ईश्वरप्रोक्तं मासशिवरात्रिपूजोपदेशम्
(शिवरहस्यान्तर्गते महादेवाख्ये)
- शिवपार्वतीसंवादे -
शिव उवाच ।
मासि मास्यपि देवेशि कुर्याच्चैव चतुर्दशीम् ।
सा मासशिवरात्रीति कथिता कृष्णपक्षगा ॥ १॥
चैत्रादिकृष्णपक्षेषु तत्तन्मासि चतुर्दशीम् ।
प्राप्य सम्पूजयेद्देवं लिङ्गमूर्तिं सदाशिवम् ॥ २॥
रात्रौ चतुर्षु यामेषु पूजयेद्बिल्व पत्रकैः ।
एक भुक्तेन नक्तेन सोपवासेन वा शिवे ॥ ३॥
तत्र कृष्णचतुर्दश्यां सायं शौचं निवर्त्य च ।
नद्यां वा देवखाते वा स्नायान्मन्त्रैः कुशैर्युतः ॥ ४॥
धृतवासा भस्मयुतस्त्रिपुण्ड्राक्षधरो भवेत् ।
संशोध्य कलशं शुद्धं स्वयमम्बु प्रसाधयेत् ॥ ५॥
वस्त्रपूतं तदा देवि सुपुष्पाणि तदा व्रती ।
गृहीत्वा नियमोपेतो गृहे वापि शिवालये ॥ ६॥
संशोध्य गोमयाम्भोभिः स्थण्डिलं शिवपूजने ।
वितानपुष्पमालाढ्यं मण्टपं परिकल्पयेत् ॥ ७॥
पीठं तत्र निधायैव प्राङ्मुखोदङ्मुखोऽपि वा ।
चेलाजिनकुशः स्थित्वा सम्पाद्यार्ध्याचमं शिवे ॥ ८॥
प्रक्षाल्य धातुपात्राणि नवानि कलशं तथा ।
शङ्खं च दीपधूपौ च स पुष्पाम्बूनि साधयेत् ॥ ९॥
पञ्चामृतं पञ्चगव्यं तथा फलरसं शिवे ।
गन्धपुष्पाक्षतांस्तत्र संस्थाप्याथ निवेदनम् ॥ १०॥
ताम्बूलं चैव वासोऽथ रत्नालङ्करणानि च ।
सङ्कल्प्य नियमोपेतो मासिकीं शिवरात्रिकाम् ॥ ११॥
ततोऽथ प्रथमे यामे सम्पूज्यैव महेश्वरम् ।
पञ्चाक्षरशतं जप्त्वा साङ्गन्यासं महेश्वरि ॥ १२॥
कलशं पूज्य शङ्खं च गन्धपुष्पाक्षतादिभिः ।
अङ्गेषु भावयेद्देवांस्ततः प्रजननेति च ॥ १३॥
लिङ्गसंस्थं महादेवमेवं ध्यायेत्त्वया सह ।
साम्बं त्रिणेत्रं चन्द्राङ्कं नीलकण्ठं पिनाकिनम् ॥ १४॥
वरदाभयहस्तं च मृगटङ्कधरं शिवम् ।
नागयज्ञोपवीताढ्यं दिव्यालङ्कारभूषितम् ॥ १५॥
सोमधामसमानास्यां नीलेन्दीवरलोचनाम् ।
फुल्लकल्हारसङ्काशां सर्वाभरणभूषिताम् ॥ १६॥
मदङ्कसंस्थां त्वां ध्यायेत्साधकः परमेश्वरि ।
तत्रानन्यमना देवि पञ्चाक्षरपुरःसरम् ॥ १७॥
समावाह्य ततो लिङ्गे वामनासापुटेन हि ।
पाद्यार्घ्याचमनादीनि मूलमन्त्रेण दापयेत् ॥ १८॥
पञ्चगव्यैर्विशोध्येशं ततः पञ्चामृतैरपि ।
पुनः फलरसैर्देवि गन्धपुष्पकुशोदकम् ॥ १९॥
दद्यादनुक्रमेणैव रुद्रेणैवाभिषेचयेत् ।
तदन्ते तर्पणं कुर्याद्भवाद्यैरष्टनामभिः ॥ २०॥
वाससा परिमृज्येशं पीठे संस्थाप्य पूजयेत् ।
भस्मना चन्दनेनापि अक्षताभिर्महेश्वरम् ॥ २१॥
बिल्वपत्रैः शिवे पुष्पैर्वासोऽलङ्कारभूषणैः ।
