॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्तं माघमासकृते शिवशताष्टनामस्तोत्रं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः २४ माघमासार्चनम् । २९.२-४५॥
- .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 24 mAghamAsArchanam . 29.2-45..
Notes:
Śiva शिव delivers to Devī देवी; Māghamāsakṛte ŚivaŚatāṣṭanāmaStotram माघमासकृते शिवशताष्टनामस्तोत्रम् comprising of 108 Names १०८ नामानि of Śiva शिव while detailing about His Worship during the Māgha māsa माघ मास.
The count from the source text comes to less than 108 though, and two of the names are repeated. Perhaps there are/were meant to be more Śloka-s.
The corresponding Māghamāsakṛte ŚivaŚatāṣṭaNāmāvaliḥ माघमासकृते शिवशताष्टनामावलिः derived from the Māghamāsakṛte ŚivaŚatāṣṭanāmaStotram माघमासकृते शिवशताष्टनामस्तोत्रम्, and a Māghamāsakṛte ŚivaStutiḥ माघमासकृते शिवस्तुतिः can be accessed from one of the links provided below.
More details about worshiping Śiva शिव during individual Māsa मास are given in Chapters 13-25.
Selected Śloka-s श्लोकाः from Chapter 24 are presented on this page.
Proofread by Ruma Dewan