ऋषि अगस्त्यप्रोक्तं मृल्लिङ्गमहिमोपदेशम् २

ऋषि अगस्त्यप्रोक्तं मृल्लिङ्गमहिमोपदेशम् २

(शिवरहस्यान्तर्गते उग्राख्ये) अगस्त्यः (उवाच) अतो मृन्मयलिङ्गस्य पूजनं सर्वकामदम् । तुष्टो भवति गौरीशो यतो मृल्लिङ्गपूजया ॥ ६५६॥ सम्पूज्य मृन्मयं लिङ्गं यो नित्यमनुमोदने(ते) । तद्द्वारि मत्तमातङ्गास्तिष्ठन्त्येवामिता मुने ॥ ६५७॥ मुने पार्थिवलिङ्गस्य पूजनं शङ्करप्रियम् । धर्मार्थकाम मोक्षाणामचिरेणैव दायकम् ॥ ६५८॥ भस्मगोमयवार्क्षादि लिङ्गान्यपि सनातन । पूजनीयानि यत्नेन धनधान्याभिवाञ्छिभिः ॥ ६५९॥ मुने भस्मादि लिङ्गानि मोक्षदार्न्याप वस्तुतः । भवन्ति भक्ततुष्ट्यर्थं धनधान्यान्नदान्यपि ॥ ६६०॥ एकैकमपि तल्लिङ्गं धनधान्यप्रदं मुने । मोक्षदं च तथाप्युक्तफलं भवति तत्क्षणं(क्षणात्) ॥ ६६१॥ मुने शिवार्चनं यस्माच्चतुर्वर्गफलार्थिभिः । शिवोददाति विष्णुत्वं सन्तुष्टो लिङ्गपूजया ॥ ६६२॥ तथा ब्रह्मत्वमिन्द्रत्वं ददात्येव महेश्वरः । विना तपोभिर्दानैश्च केवलं शिवपूजया ॥ ६६३॥ मुने भवन्त्यभीष्टानि श्री महेशप्रसादतः । यत्पादपद्ममभ्यर्च्य स्वनेत्राब्जेन केशवः ॥ ६६४॥ चक्रं च प्राप गौरीशात्पूजनीयो मुमुक्षुभिः । स्तुवन्ति यं सदादेवा वेदाश्चापिस्तवोन्मुखाः ॥ ६६५॥ स देवदेवो गौरीशः पूजनीयः प्रयत्नतः । यमाहुर्विष्णुजनकं यमाहुर्जनकं विधेः ॥ ६६६॥ यमाहुर्गिरिजानाथं यमाहुर्मन्दनान्तकम् । स देवदेवो गौरीशः पूजनीयः प्रयत्नतः ॥ ६६७॥ यमाहुः स्कन्दजनकं यमाहुः सर्वगं प्रभुम् । स देवदेवो गौरीशः पूजनीयः प्रयत्नतः ॥ ६६८॥ मुने विश्वाधिकं रुद्रं यमाहुः श्रुतयोऽखिलाः । स देवदेवो गौरीशः पूजनीयः प्रयत्नतः ॥ ६६९॥ मुने विश्वाधिकं रुद्रमभ्यर्च्यं सर्वकामदम् । परित्यज्यार्चयन्त्यन्यानमरान्पामरा नराः ॥ ६७०॥ को नु विश्वाधिकाद्रुद्रादन्यं पूजयति भ्रमात् । ऋते महापातकिनं पापिष्ठं नरकाश्रयम् ॥ ६७१॥ सर्वदेवोत्तमं साम्बं यो नार्चयति सन्ततम् । दुरात्मा स तु पापिष्ठः स सुरापः स पुल्कसः ॥ ६७२॥ शिवार्चनपरो मर्त्यो न बिभेति यमादपि । किं पुनर्जन्म मरणजरारोगादिभिः (तो) मुने ॥ ६७३॥ यतश्चरमदेहानां शिवे भक्तिः प्रजायते । ततो जन्मजरादिभ्यो न बिभेति शिवार्चकः ॥ ६७४॥ महद्भाग्यं शाम्भवानां शम्भु संसक्तचेतसाम् । यतः पुनर्नजन्मादिभयं तेषां महात्मनाम् ॥ ६७५॥ यस्य शैवो भवामीति बुद्धिर्भवति भाग्यतः । स धन्यः कृतकृत्यश्च मान्यः सर्वामरैरपि ॥ ६७६॥ धन्यानां शिवभक्तानां मतिर्निर्मलदेहिनाम् । यद्भाग्यं तादृशैर्भोग्यममरैरप्यपेक्षितम् ॥ ६७७॥ ॥ इति शिवरहस्यान्तर्गते वसिष्ठमुनिप्रति ऋषि अगस्त्यप्रोक्तं मृल्लिङ्गमहिमोपदेशं २ सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २७ मध्यार्जुनमहिमानुवर्णनम् । ६५६-६७७॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 27 madhyArjunamahimAnuvarNanam . 656-677.. Notes: Ṛṣi Agastya ऋषि अगस्त्य delivers Upadeśa उपदेश (to Vasiṣṭha Muni वसिष्ठ मुनि) about the merits of worshiping Śiva शिव, especially through the form of Mṛnmayaliṅga/Mṛlliṅga मृन्मयलिङ्ग/मृल्लिङ्ग. Proofread by Ruma Dewan
% Text title            : Rishi Agastyaproktam Mrillingamahimopadesham 2
% File name             : mRRillingamahimopadesham2.itx
% itxtitle              : mRilliNgamahimopadesham 2 agastyaproktam (shivarahasyAntargatam ato mRinmayaliNgasya pUjanaM sarvakAmadam)
% engtitle              : mRRillingamahimopadesham 2 agastyaproktam
% Category              : shiva, shivarahasya, upadesha, advice
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 27 madhyArjunamahimAnuvarNanam | 656-677||
% Indexextra            : (Scan)
% Latest update         : June 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org