निधनेत्यादिभिर्मन्त्रैबिल्वैः पुष्पैः प्रपूजयेत् ॥ २२॥
शताष्टनामभिर्वापि पूजयेदिन्दुशेखरम् ।
चतुर्दश्यां तथा देवि नामभिश्च चतुर्दशम् ॥ २३॥
पूजयेद्द्द्बिल्वपत्राद्यैर्नमोऽन्तैरेवमीश्वरि ।
चतुर्दश्यां मृगधरमपामार्गैः प्रपूजयेत् ॥ २४॥
अजैकपादहिर्बुध्न्यो भवः शर्व उमापतिः ।
रुद्रः पशुपतिः शम्भुर्महेशः शिव ईश्वरः ॥ २५॥
महादेवो हरो भीमो नामान्येवं चतुर्दश ।
एभिर्नामभिरीशानं चतुर्दश्यां सुमैर्यजेत् ॥ २६॥
सापूपाज्यं हविर्देवि निवेद्य प्रणवेन हि ।
ताम्बूलं दीपधूपं च नीराजनमथाचरेत् ॥ २७॥
कर्पूरखण्डदीपं च घृतदीपौ हि दापयेत् ।
स्तोत्रैः स्तुवीतैवमीशं प्रदक्षिणनमस्कृतैः ॥ २८॥
छत्रं च चामरं चैव ध्वजं व्यजनमेव च ।
दद्याच्छिवाय देवेशि वाद्यानि विविधानि च ॥ २९॥
नर्तनं करतालं च ऋक्सामाथर्वयाजुषैः ।
पुराणैरितिहासोत्थैः स्तोत्रवर्यैः स्तुवीत च ॥ ३०॥
नमः शिवायाथ नमः शिवायै
नमोऽस्तु गौर्यै शशिशेखराय ।
नमोस्तु देव्यै च नमोऽस्तु शम्भवे
नममोऽस्तु देवाय नमोस्तु देव्यै ॥ ३१॥
नमः शिवाय प्रणतार्तिहारिणे
नमो जगज्जन्मगतिप्रदायै ।
नमोऽस्तु वेद्याय महेश्वराय
नमोऽस्तुगन्धर्वगणस्तुतायै ॥ ३२॥
नमः शिवायाथ विहारकारिणे
नमो जनित्र्यै भवमङ्गलायै ।
नमोऽस्तुविष्ण्वादिपदप्रदाय
नमोऽस्तु पाकारिमुखस्तुतायै ॥ ३३॥
नमः शिवायान्तकगर्वहारिणे
नमोऽस्तु भण्डासुरखण्डनायै ।
नमोऽस्तु वेदान्तवचः स्तुताय
नमोऽस्तु सत्केसरिवाहनायै ॥ ३४॥
नमः शिवाय प्रमथाधिपाय
नमोऽस्तुरुद्राणि वरप्रदायै ।
नमोऽस्तु देवादिगणस्तुताय
नमोऽस्तु भद्रप्रदमङ्गलायै ॥ ३५॥
एवं स्तुत्वा शिवौ देवि चतुर्दश्यां सदाशिवम् ।
प्रहरे प्रहरे चापि एवमेव यथाविधि ॥ ३६॥
दद्यादर्घ्यं क्रमेणैव पूजान्ते च महेश्वरि ।
आधिव्याधिसमायुक्तः ऋणदौर्भाग्यपीडितः ॥ ३७॥
दद्यादर्घ्यं महेशाय सुप्रीतस्तेन मे भवेत् ।
एवमेवार्घ्यदानं च रात्रौ यामचतुष्टये ॥ ३८॥
मासि मासि महेशानि कृष्णपक्षे विशेषतः ।
चैत्रादिसर्वमासेषु मासि मास्यसितासु च ॥ ३९॥
एकं वा प्रहरं पूजां यदि कुर्याच्च नक्तभुक् ।
एवं नरो वा नारी वा विधवोपवनसेन्निशि ॥ ४०॥
सुकृतैर्लभ्यते भूता तस्यामर्चनमेव मे ।
पुण्यलक्षैश्च लभ्येत जपनामप्रसादतः ॥ ४१॥
ब्रह्मा स्वयं चतुर्वक्त्रः पञ्चवक्त्रः स्वयं हरिः ।
असितार्चाफलं शम्भोर्वक्तुं शक्तो न पार्वति ॥ ४२॥
ब्रह्माण्डोदरमध्यानि यानि तीर्थानि सन्ति वै ।
