मासशिवरात्रिकृते शिवशिवास्तुतिः
(शिवरहस्यान्तर्गते महादेवाख्ये)
- शिवपार्वतीसंवादे -
नमः शिवायाथ नमः शिवायै
नमोऽस्तु गौर्यै शशिशेखराय ।
नमोस्तु देव्यै च नमोऽस्तु शम्भवे
नममोऽस्तु देवाय नमोस्तु देव्यै ॥ ३१॥
नमः शिवाय प्रणतार्तिहारिणे
नमो जगज्जन्मगतिप्रदायै ।
नमोऽस्तु वेद्याय महेश्वराय
नमोऽस्तुगन्धर्वगणस्तुतायै ॥ ३२॥
नमः शिवायाथ विहारकारिणे
नमो जनित्र्यै भवमङ्गलायै ।
नमोऽस्तुविष्ण्वादिपदप्रदाय
नमोऽस्तु पाकारिमुखस्तुतायै ॥ ३३॥
नमः शिवायान्तकगर्वहारिणे
नमोऽस्तु भण्डासुरखण्डनायै ।
नमोऽस्तु वेदान्तवचः स्तुताय
नमोऽस्तु सत्केसरिवाहनायै ॥ ३४॥
नमः शिवाय प्रमथाधिपाय
नमोऽस्तुरुद्राणि वरप्रदायै ।
नमोऽस्तु देवादिगणस्तुताय
नमोऽस्तु भद्रप्रदमङ्गलायै ॥ ३५॥
॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्तं मासशिवरात्रिपूजोपदेशं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः ३३ मासशिवरात्रि सोद्यापनव्रतकथनम् । ३१-३५॥
- .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 33 mAsashivarAtri sodyApanavratakathanam . 31-35..
Notes:
Śiva शिव advises a The MāsaŚivarātrikṛte ŚivaŚivāStutiḥ मासशिवरात्रिकृते शिवशिवास्तुतिः as He delivers Upadeśa उपदेश to Pārvatī पार्वती about observing MāsaŚivarātri मासशिवरात्रि during Kṛṣṇa Caturdaśī कृष्ण चतुर्दशी of every month and the merits of doing so. He also advises about the Fourteen Names of Śiva शिवचतुर्दशनामानि to be recited during MāsaŚivarātri मासशिवरात्रि.
Selected Śloka-s from the Chapter are presented on this page.
The Īśvaraproktaṁ MāsaŚivarātriPūjopadeśam ईश्वरप्रोक्तं मासशिवरात्रिपूजोपदेशम् and the MāsaŚivarātrikṛte ŚivaCatrudaśaNāmāvaliḥ मासशिवरात्रिकृते शिवचतुर्दशनामावलिः can be accessed from one of the links given below.
Proofread by Ruma Dewan