मृत्युञ्जयाष्टकम् २

मृत्युञ्जयाष्टकम् २

भक्तैकान्तवशंवदेन भवतें सङ्कुप्यता वेत्सि य- न्मार्कण्डेयमुपद्रवन्पुरभिदा निर्भेत्स्यसे वक्षसि । स स्वामी मम शङ्करः शमन ते दर्पं विनेता पुनः यन्मामन्तिमदुर्दशागतमिव प्रत्येषि पर्येषि च ॥ १॥ अश्रान्तं प्रभवाप्ययक्रकचयोरश्रान्तरापीडितं भद्रं भावि जनुर्भविष्यति पुनश्शर्मेति चिन्तायतम् । पर्यावृत्तमिदं जगत्परिमृशन् संसारचक्रे भृशं सन्त्रस्तश्शरणागतोऽस्म्यशरणो मृत्युञ्जय त्वामहम् ॥ २॥ यावत्सैरिभवाहनं सरभसाऽधिक्षेपरूक्षाननं बद्धभ्रूकुटिदुर्निरीक्षविकटध्वस्ताक्षमीक्षे त्रसन् । तावत्त्वामकलङ्कचन्द्रसुभगस्मेराननाम्भोरुहं पश्येयं वृषभाधिरूढमुमया सानन्दमग्रेसरम् ॥ ३॥ कायेषु व्यथमानमर्मसु कफे कण्ठोपरोधोद्यते सीदद्वृत्तिषु चेन्द्रियेषु मनसि व्यामोहमासेदुषि । पर्यस्ते भिषगुत्तमैः परिजने बाष्पाकुलाक्षे परं पश्येयं परमेश ते पदयुगं नाहं परेताधिपम् ॥ ४॥ भैषज्याद्भिषजि स्थिते परिजने पर्याकुलाक्षे भृशं त्रुट्यन्मर्मणि वर्ष्मणि प्रतिभये काले समासीदति । उत्क्रान्तिश्रममुद्बणं प्रशमयन्नुत्तुङ्गसत्पुङ्गवो- पारूढो जगदम्बिकासहचरः स्यान्मे पुरस्तान्मृडः ॥ ५॥ संसीदत्यसुपिञ्जरे भयभरक्लान्तान्तरे जीविते प्रत्यासीदति कालकिङ्करगणे चित्ते मुहुर्मुह्यति । अब्रह्मण्यरवश्रवा सह दयासारैस्समाश्वासयन् मा भैषीरिति मामुपैतु भगवानारादुमाकामुकः ॥ ६। क्रोधावर्तितलोचने कुटिलितभ्रूभङ्गरौ द्रानने सोल्लुण्ठस्फुरिताधरे सरभसं काले समासीदति । सन्त्रासव्यथितान्तरस्य मम सन्त्राणाय सन्नह्यते शम्भो ते त्रिपुरान्तकान्तक हरेत्युज्जृम्भतां काहली ॥ ७॥ अन्वञ्चद्द्रुहिणादिकार्यनियमव्यासङ्गभाजि त्वयि प्रत्यासन्नकृतान्त किङ्करभयक्लान्ते नितान्तं मयि । श्रीमृत्युञ्जय शङ्करान्तकरिपो देवेत्युदारध्वनिः शम्भो ते जयकाहली यमभटत्रासाय सञ्जायताम् ॥ ८॥ मत्क्षेमाय तवौपवाह्यवृषभग्रैवेयघण्टाध्वना- वारादञ्चति वञ्चितान्तकभयः प्रेक्षेय साक्षादहम् । वित्रासद्रुतसैरिभं विनिपतद्विभ्रान्तसैन्याकुलं विस्रस्ताखिलशस्त्रमन्तकचमूमन्वग्यमं विद्रुताम् ॥ ९॥ मर्माणि व्यथयन्तु गाढकुपिता निस्सन्धिबन्धानि मे व्याकर्षन्त्वसुपञ्जरं यमभटाः पाशैर्दृढं पाशितम् । सन्ताम्यन्तु ममेन्द्रियाणि सकलान्यन्ते परं ते विभो चेतश्चुम्बतु कालमाथिचरणं त्वामम्बिकार्धासनम् ॥ १०॥ नित्यं यो नियतः पठत्यवहितो मृत्युञ्जयाख्यस्तवं ध्यायन्नात्मनि सुप्रसन्नवदनाम्भोजै भवानीपतिम् । निर्धूतापमृतिस्स जीवति चिरादन्ते च मृत्युञ्जयं साक्षात्कृत्य महीयते शिवपदे निश्शोकमोहे सुखम् ॥ ११॥ श्रीरामभद्रयोगीन्द्रचरणाम्बुजरेणुना । कृष्णानन्दयतीन्द्रेण कृतं मृत्युञ्जयाष्टकम् । इति कृष्णानन्दकृतिषु मृत्युञ्जयाष्टकं सम्पूर्णम् ॥ Proofread by Rajesh Thyagarajan
% Text title            : Mrityunjaya Ashtakam 2
% File name             : mRRityunjayAShTakam2.itx
% itxtitle              : mRityunjayAShTakam 2 (shrIkRiShNAnandasarasvatIvirachitam bhaktaikAntavashaMvadena bhavateM saNkupyatA vetsi yan)
% engtitle              : mRityunjayAShTakam 2
% Category              : shiva, aShTaka
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : Krishnananda Saraswati
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : Minor works of Shri Krishnananda Saraswati
% Indexextra            : (Scan)
% Latest update         : November 6, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org