संस्थितानि भवन्तीह भूतायां पारणे कृते ॥ ४३॥
परेद्युः पूज्य मां देवि यथा शक्त्या द्विजार्चनम् ।
एवं त्र्यब्दं द्वादशाब्दं व्रतं कुर्याद्विधानतः ॥ ४४॥
संवत्सरं वा देवेशि आजन्म मद्गणो भवेत् ।
उद्यापनविधिं वक्ष्ये भूतायां मासि मासि ते ॥ ४५॥
देव्युवाच ।
व्रतस्योद्यापने देव किं कर्तव्यं च मानवैः ।
को विधिः कानि द्रव्याणि कथं कार्यं वद प्रभो ॥ ४६॥
ईश्वर उवाच ।
शृणु काम्यविधिं भद्रे लोकानां हितकाम्यया ।
चतुर्दशाब्दं कर्तव्यं मासभूताव्रतं शिवे ॥ ४७॥
एकभुक्तस्त्रयोदश्यां चतुर्दश्यामुपोषणम् ।
सम्पाद्य सर्वसम्भारान्मण्टपं तत्र कारयेत् ॥ ४८॥
वस्त्रैः पुष्पैः समायुक्तं फलपल्लवशोभितम् ।
तन्मध्ये विलिखेत्पद्मं सर्वतोभद्रमण्डलम् ॥ ४९॥
धूपदीपसमायुक्तं कुम्भाष्टक विराजितम् ।
आचार्यं वरयेत्तत्र ऋत्विग्भिः सहितं शिवे ॥ ५०॥
शिवरूपाश्च ते विप्राः पूज्याश्चन्दनपुष्पकैः ।
अनुज्ञातश्च तैर्विप्रैः शिवमावाह्य कुम्भके ॥ ५१॥
अव्रणं सजलं कुम्भं मृन्मयं हेमताम्रजम् ।
कुम्भोपरि न्यसेद्देवमुमया सहितं शिवम् ॥ ५२॥
सौवर्णं वापि रौप्यं वा ताम्रं मृन्मयमेव वा ।
रत्नालङ्करणैर्युक्तं वस्त्रैः पुष्पैः प्रपूजयेत् ॥ ५३॥
प्रतिष्ठाप्यार्चयेन्मूर्तिं सोमं दिक्पालकानपि ।
परितोऽष्टसु कुम्भेषु पूजयेन्मूलमन्त्रतः ॥ ५४॥
पूर्वोद्युर्गन्धपुष्पैश्च सोपवासं प्रपूजयेत् ।
धूपदीपैश्च नैवेद्यैः फलैर्नानाविधैरपि ॥ ५५॥
प्रातः स्नात्वा परेद्युर्मां पूजयेत्कृतनैत्यकः ।
ऋत्विगाचार्यसहितो मूर्ति दिक्पालसंयुताम् ॥ ५६॥
पूजयेद्गन्धपुष्पाद्यैर्धूपं दीपं निवेदयेत् ।
नैवेद्यं भक्ष्यभोज्यं च अपूपांश्च चतुर्दश ॥ ५७॥
प्रत्येकं सुघृताक्ताश्च सङ्ख्यया च चतुर्दश ।
स्वाशाखोक्तेन मार्गेण प्रतिष्ठाप्य हुताशनम् ॥ ५८॥
परिस्तीर्य विलाप्याज्यं हविः संस्कृत्य हावयेत् ।
आचार्य ऋत्विक्सहितः सपत्नीकः स्वयं शुचिः ॥ ५९॥
रुद्रेणैव नमोऽन्तेन जुहुयाज्जातवेदसि ।
ततः स्विष्टकृतं हुत्वा होमशेषं समापयेत् ॥ ६०॥
आचार्यं ऋत्विजश्चैव पूजयेद्दक्षिणादिभिः ।
गां सवत्सां सवसनामाचार्याय निवेदयेत् ॥ ६१॥
ततः सकुम्भां तां मूर्तिमाचार्याय निवेदयेत् ।
प्रीयेतां मे शिवौ नित्यं स्यातां मुक्तिप्रदौ मम ॥ ६२॥
दिक्पालमूर्तिं कुम्भांश्च ऋत्विग्भ्यो दापयेत्क्रमात् ।
नत्वा तान् ब्रह्मणान् देवि गन्धपुष्पैः प्रपूजयेत् ॥ ६३॥
वित्तशाठ्यमकुर्वाणो दक्षिणाभिः प्रसादेत् ।
