अपरो द्वादशाक्षरो मृत्युञ्जयः
``ॐ जूँ सः पालय पालय सः जूँ ॐ''
ॐ अस्य श्रीद्वादशाक्षरमृत्युञ्जयमन्त्रस्य श्रीकहोल ऋषिः,
देवी गायत्री छन्दः मृत्युञ्जयरुद्रो देवता, जूँ बीजं, सः शक्तिः,
सर्वारिष्टाल्पमृत्युनाशार्थे जपे विनियोगः ।
ॐ हर हर स्वाहा हृदये । ॐ कपर्दिने स्वाहा शिरसे ।
ॐ नीलकण्ठाय स्वाहा शिखायै वषट् ।
ॐ कालकूटविषभक्षणाय स्वाहा कवचाय हुँ ।
ॐ नीलकण्ठिने स्वाहा अस्त्राय फट् ।
अथ ध्यानं -
बालार्कायुततेजसं धृतजटाजूटेन्दुखण्डोज्ज्वलं
नागेन्द्रैः कृतभूषणं जपवटीं शूलं कपालं करैः ।
खट्वाङ्गं दधतं त्रिनेत्रविलसत्पञ्चाननं सुन्दरं
व्याघ्रत्वक्परिधानमक्षवलयं श्रीनीलकण्ठं भजे ॥ १॥
एवं ध्यात्वा मानसोपचारैः सम्पूज्य जपेत् ॥
मनुनाऽनेन सञ्जप्तैः कुम्भस्थैः सलिलैः शुभैः ।
अभिषिञ्चेत् विषाक्रान्तं विषान् मुच्येत स द्रुतम् ।
स्पृष्ट्वा जपेद्विषाक्रान्तं तत्क्षणान्निर्विषो भवेत् ॥
इति अपरो द्वादशाक्षरो मृत्युञ्जयः सम्पूर्णः ।
Proofread by Paresh Panditrao