माघमासकृते शिवस्तुतिः मास ११
(शिवरहस्यान्तर्गते महादेवाख्ये)
- शिवगौरीसंवादे -
वेदार्वाय महेश्वराय विधये शर्वाय सर्वेश्वरा-
याधाराय गदाभृते वसुधृते व्योमाय सोमाय ते ।
सोमायाध्वरसम्भृते वरकृपापूर्णाय पूर्ण प्रभो-
ऽपर्णाहृत्कमलान्तराय महसे देवाय तुभ्यं नमः ॥ ४६॥
विश्वाय प्रभवे भवाय भवते भावैकभाव्याय ते
भामार्धाकृतये भवाब्धिबडवाज्वलाय कालाय ते ।
मूलाय प्रथिताय सोमशकलालङ्कारमस्ताय ते-
विश्वस्ताश्वसनाय घोरभवहृत्कान्ताय शान्ताय ते
वेदान्तप्रथिताय तेऽद्य महसे घोरान्तकान्ताय ते ॥ ४७॥
रमारमणसायकारुणपतिग्रसन्नीक्षण(प्रसन्नेक्षण)
क्षपापतिकलाधरक्षपितपापतापाय ते ।
विशिष्टजनरक्षणेक्षणविशिष्टतुष्टाय ते
सुकष्टमिदमद्य मे भवजदुष्टकष्टं हर ॥ ४८॥
भवानभवदोऽरिहा हर शरण्यगण्यो महान्
विगुण्यमपि मां विभो तव शरण्य पादे रतम् ।
सदा करुणयाऽनया शमनजातभीतिं हरन्
हराव विभवाधिकं कुरु महेश मामर्भकम् ॥ ४९॥
- -
इत्थं स्तुत्वाऽथ मां माघे पौर्णम्यां होममाचरेत् ।
पूर्वोक्तक्रमयोगेन शाम्भवैः सह सादरम् ॥ ५०॥
दद्याद्गोमिथुनं देवि कपिलं च सवत्सकम् ।
पौर्णम्यां च प्रकुर्वीत महेशघृतकम्बलम् ॥ ५१॥
लिङ्गं त्रिवेदिपर्यन्तं गव्येन सुघृतेन च ।
संस्नाप्य मां विधिः प्रोक्तो महेश घृतकम्बले ॥ ५२॥
विधिना तेन कुर्वीत महेशि घृतकम्बलम् ।
सर्वपापविनिर्मुक्तः शिवसायुज्यमाप्नुयात् ॥ ५३॥
शिवरात्रिव्रतं वक्ष्ये शिवप्रीतिकरं परम् ।
अहोरात्रं माघमासि घृतधारां प्रकल्पयेत् ॥ ५४॥
धारारूपाणि पापानि विनष्टानि न संशयः ।
दर्शनं स्पर्शनं लिङ्गे घृतस्नानं विशेषतः ॥ ५५॥
एवमेकगुणं ज्ञेयं गृहे क्षेत्रेष्वथाधिकम् ।
सर्वाघौघहरो मासो मासोऽयं पुण्यवर्धनः ॥ ५६॥
स्नानदानार्चनविधौ विशिष्टो भवतुष्टिदः ।
प्रयागे तु विशेषेण मकरस्थे दिवाकरे ॥ ५७॥
गङ्गायमुनयोर्मध्ये श्रीशैलाचल विन्ध्ययोः ।
स्नानदानार्चनं देवि श्राद्धेनानन्त्यमश्नुते ॥ ५८॥
॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्तं माघमासकृते शिवस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः २४ माघमासार्चनम् । ४६-५८॥
- .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 24 mAghamAsArchanam . 46-58..
Notes:
Śiva शिव advises to Devī देवी; the ŚivaStutiḥ शिवस्तुतिः for the māsa मास while detailing about His Worship during the Māgha māsa माघ मास. He mentions about conducting Homam होमम् and offering of Ghṛtakambalam घृतकम्बलम् during Māgha Pūrṇimā माघ पूर्णिमा; and, offering Ghṛtadhārā घृतधारा during the Māghamāsa माघमास.
The Māghamāsakṛte ŚivaŚatāṣṭanāmaStotram माघमासकृते शिवशताष्टनामस्तोत्रम् and the Māghamāsakṛte ŚivaŚatāṣṭaNāmāvaliḥ माघमासकृते शिवशताष्टनामावलिः comprising of 108 Names १०८ नामानि of Śiva शिव, derived from the same can be accessed from one of the links provided below. The count from the source text comes to less than 108 though, and two of the names are repeated. Perhaps there are/were meant to be more Śloka-s.
More details about worshiping Śiva शिव during individual Māsa मास are given in Chapters 13-25.
Selected Śloka-s श्लोकाः from Chapter 24 are presented on this page.
Proofread by Ruma Dewan