पुनः सम्पूज्य मां लिङ्गे प्रार्थयेद्व्रतसिद्धये ॥ ६४॥
व्रतमेतत्कृतं यन्मे पूर्णं वाऽपूर्णमेव वा ।
रोगपीडान्वितेनेश दिवा भुक्तं तु यन्मया ॥ ६५॥
मासि मासि चतुर्दश्यां कदाचित्पुण्ययोगतः ।
सर्वं सम्पूर्णतां यातु त्वत्प्रसादान्महेश्वर ॥ ६६॥
ब्राह्मणान्भोजयेत्तत्र परेद्युश्च चतुर्दश ।
सपत्नीकान्भक्ष्यभोज्यैर्गन्धपुष्पाक्षतादिभिः ॥ ६७॥
दक्षिणाभिः प्रतोष्यैव स्वयं भुञ्जीत बन्धुभिः ।
एवं नरो वा नारी वा विधवापि चतुर्दशीम् ॥ ६८॥
प्राप्य मत्पूजनाद्यच्च लभते तच्छृणु प्रिये ।
अपुत्रो लभते पुत्रं कुमारी सत्पतिं लभेत् ॥ ६९॥
निर्धनो धनवान्भूयादायुर्हीनस्तथायुषा ।
भक्तो मुक्तिमवाप्नोति विधवा पतिलोकगा ॥ ७०॥
भक्तो मद्गणपो भूयान्मसि भूतार्चनेन मे ।
किम्पुनर्बहुनोक्तेन सर्वान् कामानवाप्नुयात् ॥ ७१॥
ईश्वर उवाच ।
एवं मासचतुर्दशीषु नियतः सम्पूजयन्मां हरं
शर्वाणीसहितं स शर्म लभते सर्वेषु लोकेष्वपि ।
पूर्वोद्यच्छशिसुन्दरं नगवरं कैलासमप्यादरा-
त्पश्चान्मे गणपेन्द्रतामुपगतोऽज्ञानाद्विमुक्तो भवेत् ॥ ७२॥
॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्तं मासशिवरात्रिपूजोपदेशं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः ३३ मासशिवरात्रि सोद्यापनव्रतकथनम् । वावृत्तश्लोकाः ॥
- .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 33 mAsashivarAtri sodyApanavratakathanam . vAvRRittashlokAH ..
Notes:
Śiva शिव delivers Upadeśa उपदेश to Pārvatī पार्वती about observing MāsaŚivarātri मासशिवरात्रि during Kṛṣṇa Caturdaśī कृष्ण चतुर्दशी of every month and the merits of doing so.
He advises about the Fourteen Names of Śiva शिवचतुर्दशनामानि to be recited during MāsaŚivarātri मासशिवरात्रि; viz. Ajaikapāda अजैकपाद, Ahirbudhnya अहिर्बुध्न्य, Bhava भव, Śarva शर्व, Umāpati उमापति, Rudra रुद्र, Paśupati पशुपति, Śambhu शम्भु, Maheśa महेश, Śiva शिव, Īśvara ईश्वर, Mahādeva महादेव, Hara हर and Bhīma भीम.
Selected Śloka-s from the Chapter are presented on this page.
The MāsaŚivarātrikṛte ŚivaCatrudaśaNāmāvaliḥ मासशिवरात्रिकृते शिवचतुर्दशनामावलिः and the MāsaŚivarātrikṛte ŚivaŚivāStutiḥ मासशिवरात्रिकृते शिवशिवास्तुतिः can be accessed from one of the links given below.
Proofread by Ruma Dewan